SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ संक्लेशो भविता, 'अवश्यम्' असन्दिग्धं वयमपि तत्र गताः 'न तरामः' न निर्वहामः, ग्लानप्रतिचरणाथमागतानां कियतां वा ते वास्तव्या विश्रामणादि प्राघूर्णककर्म करिष्यन्ति ? यतः ते 'तेनैव' ग्लानेनं 'तेषु' कार्येषु 'अद्दन्नाः' आकुलीभूताः ॥ १८८८ ॥ तथा___ अस्माभिरपि तत्र गतैर्नियमाद् 'अवमानम्' अवमम् 'उद्गमदोषाश्च' आधाकर्म-मिश्रजात5 प्रभृतयः आदिशब्दादेषणादोषाश्च भविष्यन्ति । एवं तत्र तेषां भणतां चत्वारो मासा गुरुका भवेयुः ॥ १८८९ ॥ अथ लुब्धद्वारमाह-~ अम्हे मों निजरट्ठी, अच्छह तुब्भे वयं से काहामो । अत्थि य अभाविया णे, ते वि य णाहिंति काऊण ॥ १८९०॥ मासकल्पस्थितैः साधुभिः श्रुतम् , यथा-अमुकत्र ग्रामे ग्लानः सञ्जातोऽस्ति । तच्च क्षेत्रं 10वसति-पानक-गोरसादिभिः सर्वैरपि गुणैरुपेतम् , ततस्ते लोभाभिभूतचेतसश्चिन्तयन्ति-'ग्लानमिषमन्तरेण न शक्यते क्षेत्रमिदं प्रेरयितुम् , अतो गच्छामो वयम्' इति चिन्तयित्वा तत्र गत्वा भणन्ति-वयं 'निर्जरार्थिनः' म्लानवैयावृत्त्यकरणेन कर्मक्षयमभिलषमाणा इहायाताः स्मः, अतो यूयं तिष्ठथ वयं "से" तस्य ग्लानस्य वैयावृत्त्यं करिष्यामः, सन्ति चास्माकमभाविताः शैक्षा स्तेऽपि चास्मान् वैयावृत्त्यं कुर्वतो दृष्ट्वा ज्ञास्यन्ति ॥ १८९० ॥ सानामि 15 एवं गिलाणलक्खेण संठिया पाहुण त्ति उक्कोसं । षेण क्षेत्र मग्गंता चमदिती, तेसिं चारोवणा चउहा ॥ १८९१॥ प्रेरयता ___एवं ग्लानसम्बन्धि यद् लक्ष्यं-मिषं तेन तत्र संस्थिताः सन्तः प्राघूर्णका इति कृत्वा लोकाद् प्रायश्चित्तानि 'उत्कृष्टं' स्निग्ध-मधुरद्रव्यं लभन्ते, अथ न खयं लोकः प्रयच्छति ततः 'मार्गयन्तः' 'प्राघूर्णका वयम्' इति मिषेणावभाषमाणास्तत् क्षेत्रं चमढयन्ति, चमढिते च क्षेत्रे ग्लानप्रायोग्यं न लभ्यते 20 ततस्तेषामियं चतुर्विधाऽऽरोपणा कर्तव्या । तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च ॥१८९१॥ तत्र द्रव्यतस्तावदाह फासुगमफासुगे वा, अचित्त चित्ते परित्तऽणंते य । असिणेह-सिणेहकए, अणहारा-ऽऽहार लहु-गुरुगा॥ १८९२ ॥ क्षेत्रोद्वेजनादोषेण ग्लानप्रायोम्यमलभमाना यदि प्राशुकमवभाषन्ते परिवासयन्ति वा ततश्च25 त्वारो लघुकाः । अथाप्राशुकमवभाषन्ते परिवासयन्ति वा ततश्चत्वारो गुरुकाः । इह च प्राशुकमेषणीयम् अप्राशुकमनेषणीयम् । स आह च निशीथचूर्णिकृत् इह फासुगं एसणिजं ति ।अचित्ते अवभाष्यमाणे परिवास्यमाने वा चतुर्लघु । सचित्ते चतुर्गुरु । एवं परीत्ते चतुर्लघु । अनन्ते चतुर्गुरु । अस्नेहे चतुर्लघु । सस्नेहे चतुर्गुरु । अनाहारे चतुर्लघु । आहारे चतुर्गुरु 30 ॥ १८९२ ॥ उक्तं द्रव्यनिष्पन्नं प्रायश्चित्तम् । अथ क्षेत्रनिष्पन्नमाह लुद्धस्सऽब्भंतरतो, चाउम्मासा हवंति उग्धाता। बहिया य अणुग्धाया, दव्वालंभे पसज्जणया ॥ १८९३ ॥ १°न सुष्छु-अतीव अद्दन्नाः-आकुलीकृताः भा० ॥ २१» एतदन्तर्गतः पाठः भा० नास्ति ।।
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy