________________
भाप्यगाथाः १८५७-६५]
प्रथम उद्देशः ।
परः प्राह
का भयणा जइ कारणि, जयणाएँ अकप्प किंचि पडिसेवे।
तो सुद्धो इहरा पुण, न सुज्झए दप्पओ सेवं ॥ १८६१॥ का पुनः ‘भजना ?' विकल्पना ? । सूरिराह—कारणे यतनया पुरःकर्मादि किश्चिदकल्प्यं यदि प्रतिसेवेत ततः शुद्धः । 'इतरथा पुनः' अयतनया दर्पतो वा सेवमानो न शुध्यति । ॥ १८६१ ॥ अथ पुरःकर्मवर्जने कारणमुपदर्शयति
समणुन्नापरिसंकी, अवि य पसंगं गिहीण वारिता ।
गिण्हंति असढभावा, सुविसुद्धं एसियं समणा ॥ १८६२ ॥ सैमनुज्ञा नाम-पुरःकर्मकृतं गृह्णतामप्कायविराधनानुमतिस्तत्परिशङ्किनः-तद्दोषभीताः पुरःकर्म परिहरन्ति । अपि च यदि पुरःकर्मकृतां भिक्षां ग्रहीप्यामस्ततो गृहिणां भूयः पुरःकर्म-10 करणे प्रसङ्गो भवति अतस्तं 'वारयन्तः' तदग्रहणेनार्थात् प्रतिषेधयन्तोऽशठभावाः सन्तः श्रमणाः सुविशुद्धमेषणीयं गृह्णन्ति ॥ १८६२ ।। अथ हस्तद्वारं विवृणोति
किं उवघातो हत्थे, मत्ते दव्वे उदाहु उदगम्मि । - तिनि वि ठाणा सुद्धा, उदगम्मि अणेसणा भणिया ॥ १८६३ ॥ शिष्यः प्रश्नयति-पुरःकर्मणि कृते किं हस्ते 'उपघातः' अनेषणीयता ? उत मात्रके ? 15 आहोश्चिद् द्रव्ये ? उताहो उदके ? । सूरिराह-हस्त-मात्रक-द्रव्याणि त्रीण्यपि स्थानानि 'शुद्धानि' नैतान्यनेषणीयानि, किन्तूदकेऽनेषणीयता भणिता ॥ १८६३ ॥ अत्रैवोपपत्तिमाह
जम्हा तु हत्थ-मत्तेहिं कप्पती तेहिं चेव तं दव्वं ।
अत्तद्विय परिभुत्तं, परिणत तम्हा दगमणेसि ॥ १८६४ ॥ यस्मात् ताभ्यामेव हस्त-मात्रकाभ्यां तदेव द्रव्यमात्मार्थितं सत् परिभुक्तशेष वा परिणतेऽ-20 प्काये कल्पते, तस्मादुदकमेवानेषणीयं न हस्त-मात्रक-द्रव्याणीति ॥ १८६४ ॥ एवमशनादिविषयो विधिरुक्तः । सम्प्रति नियुक्तिगाथया वस्त्रविषयं तमेवाह
किं उवघातो धोए, रत्ते चोक्खे सुइम्मि व कयम्मि।
अत्तट्ठिय-संकामियगहणं गीयत्थसंविग्गे ॥ १८६५ ॥ 'धोतं' मलिनं सत् प्रक्षालितम् , रक्तं' धातुप्रभृतिभिर्द्रव्यै रक्तीकृतम् , 'चोक्खं' रजकपा - 25 दतीवोज्वलं कारितम् , 'शुचिकम्' अशुच्यादिनोपलिप्तं सत् पवित्रीकृतम् , एतानि साध्वर्थ वस्त्रे कृतानि भवेयुः । ततश्च शिष्यः पृच्छति-किं धौते उपघातः ? उत रक्ते ? उताहो चोक्खे ? आहोश्चित् शुचीकृते ? । अत्रापि तदेव निर्वचनम् , नैतेषां चतुर्णामेकतरस्मिन्नप्युपघातः, किन्तूदक एव । यत एतदपि साधुना प्रतिषिद्धं सद् यद्यात्मार्थितं सामितं वा अन्यस्मै
१ कारणे पुरःकर्मादिकमासेवमानः शुध्यति । निष्कारणे अयतनया वा सेवमानो भा० ॥ २ समनुज्ञां परिशङ्कितुं शीलमेषां ते समनुज्ञापरिशकिना, 'मा भूदस्माकं पुरःकर्मकृतं गृह्णतामनुमतिदोपः' इत्याशय परिहरन्तीति भावः । तथा यदि पुरकर्म° भा० ॥ ३°ति वस्त्र मो० ले० विना ॥