________________
प्रथम उद्देशः ।
समणेहिं अभणतो, गिरिभणिओ अप्पणो व छंदेणं ।
मोतु अजाणग मीसे, गिव्हंति उ जाणगा साहू ॥१८४४ ॥ पुरःकर्मकारिणि प्रतिषिद्धे 'श्रमणैः ' साधुभिरभण्यमानो यद्यन्यो दाता गृहिणा केनापि भणित आत्मनो वा 'छन्देन' अभिप्रायेण ददाति तदा मुक्त्वा 'अज्ञान' अगीतार्थान् 'मिश्राँश्च' अगीतार्थमिश्रान् ‘ज्ञायकाः’ गीतार्थास्तद् द्रव्यमात्मार्थितं गृह्णन्ति ॥ १८४४ ॥ अथ किमर्थम- 5 गीतार्थेषु न गृह्यते ? इति सम्बन्धायातं प्रसजनाद्वारं विवृण्वन् तावदगीतार्थाभिप्रायमाहअम्हट्ठसमारद्धे, तद्दव्वऽण किह णु निद्दोसं । सविसन्नाहरणेणं, मुज्झइ एवं अजाणतो ।। १८४५ ।।
अस्माकमर्थायाप्काये समारब्धे सति दायकेन यद् द्रव्यं गृहीतं तद् अन्येन दीयमानं कथं नु निर्दोषम् ? सदोषमेवेति भावः । कुतः ? इत्याह – 'सविषान्नाहरणेन ' सविषं यद् अन्नं 10 तद्दृष्टान्तेन । यथा हि वैरिणोऽर्थाय केनचिद् विषयुक्तं भक्तं कृतं तद् अन्येन दीयमानं किं सदोषं न भवति ? एवमस्मदर्थमुदकस्यारम्भं कृत्वा या भिक्षा गृहीता तां यद्यन्यो ददाति तदा किं दोषो न प्रसजति ? इति । एवमजानन्नगीतार्थो मुह्यति, न पुनर्भावयति, यथा--- -तद् अन्येन दीयमानं पुरः कर्मैव न भवति । यत एवमतोऽगीतार्थेषु मिश्रेषु वा परिहर्त्तव्यम् ॥ १८४५ ॥ गीतार्थेषु विधिमाह -
15
एगेण समारद्धे, अन्नो पुण जो तहिं सयं देइ ।
जइ जाणगा उ साहू, परिभोतुं जे सुहं होइ ॥ १८४६ ॥
एकेन पुरः कर्मणि समारब्धे यद्यन्यः स्वयं ददाति यदि च 'ज्ञायकाः ' गीतार्थाः साधवस्ततः परिभोक्तुं “जे” इति पादपूरणे सुखं भवति, परिभोक्तव्यं तदिति भावः || १८४६ ॥ अथवागीयत्थेसु वि भयणा, अन्नो अन्नं व तेण मत्तेणं ।
भाष्यगाथाः १८४१-४८]
५४१
20
विप्परिणयम्मि कप्पर, ससिणिदउल पडिकुट्ठा || १८४७ ॥
गीतार्थेष्वपि भजना कार्या । कथम् ? इत्याह – 'अन्यः' पुरुषोऽन्यद् वा तद् वा द्रव्यं 'तेन' पुरः कर्मकृतेन मात्रकेण यदि ददाति तदा विपरिणतेऽप्काये आत्मार्थिते च सति कल्पते । यदि तु सस्निग्धमुदका वा दायकस्य पाणितलं भवति ततः प्रतिक्रुष्टा सा भिक्षा, न कल्पत इत्यर्थः ॥ १८४७ || अथ कल्पस्थिकाद्वारं व्याख्याति -
I
25
तरुणी पिंडियाओ, कंदप्पा जइ करे पुरेकम्मं ।
पढम - विइयासु मोत्तुं, सेसे आवज चउलहुगा || १८४८ ॥
काश्चित् 'तरुण्यः' युवतयः 'पिण्डिताः ' एकत्र मिलिताः साधुं समायान्तं दृष्ट्वा परस्परं जल्पन्ति —‘एतेषां तावदेतदर्थं धौतेन हस्तेन मात्रकेण वा दीयमानं न कल्पते, अतः पश्यामस्तावदेनम्, अस्माभिः खलीकृतः किमेष करोति ?' इत्येकया तासां मध्यादुत्थाय पुरः कर्म 30 कृतम्, ततः साधुः प्रतिनिवर्त्तितुं लमः; द्वितीया त्रवीति - प्रतीक्षख भगवन् ! अहं ते दास्यामि; ततो भूयोऽप्यागतस्य तस्य तयाऽपि पुरःकर्म कृतम् ; ततः प्रतिनिवर्त्तमानं यदि तृतीया काचि
१ र्था गृहन्ति || १८४४ ॥ गतम् " एकेन द्वितीयग्रहणे " इति द्वारम् । अथ किमर्थ भा० ॥