________________
5
५४२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ दाकारयति तदा ज्ञातव्यम् , यथा-एता मां खलीकुर्वन्ति; अतो न प्रतिनिवर्तितव्यम् । अत एवाह—यदि ताः कन्दर्पात् पुरःकर्म कुर्वीरन् ततः प्रथम-द्वितीये तरुण्यौ मुक्तवा शेषाभिराकारितः प्रतिनिवर्तमान आपद्यते चतुर्लघुकम् ॥ १८४८ ॥ अथ वारणललिताशनिकद्वारं व्याचष्टे
पुरकम्मम्मि कयम्मी, जइ भण्णइ मा तुमं इमा देउ । __संकापदं व होजा, ललितासणिओ व सुव्बत्तं ॥ १८४९ ॥ पुरःकर्मणि कृते यदि साधुना दात्री भण्यते ‘मा दास्त्वम् इयं ददातु' ततः सा चिन्तयति-अहं विरूपा वृद्धा वा अतो नास्मै प्रतिभामि, इयं तु सुरूपा यौवनमधिरूढा प्रतिभा
सते । शङ्कापदं वा तस्याश्चेतसि भवेत्–किमेष एतया सह घटितो यदेवमस्याः पार्थाद् 10 भिक्षा ग्रहीतुमिच्छति । यदि वा ब्रूयात्-भवान् सुव्यक्तं ललिताशनिको लक्ष्यते यदेवं यथाभिलषितां परिवेषिकामभिकाङ्क्षसि । अत इयं ददातु मा त्वमिति न वक्तव्यम् ॥१८४९॥ __ अथ गत्वेतिद्वारं व्याख्यानयति
गंतूण पडिनियत्तो, सो वा अन्नो व से तयं देइ ।
अन्नस्स व दिजिहिई, परिहरियव्वं पयत्तेणं ॥ १८५०॥ 15 कृतपुरःकर्मा दायको भिक्षां ददानः साधुना प्रतिषिद्धश्चिन्तयति–'यदेष साधुरस्यां गृहपतौ गत्वा प्रतिनिवृत्तः समायास्यति तदा दास्यामि' इति तद् द्रव्यं स वा अन्यो वा दायकः "से" तस्य साधोर्ददाति तदा न कल्पते । अथ यद्येष न गृह्णाति ततः 'अन्यस्य' साधोर्दास्यते इति सङ्कल्पयति ततस्तेनापि परिहर्त्तव्यं तद् भक्तं प्रयत्नेन । एषा नियुक्तिगाथा ॥ १८५० ॥ ... अस्या एवं भाष्यकारो व्याख्यानमाह
पुरकम्मम्मि कयम्मी, पडिसिद्धो जइ भणिज्ज अन्नस्स ।
दाहं ति पडिनियत्ते, तस्स व अन्नस्स व न कप्पे ॥ १८५१ ॥ पुरःकर्मणि कृते प्रतिषिद्धो दायको यदि भणेत्-अन्यस्मै साधवे दास्यामीति । ततः प्रतिनिवृत्तस्य तस्य वा अन्यस्य वा न कल्पते ॥ १८५१ ॥ तथा
भिक्खयरस्सऽनस्स व, पुच्वं दाऊण जइ दए तस्स ।
सो दाया तं वेलं, परिहरियव्यो पयत्तेणं ॥ १८५२॥ ___पुरःकर्मणि कृते पूर्वमन्यस्य भिक्षाचरस्य भिक्षां दत्त्वा पश्चादच्छिन्नव्यापारः 'तस्य' साधोमिक्षां दद्यात् , स दाता तस्यां वेलायां प्रयत्नेन परिहर्त्तव्य इति ॥ १८५२ ॥ अमुमेवार्थ किञ्चिद्विशेषयुक्तमाह
अन्नस्स व दाहामी, अण्णस्स व संजयस्स न वि कप्पे ।
अत्तट्ठिए व चरगाइणं च दाहं ति तो कप्पे ॥ १८५३ ॥ अन्यस्मै वा साधवे दास्यामीति यदि सङ्कल्पयति तदा अन्यस्यापि संयतस्य नैव कल्पते । १ एतदन्तर्गतः पाठः भा० त० डे. नास्ति ॥ २°षा पुरातना गा भा० कां । "गंतूण पडिनियत्तो० गाहा पुरातना" इति विशेषचूर्णौ ॥ ३ °व व्या भा० कां० ॥
20
30