________________
५४०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ ततः साधुजनसाङ्केतिकी रेखा करणीया । यदि तस्याः ‘स्पर्शना' पादोपघातेन मर्दना तद्विषया आशङ्कादोषा भवेयुः, बहुवचननिर्देशादन्योऽपि रेखां करोतीत्याद्याशङ्कापरिग्रहः, ततस्तावेव साधू भिक्षामटन्तावपरेषां साधूनां कथयतः, तेऽपि हिण्डमाना एव परम्परया सर्वसाधूनां कथयन्ति । इत्थं येषां परिहरणविधिस्ते सुव्यक्तमज्ञा मन्तव्याः ॥ १८४० ॥ उपसंहरन्नाह
एसा अविही भणिया, सत्तविहा खलु इमा विही होइ ।
तत्थाई चरिमदुए, अत्तट्ठियमाइ गीयस्स ॥ १८४१ ॥ एषा अविधिपरिहरणां सप्तविधा भणिता । 'इयं तु' वक्ष्यमाणा विधिपरिहरणा भवति । सा चाष्टविधा । 'तंत्र' अष्टानां भङ्गानां मध्याद यदाद्यं पदं यच्च चरमम्-अन्तिम प्रकारद्वयं तेषु त्रिषु भेदेषु आत्मार्थिते आदिशब्दात् सङ्क्रामिते च सति गीतार्थस्य ग्रहणं भवति । एतच्च 10 यथास्थानं भावयिष्यते ॥ १८४१॥ के पुनस्तेऽष्टौ भेदाः ? उच्यन्ते
एगस्स बीयगहणे १, पसजणा तत्थ होइ २ कब्बट्ठी ३ ।
वारण ललियासणिओ ४, गंतूणं ५ कम्म ६ हत्थ ७ उप्फोसे ८ ॥१८४२॥ "एगस्से"ति विभक्तिव्यत्ययादेकेन पुरःकर्मणि कृते यदि द्वितीयो ददाति तदा तस्य द्वितीयस्य हस्ताद ग्रहणे विधिर्वक्तव्यः १ । तथा “पसज्जण" त्ति अगीतार्थाभिप्रायेण "तत्थ" 15 ति 'तत्र' द्वितीयेऽपि दायके 'प्रसजना' प्रसङ्गदोषो भवतीति वक्तव्यम् २ । “कप्पट्टि" ति 'कल्पस्थिकाः' तरुणस्त्रियः केलिप्रियतया अभीक्ष्णं पुरःकर्म यथा कुर्वन्ति तथा निरूपणीयम् ३ । "वारण ललियासणिओ" त्ति यदि साधुः 'त्वं मा देहि एषा दास्यति' इत्यविधिना पुरःकर्मकारिणी वारयति तदा ललिताशनिक इति तया यथा गण्यते तथा वक्तव्यम् ४ । “गंतूणं" ति 'गत्वा प्रतिनिवृत्तायास्मै दास्यामि' इति बुद्ध्या यदि दाता हस्तगृहीतया भिक्षया तिष्ठति तदा न कल्पते 20 इति वाच्यम् ५ । “कम्मे" त्ति द्रव्यभावभेदभिन्नं पुरःकर्म यथा भवति तथा दर्शनीयम् ६ ।
"हत्थ" ति तत्र पुरःकर्मणि किं हस्ते उपघातः ? उत मात्रके ? इत्यादि चिन्तनीयम् ७ । "उप्फोसे" ति उत्स्पर्शनं-छन्दनं तद् वस्त्रविषयं वक्तव्यम् इति द्वारगाथासमासार्थः ॥१८४२॥ अथ विस्तरार्थमभिधिलुराह
एगेण समारद्धे, अन्नो पुण जो तहिं सयं देइ । 25
जयऽजाणगा भवंती, परिहरियव्वं पयत्तेण ॥ १८४३ ॥ 'एकेन' दायकेन पुरःकर्मणि समारब्धे साधुना प्रतिषिद्धे तद् द्रव्यं यद्यन्यः स्वयमेव कश्चिद् ददाति तदा ते साधवो यदि 'अज्ञाः' अगीतार्था अगीतार्थमिश्रा वा भवन्ति ततः परिहर्तव्यं प्रयत्नेन ॥ १८४३ ॥ इदमेवं व्यतिरेकेणाह--
१ तत्र यदाद्यं मो० ले० विना ॥ २ यद्यन्यो ददाति तदा किं कल्पते? न वा? इति वक्तव्यं विधिर्वक्तव्यः । तृतीयोऽपि दाता यदि पुरःकर्म करोति तदा तत्र 'प्रसजना' प्रसङ्गदोषो भवति तां च 'कल्पस्थिकाः' तरुणस्त्रियः कुर्वन्ति । "वारण भा० ॥ ३°ति गण्यते ४ । “गं° मो० ले० विना ॥ ४ ते ५। "क° मो० ले० विना ॥ ५°कर्म भवति । "ह मो० ले० विना ॥ ६°त्सुः प्रथमतः एकेन इति द्वारं विवृणोति भा० ॥ ७°दा यदि मो० ले० विना ॥ ८°व स्पष्टतरमाह भा० ॥