________________
५३९
भाष्यगाथाः १८३०-४०] प्रथम उद्देशः । इत्यं परैरुक्ते सति सूरिराह
एगस्स पुरेकम्मं, वत्तं सव्वे वि तत्थ वारिंति ।
दव्वस्स य दुल्लभता, परिचत्तों गिलाणओ तेहिं ॥ १८३६ ॥ ___ 'एकस्य' साधोराय पुरःकर्म यत्र 'वृत्तं' सञ्जातं तत्र ये सर्वेषामेकस्य वा सर्वद्रव्याणि उपलक्षणत्वादेकमपि द्रव्यं यावज्जीवं तद्दिनं वा वारयन्ति तैर्द्रव्यस्य ग्लानप्रायोग्यस्यान्यत्र । दुर्लभतया ग्लानः परित्यक्तो मन्तव्यः ॥ १८३६ ॥ एतदेव सविशेषमाह
जेसि एसुवएसो, आयरिया तेहि ऊ परिचत्ता।
खमगा पाहुणगा वि य, सुव्वत्तमजाणगा ते उ ॥ १८३७ ॥ 'येषां' यथाच्छन्दवादिनां 'एषः' सर्वद्रव्यग्रहणादिप्रतिषेधरूप उपदेशस्तैराचार्याः क्षपकाः प्राघूर्णकाश्च परित्यक्ता द्रष्टव्याः, तत्प्रायोग्यस्य घृतादिद्रव्यस्यान्यत्र दुर्लभत्वात् । ते च 'सुव्यक्तं' 10 परिस्फुटम् 'अज्ञाः' मूर्खाः, अतत्त्ववेदित्वात् । खच्छन्दप्ररूपणानिष्पन्नं चामीषां चतुर्गुरु प्रायश्चित्तम् ॥ १८३७ ॥ तत्र ये सर्वानपि साधून् परिहारं कारयन्ति ते खपक्षसाधनसमर्थ विधिमाहुः
अद्धाणनिग्गयाई, उन्भामग खमग अक्खरे रिक्खा ।
मग्गण कहण परंपर, सुव्वत्तमजाणगा ते वि ॥ १८३८॥ यत्र गृहे पुरःकर्म कृतं तत्राध्वनिर्गतादयः 'उद्धामका वा' बहिर्गामे भिक्षाटनशीलाः 'अजा-15 नन्तो मा प्रविक्षन्' इति कृत्वा क्षपकस्तत्र स्थाप्यते । अथ नास्ति क्षपकस्ततः कुड्यादावक्षराणि लिख्यन्ते, यथा--अत्र पुरःकर्म कृतम् , न केनापि भिक्षा ग्राह्येति । अथ तावक्षराणि लिखितुं न जानीतस्ततो रेखा कर्तव्या । अथ कृताऽपि सा केनापि भज्येत ततोऽपरेषां साधूनां मार्गणं कृत्वा मिलितानां कथनीयम्-अमुष्मिन् गृहे पुरःकर्म कृतम् । तेऽपि परम्परया सर्वसाधून ज्ञापयन्ति । इत्थं ये ब्रुवते सुव्यक्तं तेऽप्यज्ञा मन्तव्याः ॥ १८३८ ॥ अथैतदेव भावयति-20
उब्भामग-ऽणुब्भामग-सगच्छ-परगच्छजाणणट्टाए । अच्छइ तहियं खमओ, तस्सऽसइ स एव संघाडो ॥ १८३९ ॥ जइ एगस्स वि दोसा, अक्खर न उ ताइँ सव्वतो रिक्खा ।
जइ फुसण संकदोसा, हिंडंता चेव साहति ॥ १८४०॥ उझामकाणां-बाह्यग्रामे भिक्षाटनं विधायापर्याप्ते तत्रैव भिक्षामटताम् अनुन्झामकाणां-मौल-28 ग्रामे भिक्षापरिभ्रमणशीलानां खगच्छीयानां परगच्छीयानां च सर्वेषां ज्ञापनार्थ क्षपकस्तत्र गृहे निषण्णस्तिष्ठति । स च यो यः सङ्घाटकस्तत्रागच्छति तस्य तस्य कथयति-अत्र पुरःकर्म कृतं वर्तते । अथ नास्ति क्षपकः पारणकं वा तस्य तद्दिने ततो यदर्थ पुरःकर्म कृतं स एव सङ्घाटकस्तत्र तिष्ठति ॥ १८३९ ।। __ अथ तयोरेकः प्रथम-द्वितीयपरीषहपीडितो न शक्नोति स्थातुम् ततः स प्रतिश्रयं व्रजति 30 द्वितीयस्तु तत्रास्ते । अथैकस्य तस्य तिष्ठतः स्त्रीसमुत्थादयो दोषाः ततः कुड्यादिषु पुरःकर्मकरणसूचकान्यक्षराणि लिख्यन्ते । अथ 'न तु' नैव 'तानि' अक्षराणि सर्वेऽपि लिखितुं जानते १ सुत्तर्थम डे.॥