________________
५३८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ तापितं तत्रात्मार्थिते क्षिप्रमपि ग्रहणं कर्त्तव्यम् ॥ १८२९ ॥ __ गतं कस्येति द्वारम् । अथारोपणाद्वारमाह
चाउम्मासुक्कोसे, मासिय मज्झे य पंचग जहन्ने ।
पुरकम्मे उदउल्ले, ससिणिद्धाऽऽरोवणा भणिया ॥ १८३०॥ । उदकसमारम्भे पुरःकर्मोत्कृष्टमपराधपदम् , उदकाइँ मध्यमम् , सस्निग्धं जघन्यम् । उत्कृष्ट चत्वारो मासा लघवः, मध्यमे लघुमासिकम् , जघन्ये पञ्चरात्रिन्दिवानि । एवं पुरःकर्मोदकासस्निग्धेषु यथाक्रममारोपणा भणिता ॥ १८३० ॥ अथ परिहरणाद्वारमाह
परिहरणा वि य दुविहा, विहि-अविहीए अ होइ नायव्वा ।
पढमिल्लगस्स सव्वं, विइयस्स य तम्मि गच्छम्मि ॥ १८३१ ॥ 10
तइयस्स जावजीवं, चउथस्स य तं न कप्पए दव्वं ।
तद्दिवस एगगहणे, नियट्टगहणे य सत्तमए ॥ १८३२ ॥ परिहरणाऽपि च द्विविधा-विधिपरिहरणा अविधिपरिहरणा च भवति ज्ञातव्या । अविधिपरिहरणा सप्तविधा-तत्र प्रथमस्य नोदकस्य सर्वमपि द्रव्यजातं खगच्छे परगच्छे च याव
ज्जीवमकल्पनीयम् १, द्वितीयस्य तु तस्मिन्नेव गच्छे यावजीवम् २, तृतीयस्य यावज्जीवं तस्यै10 वैकस्य साधोः सर्वमपि द्रव्यजातम् ३, चतुर्थस्य तु तद् द्रव्यमेकं यावज्जीवम् ४, पञ्चमस्य तु तद्दिवसं सर्वद्रव्याणि ५, षष्ठस्य तु तस्यैवैकद्रव्यस्य ग्रहणं न कल्पते ६, सप्तमस्य निवृत्तः सन् स एव साधुः परिणतेन हस्तेन ग्रहणं करोतीत्यभिप्रायः ७ ॥ १८३१ ॥ १८३२ ॥ अथैतेषामेव पराभिप्रायेण व्याख्यानमाह
पढमो जावजीवं, सव्वेसिं संजयाण सव्वाणि ।
दव्वाणि निवारेई, वीओ पुण तम्मि गच्छम्मि ॥ १८३३ ॥ प्रथमो नोदको यस्मिन् गृहे पुरःकर्म कृतं तत्र यावदसौ पुरःकर्मकारी दाता यदर्थ च तत् पुरःकर्म कृतं तौ यावद् जीवतस्तावत् खगच्छ-परगच्छसत्कानां सर्वेषां संयतानां सर्वाणि द्रव्याणि निवारयति । द्वितीयः पुनस्तस्मिन् गच्छे सर्वेषामपि साधूनां यावज्जीवं सर्वद्रव्याणि निवारयति ॥ १८३३ ॥ 25 तइओ जावजीवं, तस्सेवेगस्स सव्वदव्वाइं ।
वारेइ चउत्थो पुण, तस्सेवेगस्स तं दव्वं ॥ १८३४ ॥ तृतीयो ब्रवीति-यदर्थं पुरःकर्म कृतं तस्यैवैकस्य यावज्जीवं सर्वद्रव्याणि न कल्पन्ते । चतुर्थस्तु तदेवैकं द्रव्यं तस्यैवैकस्य यावज्जीवं वारयति ॥ १८३४ ॥
सव्वाणि पंचमो तद्दिणं तु तस्सेव छट्ठों तं दव्वं ।
सत्तमओं नियटुंतो, गिण्हइ तं परिणयकरम्मि ॥ १८३५ ॥ पञ्चमो ब्रवीति-तदेवैकं दिनं सर्वाणि द्रव्याणि तदीयगृहे न कल्पन्ते । षष्ठो ब्रूते-तदेवैकं द्रव्यं तस्य गृहे तद्दिनं मा गृह्यताम् । सप्तमः प्राह--'परिणतकरे' परिणताप्काये सति हस्ते भिक्षामटित्वा निवर्तमानस्तत्रैव गृहे स एव साधुः सर्वव्याणि गृहातु न कश्चिद दोषः ॥१८३५॥