Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 331
________________ 5 ५४२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ दाकारयति तदा ज्ञातव्यम् , यथा-एता मां खलीकुर्वन्ति; अतो न प्रतिनिवर्तितव्यम् । अत एवाह—यदि ताः कन्दर्पात् पुरःकर्म कुर्वीरन् ततः प्रथम-द्वितीये तरुण्यौ मुक्तवा शेषाभिराकारितः प्रतिनिवर्तमान आपद्यते चतुर्लघुकम् ॥ १८४८ ॥ अथ वारणललिताशनिकद्वारं व्याचष्टे पुरकम्मम्मि कयम्मी, जइ भण्णइ मा तुमं इमा देउ । __संकापदं व होजा, ललितासणिओ व सुव्बत्तं ॥ १८४९ ॥ पुरःकर्मणि कृते यदि साधुना दात्री भण्यते ‘मा दास्त्वम् इयं ददातु' ततः सा चिन्तयति-अहं विरूपा वृद्धा वा अतो नास्मै प्रतिभामि, इयं तु सुरूपा यौवनमधिरूढा प्रतिभा सते । शङ्कापदं वा तस्याश्चेतसि भवेत्–किमेष एतया सह घटितो यदेवमस्याः पार्थाद् 10 भिक्षा ग्रहीतुमिच्छति । यदि वा ब्रूयात्-भवान् सुव्यक्तं ललिताशनिको लक्ष्यते यदेवं यथाभिलषितां परिवेषिकामभिकाङ्क्षसि । अत इयं ददातु मा त्वमिति न वक्तव्यम् ॥१८४९॥ __ अथ गत्वेतिद्वारं व्याख्यानयति गंतूण पडिनियत्तो, सो वा अन्नो व से तयं देइ । अन्नस्स व दिजिहिई, परिहरियव्वं पयत्तेणं ॥ १८५०॥ 15 कृतपुरःकर्मा दायको भिक्षां ददानः साधुना प्रतिषिद्धश्चिन्तयति–'यदेष साधुरस्यां गृहपतौ गत्वा प्रतिनिवृत्तः समायास्यति तदा दास्यामि' इति तद् द्रव्यं स वा अन्यो वा दायकः "से" तस्य साधोर्ददाति तदा न कल्पते । अथ यद्येष न गृह्णाति ततः 'अन्यस्य' साधोर्दास्यते इति सङ्कल्पयति ततस्तेनापि परिहर्त्तव्यं तद् भक्तं प्रयत्नेन । एषा नियुक्तिगाथा ॥ १८५० ॥ ... अस्या एवं भाष्यकारो व्याख्यानमाह पुरकम्मम्मि कयम्मी, पडिसिद्धो जइ भणिज्ज अन्नस्स । दाहं ति पडिनियत्ते, तस्स व अन्नस्स व न कप्पे ॥ १८५१ ॥ पुरःकर्मणि कृते प्रतिषिद्धो दायको यदि भणेत्-अन्यस्मै साधवे दास्यामीति । ततः प्रतिनिवृत्तस्य तस्य वा अन्यस्य वा न कल्पते ॥ १८५१ ॥ तथा भिक्खयरस्सऽनस्स व, पुच्वं दाऊण जइ दए तस्स । सो दाया तं वेलं, परिहरियव्यो पयत्तेणं ॥ १८५२॥ ___पुरःकर्मणि कृते पूर्वमन्यस्य भिक्षाचरस्य भिक्षां दत्त्वा पश्चादच्छिन्नव्यापारः 'तस्य' साधोमिक्षां दद्यात् , स दाता तस्यां वेलायां प्रयत्नेन परिहर्त्तव्य इति ॥ १८५२ ॥ अमुमेवार्थ किञ्चिद्विशेषयुक्तमाह अन्नस्स व दाहामी, अण्णस्स व संजयस्स न वि कप्पे । अत्तट्ठिए व चरगाइणं च दाहं ति तो कप्पे ॥ १८५३ ॥ अन्यस्मै वा साधवे दास्यामीति यदि सङ्कल्पयति तदा अन्यस्यापि संयतस्य नैव कल्पते । १ एतदन्तर्गतः पाठः भा० त० डे. नास्ति ॥ २°षा पुरातना गा भा० कां । "गंतूण पडिनियत्तो० गाहा पुरातना" इति विशेषचूर्णौ ॥ ३ °व व्या भा० कां० ॥ 20 30

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400