Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
...
10
भाष्यगाथाः १७६९-७४] प्रथम उद्देशः ।
. ५२३ स्वामी १ श्रीसुधर्मस्वामी २ जम्बूस्वामी ३ चेति त्रीणि पुरुषयुगानि यावदनगाराणां निर्वाणपदवीगमनमभवत् । तृतीये च पुरुषयुगे निवृते सति 'सिद्धिमार्गः' क्षपकश्रेणि-केवलोत्पत्त्यादिरूपो' व्यवच्छिन्नः, न पुनर्ज्ञान-दर्शन-चारित्ररूपः शास्त्रपरिभाषितः, तस्येदानीमप्यनुवर्तमानत्वात् । ततश्च यदि तेषां साधूनामुद्द्वमादिदोषशोधनं नाभविष्यत् ततस्ते सिद्धिमार्गमपि नासादयिष्यन् । अतो निश्चीयते-तेऽपि भगवन्त इत्थमेवैषणाशुद्धिं कृतवन्त इति ॥१७७०॥5 अथानुयानविषयो विधिरुच्यतेआणाइणो य दोसा, विराहणा होइ संजमा-ऽऽयाए।
अनुयान
गमने एवं ता वच्चंते, दोसा पत्ते अणेगविहा ॥ १७७१ ॥ [पि.नि.१८३]
विधिः निष्कारणे अनुयानं गच्छत आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मनोभवति । एवं तावद् व्रजतो मार्गे दोषाः । तत्र प्राप्तानां पुनरनेकविधा दोषाः ॥ १७७१ ॥ तत्र संयमा-ऽऽत्मविराधनां भावयति
महिमाउस्सुयभूए, रीयादी न विसोहए।
तत्थ आया य काया य, न सुत्तं नेव पेहणा ॥ १७७२ ।। . . महिमा नाम-भगवत्प्रतिमायाः पुप्पारोपणादिपूजात्मकः सातिशय उत्सवस्तस्या दर्शनार्थमुसुकभूत ईर्यादिसमितीन विशोधयति, आदिशब्दादेषणादिपरिग्रहः । 'तत्र च' ईर्यादीनामशोधने 15 आत्मा च कायाश्च विराध्यन्ते । आत्मविराधना कण्टक-स्थाण्वाद्युपघातेन, संयमविराधना षण्णां कायानामुपमर्दादिना । तथा त्वरमाणत्वादेव न सूत्रं गुणयति, उपलक्षणत्वादर्थं च नानुप्रेक्षते; नैव प्रतिलेखनां वस्त्र-पात्रादेः करोति, अकालेऽविधिना वा करोति ॥ १७७२ ॥ एवमेते मार्गे गच्छतां दोषा अभिहिताः । अथ तत्र प्राप्तानां ये दोषास्तानभिधित्सुारगाथामाह
चेइय आहाकम्म, उग्गमदोसा य सेह इत्थीओ। ... 20
नाडग संफासण तंतु खुड्ड निद्धम्मकजा य॥ १७७३ ॥ चैत्यानां स्वरूपं प्रथमतो वक्तव्यम् , तत आधाकर्म, तत उद्गमदोषाः, ततः शैक्षाणां पार्श्वस्थेषु गमनम् , ततः स्त्रीदर्शनसमुत्था दोषाः, ततो नाटकावलोकनप्रभवाः, ततः संस्पर्शनसमुत्थाः, तदनन्तरं तन्तवः-कोलिकजालं तद्विषयाः, तदनु "खुड्ड" ति पार्श्वस्थादिक्षुल्लकदर्शनसमुत्थाः, ततो निर्धर्मणां-लिङ्गिनां यानि कार्याणि तदुत्थिताश्च दोषा वक्तव्या इति द्वारगाथा-25 समासार्थः ॥ १७७३ ॥ अथैनामेव विवरीषुः प्रथमतश्चैत्यखरूपं व्याख्यातिसाहम्मियाण अट्ठा, चउन्विहे लिंगओ जह कुटुंबी।
चैत्यद्वारम् मंगल-सासय-भत्तीइ जं कयं तत्थ आदेसो ॥ १७७४ ॥ चैत्यानि चतुर्विधानि, तद्यथा--साधर्मिकचैत्यानि मङ्गलचैत्यानि शाश्वतचैत्यानि भक्तिचैत्यानि चेति । तत्र साधर्मिकाणामर्थाय यत् कृतं तत् साधर्मिकचैत्यम् । साधर्मिकश्चात्र द्विधा- 30
१ पो गृह्यते, न पुन मो० ले० ॥ २ तदनन्तरं निर्धर्मकार्यप्रभवाश्च दोषा भा० ॥ ३°ख्यानयति का० ॥ ४ चैत्यं चतुर्विधम् , तद्यथा-साधर्मिकचैत्यं मङ्गलचैत्यं शाश्वतचैत्यं भक्तिचैत्यं चेति भा० कां ॥
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400