Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 316
________________ भाष्यगाथाः १७८२-८८] प्रथम उद्देशः । ५२७ बंदिजंते दटुं, इयरे सेहा तहिं गच्छे ॥ १७८४ ॥ 'बहवः संयताः समायाताः' इति कृत्वा धर्मश्रद्धावान् लोकः संयतार्थं स्थापितं-भक्त-पानादेः स्थापनां कुर्यात् 'गृहमागतानामक्षेपेणैव दास्यामः' इति कृत्वा, "संछोभ" ति यानि गृहाणि साधुभिरनेषणीयदानेऽशङ्कनीयानि तेषु शाल्योदन-तन्दुलधावनादिकं भक्त-पानं मोदका-ऽशोकवर्तिप्रभृतीनि वा खाद्यकविधानानि निक्षिपेयुः 'साधूनामागतानां दातव्यानि' इति, आदिशब्दात् । क्रीतकृत-प्राभृतिकादिपरिग्रहः । एते उद्गमदोषास्तत्र 'दुःशोध्याः' दुप्परिहार्या भवन्ति । तथा 'इतरान्' पार्श्वस्थादीन् बहुजनेन वन्द्यमानान् पूज्यमानाँश्च दृष्ट्वा शैक्षाः 'तत्र' पार्श्वस्थादिषु गच्छेयुः ॥ १७८४ ॥ स्त्री-नाटकद्वारद्वयमाह इत्थी विउव्यियाओ, भुत्ता-ऽभुत्ताण दट्ट दोसा उ । एमेव नाडइजा, सविब्भमा नच्चिय-पगीया ॥ १७८५ ॥ स्त्रीः 'विकुर्विताः' वस्त्र-विलेपनादिभिरलङ्कता दृष्ट्वा भुक्ता-ऽभुक्तानां 'दोपाः' स्मृति-कौतुकप्रभवा भवन्ति । एवमेव 'नाटकीयाः' नाट्ययोषितः 'सविभ्रमाः' सविलासा नर्तित-गीतयोः प्रवृत्ता विलोक्य श्रुत्वा च भुक्ता-ऽभुक्तसमुत्था दोषा विज्ञेयाः ॥ १७८५ ॥ संम्पर्शनद्वारमाह थी-पुरिसाण उ फासे, गुरुगा लहुगा सई य संघट्टे । आया-संजमदोसा, ओभावण-पच्छकम्मादी ॥ १७८६॥ 13 समवसरणे पुप्पारोपणादिकौतुकेन भूयांसः स्त्री-पुरुषाः समायान्ति तेषां सम्मन स्पर्शो भवति । ततः स्त्रीणां स्पर्श चत्वारो गुरवः, पुरुषाणां स्पर्श चत्वारो लघवः । स्मृतिश्च सङ्घट्टे भुक्तभोगिनां भवति, चशव्दादभुक्तभोगिनां कौतुकम् । आत्म-संयमविराधनादोषाश्च भवन्तिआत्मविराधना सम्मः सति हस्त-पादाद्युपघातः, संयमविराधना सम्मः पृथिव्यां प्रतिष्ठिताः षट् काया नावलोक्यन्ते न च परिहर्तुं शक्यन्ते । “ओभावण-पच्छकम्माइ” त्ति साधुना कोऽपि 20 शौचवादी पुरुषः स्पृष्टः स सायात् , तं स्नान्तं निरीक्ष्यापरः पृच्छति–किमर्थं नासि ? इति, स प्राह-संयतेन स्पृष्ट इति, एवं परम्परया साधूनां जुगुप्सोपजायते, यथा-अहो ! मलिना एते, एवमपभाजना पश्चात्कर्म च भवति, आदिशब्दाद् असङ्खडादयो दोषाः ॥ १७८६ ॥ अथ तन्तुद्वारमाहलूया कोलिगजालग, कोत्थलकारीय उवरि गेहे य । 25 साडितमसाडिते, लहुगा गुरुगा अभत्तीए । १७८७ ॥ असम्माय॑माणे चैत्ये भगवत्पतिमाया उपरिष्टादेतानि भवेयुः----'लूता नाम' कोलिकपुटकानि, 'कोलिकजालकानि तु' जालकाकाराः कोलिकानां लालातन्तुसन्तानाः, कोत्थलकारी-भ्रमरी तस्याः सम्बन्धि गृहमुपरि भवेत् । यद्येतानि लतादीनि शाटयति तदा चत्वारो लघवः । अथ न शाटयति ततो भगवतां भक्तिः कृता न भवति, तस्यां चाभक्त्यां चत्वारो 30 गुरुकाः ॥ १७८७ ॥ अथ क्षुल्लकद्वारं निर्द्धर्मकार्यद्वारं च व्याख्यानयति घट्ठाइ इयरखुड्डे, दटुं ओगुंडिया तहिं गच्छे । उकुट्ठघर-धणाईववहारा चेव लिंगीणं ॥ १७८८ ॥

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400