Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५३२
सनियुक्ति-लघुमाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ पध्वजाभिमुहा वि य, तेसु वए सेहमादी वा ॥ १८०६ ॥ 'संविग्नैः' उद्यतविहारिभिः कथना धर्मस्य कर्तव्या । कुतः ? इत्याह-इतरे-असंविमास्तैर्धर्मकथायां क्रियमाणायां श्रोतृणामप्रत्ययो भवति, नैते यथा वादिनस्तथा कारिण इति । न च तेषाम् 'उपशमः' सम्यग्दर्शनादिप्रतिपत्तिर्भवति । येऽपि च प्रव्रज्याभिमुखाः शैक्षादयो 5 वा अद्याप्यपरिणतजिनवचनास्तेऽपि तेषु व्रजेयुः-शोभनं खल्वेतेऽपि धर्म कथयन्तीति ॥१८०६॥ आह निश्राकृते चैत्ये यदि तदानीमसंविना न भवन्ति ततः को विधिः ? इत्याह
पूरिति समोसरणं, अन्नासइ निस्सचेइएसुं पि ।
इहरा लोगविरुद्धं, सद्धाभंगो य सड्ढाणं ॥ १८०७ ॥ 'अन्येषाम्' असंविमानामसति निश्राकृतेष्वपि चैत्येषु समवसरणं पूरयन्ति । इतरथा 'लोक10 विरुद्धं' लोकापवादो भवति-अहो! अमी मत्सरिणो यदेवमन्यदीयं चैत्यम् इति कृत्वा नात्रोपविश्य धर्मकथां कुर्वन्ति । श्रद्धाभङ्गश्च श्राद्धानां भवति, तेषामत्यर्थमभ्यर्थयमानानामपि तत्र धर्मकथाया अकरणात् ॥ १८०७ ॥ अथ भिक्षाचर्यायां यतनामाह
पुव्वपविद्वेहि समं, हिंडंती तत्थ ते पमाणं तु ।
साभाविअभिक्खाओ, विदंतऽपुव्वा य ठवियादी ॥१८०८॥ 15 पूर्वप्रविष्टा नाम-पूर्वं ये क्षेत्रप्रत्युपेक्षणार्थ प्रहितारतैः समं भिक्षां हिण्डन्ते । तत्र च भिक्षा
मटतां त एव प्रमाणम् , नागन्तुकैस्तत्र शुद्धा-शुद्धगवेषणा कर्तव्या । ते च पूर्वप्रविष्टा इदं विदन्ति–यदेताः 'खाभाविकभिक्षाः' स्वार्थनिप्पादिताः, एतास्तु 'अपूर्वाः' संयतार्थ स्थापितनिक्षिप्तादयः ॥ १८०८ ॥ स्त्रीसङ्कुल-नाटकदर्शनयोर्यतनामाह
वंदेण इंति निंति व, जुब मज्झे थेर इथिओ तेणं ।
ठंति न य नाडएसुं, अह ठंति न पेह रागादी ॥ १८०९ ॥ ___ स्त्रीसङ्कुले वृन्देनायान्ति निर्गच्छन्ति च । ये च युवानस्ते मध्ये क्रियन्ते । यतः स्त्रियस्तेन पावेन. 'स्थविराः' वृद्धा भवन्ति, मा भूवन् भुक्ता-भुक्तसमुत्था दोषा इति । यत्र नाटकानि निरीक्ष्यन्ते तत्र न तिष्ठन्ति । अथ कारणतस्तिष्ठन्ति ततः "न पेह" ति नर्तक्यादिरूपाणि न
प्रेक्षन्ते । सहसा दृष्टिगोचरागतेषु च तेषु रागादीन्न कुर्वन्ति, तेभ्यश्च द्राग् दृष्टिं निवर्तयन्ति 25 ॥ १८०९ ॥ तन्तुजालादिषु विधिमाह
सीलेह मंखफलए, इयरे चोयंति तंतुमादीसु ।
अभिजोयंति सवित्तिसु, अणिच्छि फेडतऽदीसंता ।। १८१० ॥ 'इतरे' असंविना देवकुलिका इत्यर्थः तान् तन्तुजाल-लूतापुटकादिपु सत्सु ते साधवो नोदयन्ति । यथा- 'शीलयत' परिकर्मयत मङ्खफलकानीव मङ्खफलकानि देवकुलानि' । महो 30 नाम-चित्रफलकव्यग्रहस्तः, तस्य च यदि फलकमुज्वलं भवति ततो लोकः सर्वोऽपि तं पूजयति,
एवं यदि यूयमपि देवकुलानि भूयो भूयः सम्मार्जनादिना सम्यगुज्यालयत ततो भूयान् लोको भवतां पूजा-सत्कारं कुर्यात् । अथ ते देवकुलिकाः सवृत्तिकाः-चैत्यप्रतिबद्धगृह-क्षेत्रादिवृत्ति१°नि । किमुक्तं भवति ?-यथा नाम कश्चिन्मङ्खः चित्र° भा० ॥ २ हहट्टकादिवृ भा० ॥
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400