Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५३१
भाष्यगाथाः १७९८-१८०५] प्रथम उद्देशः । नियुक्तौ प्रतिपादितचरितः शुद्धं गवेषयन्नपि निगूढबाह्याकारया तथाविधश्राद्धिकया च्छलितः सन्नाधाकर्मण्यपि गृहीते शुद्धः, अशठपरिणामत्वादिति नियुक्तिगाथासमासार्थः ।। १८०१ ॥ अथैनामेव विवृणोति
नाऊण य अइगमणं, गीए पेसिति पेहिउं कजे । उवसय भिक्खायरिया, बाहिं उब्भामगादीया ॥ १८०२॥ सब्भाविक इयरे वि य, जाणंती मंडवाइणो गीया।
सेहादीण य थेरा, वंदणजुत्तिं बहिं कहए ॥ १८०३ ॥ चैत्यपूजादिके कार्य समुत्पन्नेऽनुयानक्षेत्रं प्रत्युपेक्षितुं गीतार्थान् प्रेषयन्ति । ततो ज्ञात्वा सम्यक् क्षेत्रखरूपमतिगमनं कर्त्तव्यम् । किं पुनस्तत्र प्रत्युपेक्ष्यम् ? इत्याह-मौलग्रामे उपाश्रयः, 'बहिः' बाह्यग्रामेषु च उद्भामकाख्या भिक्षाचर्या, आदिशब्दात् तस्यां गच्छतामपान्तराले विश्रा-10 मस्थानं मौलग्रामे च भिक्षा-विचारभूमिप्रभृतिकं प्रत्युपेक्ष्यम् । तथा सद्भाविकानितराँश्च मण्डपादीन् गीतार्था जानन्ति, यथा-अमी सद्भावतः खार्थ मण्डपाः कृताः, अमी तु संयतार्थ परं कैतवप्रयोगेणास्मानित्थं प्रत्याययन्ति, आदिग्रहणात् पीठिकादिपरिग्रहः । इत्थं तैः प्रत्युपेक्षिते सूरयः सवाल-वृद्धगच्छसहिता अनुयानक्षेत्रं प्रविशन्ति । स्थविराश्च बहिरेव वर्तमानाः शैक्षादीनां 'वन्दनयुक्तिं' पार्श्वस्थादिवन्दनविधि कथयन्ति, मा भूदन्यथा तद्वन्दने तेषां 15 विपरिणाम इति ॥ १८०२ ॥ १८०३ ॥ अथ चैत्यवन्दनविधिमाह
निस्सकडमनिस्से वा, वि चेइए सव्वहिं थुई तिन्नि ।
वेलं च चेइयाणि य, नाउं एक्किकिया वा वि ॥ १८०४ ॥ 'निश्राकृते' गच्छप्रतिबद्धे 'अनिश्राकृते वा' तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो 20 वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैका स्तुतिर्दातव्येति ॥ १८०४ ॥ ___ अथ समवसरणविषयं विधिमाह
निस्सकडे ठाइ गुरू, कइवयसहिएयरा वए वसहिं ।
जत्थ पुण अनिस्सकडं, पूरिति तहिं समोसरणं ॥ १८०५ ॥ निश्राकृते चैत्ये 'गुरुः' आचार्यः कतिपयैः परिणतसाधुभिः सहितश्चैत्यमहिमावलोकनार्थ 25 तिष्ठति, 'इतरे' शैक्षादयस्ते ‘मा पार्श्वस्थादीन् भूयसा लोकेन पूज्यमानान् दृष्ट्वा तत्र गमनं कार्युः' इति कृत्वा गुरुभिरनुज्ञाता वसतिं व्रजेयुः । यत्र पुनः क्षेत्रे अनिश्राकृतं चैत्यं तत्राचार्याः समवसरणं पूरयन्ति, सभामापूर्य धर्मकथां कुर्वन्तीत्यर्थः ।। १८०५ ।। आह किं संविनैस्तत्र धर्मकथा कायर्या ? आहोश्चिदसंविनैरपि ? उच्यते--
संविग्गेहि य कहणा, इयरेहिँ अपच्चओ न ओवसमो । १ "मासियपारणगट्ठा.” इत्यादि २०९-१०-११ गाथात्रिक पत्र ७४ ॥ २ अथैतदेव भाव्यतेनाऊण मो० ले० विना ॥ ३ पेक्षणीयम् ? इति चेद् अत आह-[मौलग्रामे ] उपाश्रयो
. -- -A.wmmarरदामका. आ° भा०॥
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400