Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 318
________________ भाप्यगाथाः १८८९-९७] प्रथम उद्देशः । ५२९ ___ संज्ञिनः-श्रावकाः केचिद् जिनानां प्रतिमासु प्रथमतः "पट्ठवणे" ति प्रतिष्ठापनं कर्तुकामास्तेषामपि 'एयमेध' राज्ञ इव श्रद्धावृद्ध्यादिकं कृतं भवति । तथा मा परवादी प्रस्तुतोत्सवस्य विघ्नं कार्षीद् अतो वादी प्रविशति ॥ १७९२ ॥ परवादिनिग्रहे च क्रियमाणे गुणानुपदर्शयति नवधम्माण थिरत्तं, पभावणा सासणे य बहुमाणो। अभिगच्छंति य विदुसा, अविग्य पूया य सेयाए ॥ १७९३ ॥ 5 'नवधर्मणाम्' अभिनवश्रावकाणां 'स्थिरत्वं' स्थिरीकरणम् । शासनस्य च प्रभावना भवति, यथा-अहो ! प्रतपति पारमेश्वरं प्रवचनं यत्रेदृशा वादलब्धिसम्पन्ना इति । बहुमानश्चान्येषामपि शासने भवति । तथा तं वादिनं 'अभिगच्छन्ति' अभ्यायान्ति 'विद्वांसः' सहृदयास्तद्वाग्मिताकौतुकाकृष्टचित्ताः, तेषां च सर्वविरत्यादिप्रतिपत्त्या महाँल्लाभो भवति । परवादिना च निगृहीतेन ‘अविनं' निःप्रत्यूहं पूजा कृता सती स्वपक्ष-परपक्षयोरिह परत्र च श्रेयसे भवति ॥१७९३॥ 10 अथ क्षपकद्वारमाह-- आयाविति तवस्सी, ओभावणया परप्पवाईणं । जइ एरिसा वि महिमं, उविंति कारिंति सड्ढा य॥ १७९४ ॥ तत्र 'तपखिनः' षष्ठा-ऽष्टमादिक्षपका आतापयन्ति । ततश्च 'अपभावना' लाघवं 'परप्रवादिनां' परतीथिकानां भवति, तेषां मध्ये ईदृशानां तपखिनामभावात् । श्राद्धाश्च चिन्तयन्ति ---15 यदि तावदीशा अपि भगवन्तोऽस्माभिः क्रियमाणां 'महिमां' चैत्यपूजां द्रष्टुमायान्ति, तत इत ऊर्दू विशेषत एव तस्यां यत्नं विधास्याम इति प्रवर्द्धमानश्रद्धाका महिमां कुर्वन्ति कारयन्ति च ॥ १७९४ ॥ अथ कथिकद्वारमाह आय-परसमुत्तारो, तित्थविवड्डी य होइ कहयंते । अन्नोन्नाभिगमेण य, पूया थिरया य वहुमाणो ॥ १७९५ ॥ 20 क्षीराश्रवादिलब्धिसम्पन्न आक्षेपणी-विक्षेपणी-संवेजनी-निर्वेदनीभेदात् चतुर्विधां धर्मकथां कथयन् धर्मकथीत्युच्यते । तस्मिन् धर्म कथयति आत्मनः परस्य च संसारसागरात् समुत्तारःनिस्तरणं भवति । तीर्थविवृद्धिश्च भवति, प्रभूतलोकस्य प्रव्रज्याप्रतिपत्तेः । तथा देशनाद्वारेण पूजाफलमुपवर्ण्य 'अन्यान्याभिगमेन' अन्यान्यश्रावकबोधनेन पूजायां स्थिरता बहुमानश्च (ग्रन्थाग्रम्-१५०० । सर्वग्रन्थानम्-१३७२० ।) कृतो भवति ॥ १७९५ ॥ अथ शङ्कित-पात्रद्वारे व्याख्याति निस्संकियं च काहिइ, उभए जं संकियं सुयहरेहिं । __ अव्योच्छित्तिकरं वा, लब्भिहि पत्तं दुपक्खाओ ॥ १७९६ ॥ 'उभये' सूत्रे अर्थे च यत् तस्य शङ्कितं तत् तत्र श्रुतधरेभ्यः पार्थान्निःशङ्कितं करिप्यति । अव्यवच्छित्तिकारकं वा पात्रं द्विपक्षाद् लप्स्यते। द्वौ पक्षौ समाहृतौ द्विपक्षम् , गृहस्थ-30 पक्षः संयतपक्षश्चेत्यर्थः ।। १७९६ ॥ अथ प्रभावनाद्वारमाह जाइ-कुल-रूव-धण-बलसंपन्ना इड्डिमंतनिक्खंता । जयणाजुत्ता य जई, सनेच तित्थं पभाविति ॥ १७९७ ॥

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400