________________
भाप्यगाथाः १८८९-९७] प्रथम उद्देशः ।
५२९ ___ संज्ञिनः-श्रावकाः केचिद् जिनानां प्रतिमासु प्रथमतः "पट्ठवणे" ति प्रतिष्ठापनं कर्तुकामास्तेषामपि 'एयमेध' राज्ञ इव श्रद्धावृद्ध्यादिकं कृतं भवति । तथा मा परवादी प्रस्तुतोत्सवस्य विघ्नं कार्षीद् अतो वादी प्रविशति ॥ १७९२ ॥ परवादिनिग्रहे च क्रियमाणे गुणानुपदर्शयति
नवधम्माण थिरत्तं, पभावणा सासणे य बहुमाणो।
अभिगच्छंति य विदुसा, अविग्य पूया य सेयाए ॥ १७९३ ॥ 5 'नवधर्मणाम्' अभिनवश्रावकाणां 'स्थिरत्वं' स्थिरीकरणम् । शासनस्य च प्रभावना भवति, यथा-अहो ! प्रतपति पारमेश्वरं प्रवचनं यत्रेदृशा वादलब्धिसम्पन्ना इति । बहुमानश्चान्येषामपि शासने भवति । तथा तं वादिनं 'अभिगच्छन्ति' अभ्यायान्ति 'विद्वांसः' सहृदयास्तद्वाग्मिताकौतुकाकृष्टचित्ताः, तेषां च सर्वविरत्यादिप्रतिपत्त्या महाँल्लाभो भवति । परवादिना च निगृहीतेन ‘अविनं' निःप्रत्यूहं पूजा कृता सती स्वपक्ष-परपक्षयोरिह परत्र च श्रेयसे भवति ॥१७९३॥ 10 अथ क्षपकद्वारमाह--
आयाविति तवस्सी, ओभावणया परप्पवाईणं ।
जइ एरिसा वि महिमं, उविंति कारिंति सड्ढा य॥ १७९४ ॥ तत्र 'तपखिनः' षष्ठा-ऽष्टमादिक्षपका आतापयन्ति । ततश्च 'अपभावना' लाघवं 'परप्रवादिनां' परतीथिकानां भवति, तेषां मध्ये ईदृशानां तपखिनामभावात् । श्राद्धाश्च चिन्तयन्ति ---15 यदि तावदीशा अपि भगवन्तोऽस्माभिः क्रियमाणां 'महिमां' चैत्यपूजां द्रष्टुमायान्ति, तत इत ऊर्दू विशेषत एव तस्यां यत्नं विधास्याम इति प्रवर्द्धमानश्रद्धाका महिमां कुर्वन्ति कारयन्ति च ॥ १७९४ ॥ अथ कथिकद्वारमाह
आय-परसमुत्तारो, तित्थविवड्डी य होइ कहयंते ।
अन्नोन्नाभिगमेण य, पूया थिरया य वहुमाणो ॥ १७९५ ॥ 20 क्षीराश्रवादिलब्धिसम्पन्न आक्षेपणी-विक्षेपणी-संवेजनी-निर्वेदनीभेदात् चतुर्विधां धर्मकथां कथयन् धर्मकथीत्युच्यते । तस्मिन् धर्म कथयति आत्मनः परस्य च संसारसागरात् समुत्तारःनिस्तरणं भवति । तीर्थविवृद्धिश्च भवति, प्रभूतलोकस्य प्रव्रज्याप्रतिपत्तेः । तथा देशनाद्वारेण पूजाफलमुपवर्ण्य 'अन्यान्याभिगमेन' अन्यान्यश्रावकबोधनेन पूजायां स्थिरता बहुमानश्च (ग्रन्थाग्रम्-१५०० । सर्वग्रन्थानम्-१३७२० ।) कृतो भवति ॥ १७९५ ॥ अथ शङ्कित-पात्रद्वारे व्याख्याति
निस्संकियं च काहिइ, उभए जं संकियं सुयहरेहिं ।
__ अव्योच्छित्तिकरं वा, लब्भिहि पत्तं दुपक्खाओ ॥ १७९६ ॥ 'उभये' सूत्रे अर्थे च यत् तस्य शङ्कितं तत् तत्र श्रुतधरेभ्यः पार्थान्निःशङ्कितं करिप्यति । अव्यवच्छित्तिकारकं वा पात्रं द्विपक्षाद् लप्स्यते। द्वौ पक्षौ समाहृतौ द्विपक्षम् , गृहस्थ-30 पक्षः संयतपक्षश्चेत्यर्थः ।। १७९६ ॥ अथ प्रभावनाद्वारमाह
जाइ-कुल-रूव-धण-बलसंपन्ना इड्डिमंतनिक्खंता । जयणाजुत्ता य जई, सनेच तित्थं पभाविति ॥ १७९७ ॥