________________
15
५२८ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पस्त्रे [ मासकरूपप्रकृते मूत्रम् ?
छिंदंतस्स अणुमई, अमिलंत अछिंदओ य उविसवणा ।
छिदाणि य पेहंती, नेव य कजेसु साहिलं ॥ १७८९ ॥ इतरे-पार्श्वस्थास्तेषां ये क्षुल्लका घृष्टाः, आदिग्रहणात् “मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा" ( अनु. यो० पत्र २६) इत्यादि, तानित्थम्भूतान् दृष्ट्वा संविग्नक्षुल्लकाः 'अवगुण्डिताः' मलादग्धदेहाः परि5 भग्नाः सन्तः 'तत्र' तेषां लिङ्गिनामन्तिके गच्छेयुः । तेषां च तत्र मिलितानां परस्परमुत्कृष्टगृहधनादिविषयाः 'व्यवहाराः' विवादा उपढीकन्ते, ते च व्यवहारच्छेदनाय तत्र संविमानाकारयन्ति, ततो यदि तेषां व्यवहारश्छिद्यते तदा भवति परिस्फुटस्तेषां गृह-धनादिकं ददतः साधोरनुमतिदोषः । उपलक्षणमिदम् , तेन येषां तद् गृह-धनादिकं न दीयते तेषामप्रीतिक-प्रद्वेषगमनादयो दोषाः । अथ लिङ्गिनामेतद्दोषभयात् प्रथमत एव न मिलन्ति न वा व्यवहारपरिच्छेद 10 कुर्वन्ति ततः 'उत्क्षेपणा' उद्घाटना साधूनां भवति, सङ्घात् बाह्यीकरणमित्यर्थः । 'छिद्राणि च'
दूषणानि ते कषायिताः सन्तः साधूनां प्रेक्षन्ते । नैव च ते 'कार्येषु' राजद्विष्ट-ग्लानत्वादिषु 'साहाय्यं' तन्निस्तरणक्षममुपष्टम्भं कुर्वते । यत एते दोषा अतो निष्कारणे न प्रवेष्टव्यमनुयानमिति स्थितम् । कारणेषु तु समुत्पन्नेषु प्रवेष्टव्यम् । यदि न प्रविशति तदा चत्वारो लघवः ॥ १७८८ ॥ १७८९ ॥ कानि पुनस्तानि ? इत्युच्यते
चेइयपूया रायानिमंतणं सन्नि वाइ खमग कही।
संकिय पत्त पभावण, पवित्ति कजाइँ उड्डाहो ॥ १७९० ॥ अनुयानं गच्छता चैत्यपूजा- स्थिरीकृता भवति । राजा वा कश्चिदनुयानमहोत्सवकारकः सम्प्रतिनरेन्द्रादिवत् तस्य निमन्त्रणं भवति । 'संज्ञी' श्रावकः स जिनप्रतिमायाः प्रतिष्ठापनां चिकीर्षति । तथा वादी क्षपको धर्मकथी च तत्र प्रभावनार्थ गच्छति । शङ्कितयोश्च सूत्रार्थ20 योस्तत्र निर्णयं करोति । पात्रं वा तत्राव्यवच्छित्तिकारकं प्रामोति । प्रभावना वा राजप्रबजितादिभिस्तत्रगतैर्भवति । प्रवृत्तिश्चाचार्यादीनां कुशलवारीरूपा तत्र प्राप्यते । कार्याणि च कुलादिविषयाणि साधयिष्यन्ते । उड्डाहश्च तत्रगतैर्निवारयिष्यत इति । एतैः कारणैर्गन्तव्यमिति द्वारगाथासमासार्थः ॥१७९०॥ अथ विस्तरार्थं विभणिषुश्चैत्यपूजा-राजनिमन्त्रणद्वारे विवृणोति
सद्धावुड्ढी रन्नो, पूयाएँ थिरत्तणं पभावणया। 25 पडिघातो य अणत्थे, अत्था य कया हवइ तित्थे ॥ १७९१ ॥ ___ कोऽपि राजा रथयात्रामहोत्सवं कारयितुमनास्तन्निमन्त्रणे गच्छद्भिस्तस्य राज्ञः श्रद्धावृद्धिः कृता भवति । चैत्यपूजायां स्थिरत्वं प्रभावना च तीर्थस्य सम्पादिता भवति । यच्च जैनप्रवचनप्रत्यनीकाः शासनावर्णवाद-महिमोपघातादिकमनर्थ कुर्वन्ति तस्य प्रतिघातः कृतो भवति । तीर्थे च 'आस्था' स्वपक्ष-परपक्षयोरादरबुद्धिरुत्पादिता भवतीति ।। १७९१ ॥ 30 अथ संज्ञिद्वारं वादिद्वारं चाह
एमेव य सन्नीण वि, जिणाण पडिमासु पढमपठ्ठवणे ।
मा परवाई विग्धं, करिज वाई अओ विसइ ।। १७९२ ॥ १°ग धम्मकही भा० ता० ॥