Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 311
________________ ५२२ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ 10 पहाणा-ऽणुजाण माइसु, जतंति जह संपयं समोसरिया । सतसो सहसो वा, तह जिणकाले विसोहिंसु ॥। १७६९ ॥ 'स्नानं ' इह वर्षान्तः प्रतिनियतदिवसभावी भगवत्प्रतिमायाः स्नात्रपर्वविशेषः, अनुयानं -रथयात्री, आदिशब्दात् कुल-गण- सङ्घकार्यपरिग्रहः, तेषु स्नाना-ऽनुयानादिषु सङ्घमीलकेषु साम्प्रतमपि 5 'शतशः ' शतसङ्ख्याः 'सहस्रशः' सहस्रसङ्ख्याः साधवः समवसृताः सन्तो यथा 'यतन्ते' आधाकर्मादिदोषैशोधनायां प्रयत्नं कुर्वते तथा जिनकालेऽपि ते भगवन्तः 'शोधितवन्तः ' एषणाशुद्धिं कृतवन्त इत्यर्थः ॥ १७६९ ॥ भूयोऽपि परः प्राह-- ननु च 'सर इव सागरः, खद्योत इव प्रद्योतनः, मृग इव मृगेन्द्रः' इत्यादिवदैदयुगीनसमवसरण सत्कमेषणाशुद्ध्युपमानं तीर्थकर - कालभाविनीमेषणाशुद्धिमुपमातुमभिधीयमानं हीनत्वान्न समीचीनम्, अंत आह पञ्चक्खेण परोक्खं, साहिजइ नेव एस हीणुवमा । जं पुरिसजुगे तइए, वोच्छिन्नो सिद्धिमग्गो उ || १७७० ॥ ईं 'प्रत्यक्षेण' उपमानवस्तुना 'परोक्षम् ' उपमेयं वस्तु साक्षादनुपलभ्यमानमपि साध्यते इति शास्त्रे लोके च स्थितिः । तथाहि – खुर - ककुद - लाङ्गूल-सास्नाद्यवयवोपलक्षितमध्यक्षवीक्षितं गवादि वस्तु दृष्टान्ततयोपदर्श्य गवयादिकं परोक्षमपि प्रतीतिपथमारोप्यते । एवमत्रापि प्रत्यक्ष15 वीक्ष्यमाणेन साम्प्रतकालीनसमवसरणसत्केनैषणाशोधनेन परोक्षमपि तीर्थकर कालभाविसमवसरंणसाधूनामेषणाशोधनं साध्यते इति "नेव एस हीणुवम" त्ति न चेयं सर इव सागर इत्यादि - यद् हीनोपमा, तीर्थकरकालेऽपि हि सहस्रसङ्ख्या एव साधव एकत्र क्षेत्रे समवसरन्ति स्म, एतावन्तश्च ते साम्प्रतमपि स्नाना - sनुयानादौ पर्वणि समवसरन्त उपलभ्यन्ते शोधयन्तश्चैषणाम्, ततोऽनुमीयते तीर्थकरकालेऽप्येवमेव दोषान् शोधितवन्त इति । अपि च श्रीमन्महावीर - १ 'त्रा, तदादिषु कार्येषु साम्प्रत तं० डे० कां० ॥ २ 'त् कल्याणकप्रभृति पर्व परिग्रहः भा० ॥ ३ पपरिहरणे प्रभा० ॥ ४ आह हीनत्वादयुक्तेयमुपमा, तथाहि - यथा 'चन्द्रमुखी दारिकेयम्' इत्यादौ चन्द्रादिकमुपमानं कलङ्कादिदूषिततया हीनत्वादयुज्यमानमवगम्यते, पचमैयु भा० ॥ ५ अत्रोच्यते भा० ॥ I ६. प्रत्यक्षं चक्षुषा वीक्ष्यमाणं यद् वस्तु तेन 'परोक्षं' साक्षादनुपलभ्यमानमपि 'साध्यते' समर्थ्यते प्रतीतिपथमुपनीयते इति यावत् । तथाहि यथा खुर-ककुदलाङ्गूलाद्यवयवोपलक्षितं प्रत्यक्ष गवादि वस्तु दृष्टान्ततयोपदर्श्य गवयादिकं परोक्षमपि साध्यते । एवमत्रापि प्रत्यक्षवीक्ष्यमाणेन साम्प्रतकालीनसमवसरण सत्केनैषणाशोधनेन परोक्षमपि तीर्थकरकालभाविसमवसरणसाधूनामेषणाशोधनं प्रतीतिपथमारोप्यते इति नैवेयं हीनोपमा, सहस्रसङ्ख्यानां साधूनामैदंयुगीनेऽपि समवसरणे सम्भवात् । अपि च श्रीमन्महावीरस्वामी वर्त्तमानतीर्थस्य प्रवर्त्तकः प्रथमं पुरुषयुगमभवत्, ततस्तदन्तेवासी श्रीसुधर्मस्वामी द्वितीयम्, तद्विनेयः श्रीजम्बूस्वामी तृतीयम्, एतानि त्रीणि पुरुष युगानि यावदनगाराणां निर्वाणपदवीगमनमभवत्, तृतीये च पुरुषयुगे निर्वृते सति सिद्धिमागों व्यवच्छिन्नः, तत ऊर्द्ध नानुवृत्त इति भावः । इह च सिद्धिमार्गः - केवलोत्पत्तिप्रभतिकः परिग्रद्यते न पनर्ज्ञान मा० ॥ ७ च व्यवस्थितिः.

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400