Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 310
________________ ५२१ भाष्यगाथाः १७६३-६८] प्रथम उद्देशः । शुद्धः, शेषास्त्रयोऽप्यशुद्धाः। 'यद् वा' क्रीतकृत-स्थापितादिकं यत्र वस्त्रे पात्रे वा 'क्रमते' अवतरति तत् तत्र सम्यगुपयुज्य योजनीयम् । अत्र च तननं वितननं चाविशोधिकोटिः पायनं विशोधिकोटिरित्याचार्यस्य मतम् । परस्तु ब्रवीति-पायनमविशोधिकोटिः, कन्दादिजीवोपघातनिष्पन्नत्वात् ; तननं वितननं च विशोधिकोटिः, जीवोपघातस्यादृश्यमानत्वादिति । अत्र सूरिराह-नास्माकं जीवोपघातेनैवाधाकर्म किन्तु श्रमणार्थ वस्त्रादेयत् पर्यायान्तरनयनं तदप्या-5 धाकर्म मन्तव्यम् ॥ १७६५॥ अपि च अत्तट्ठियतंतूहि, समण ततो अ पाइय वुतो अ । किं सो न होइ कम्मं, फासूण विपजिओं जो उ ॥ १७६६ ॥ जइ पजणं तु कम्मं, इतरमकम्मं स कप्पऊ धोओ। अह धोओ वि न कप्पर, तणणं विणणं च तो कम्मं ॥ १७६७॥ 10 आत्मार्थिताः-स्वार्थ निष्पादिता ये तन्तवस्तैः श्रमणार्थ यः पटः ततः पायितो व्यूतश्च सः 'प्राशुकेनापि' खार्थमचित्तीकृतेन खलिकाद्रव्यसम्भारेण पायितः सन् किमाधाकर्म न भवति ? त्वदुक्तनीत्या भवतीति भावः ॥ १७६६ ॥ ततो यदि जीवोपघातनिष्पन्नत्वात् पायनमाधाकर्म 'इतरत्' तननं वितननं च 'अकर्म' न आधाकर्मेति तर्हि स पटो धौतः सन् कल्पतां भवतः, अपनीतपायनिकालेपत्वात् । अथ 15 ब्रवीथाः 'धौतोऽप्यसौ न कल्पते' ततस्तननं वितननं चार्थादाधाकर्म संवृत्तमिति सिद्धं नः समीहितम् ॥ १७६७॥ गतं "गच्छसइए अ कप्पे अंबिलभरिए अ ऊसित्ते" (गा० १६५८) इति द्वारम् । अथ “परिहरणा अणुजाणे" ( गा० १६५९)त्ति द्वारं व्याख्यानयति चोअग जिणकालम्मि, किह परिहरणा जहेव अणुजाणे । अइगमणम्मि य पुच्छा, निकारण कारणे लहुगा ॥ १७६८॥ 20 नोदकः प्रश्नयति-यदि शतिकेप्वपि गच्छेषु साम्प्रतमित्थमाधाकर्मादयो दोषा जायन्ते तर्हि जिनः-तीर्थकरस्तस्य काले साहस्रेषु गच्छेषु साधवः कथमाधाकर्मादीनां परिहरणं कृतवन्तः ? इति । सूरिराह-यथैव 'अनुयाने' रथयात्रायां साम्प्रतमपि परिहरन्ति तथा पूर्वमपि परिहृतवन्तः । “अतिगमणम्मि य पुच्छ” ति शिप्यः पृच्छति-किमनुयाने 'अतिगमनं' प्रवेशनं कर्तव्यम् ? उत न ? इति । आचार्यः प्राह----"निकारण कारणे लहुग" ति निष्कारणे 25 यदि गच्छति तदा चत्वारो लघवः, कारणे यदि न गच्छति तदाऽपि चत्वारो लघवः ॥१७६८॥ अथैतदेव भावयति १ "उभिन्नं उग्गमकोडी, निकोरितं विसोहिकोडी" इति चूर्णी विशेषचूर्णी च वर्तते ॥ ___ २ यदि संयतार्थ जीवोपघातनिष्पन्नत्वात् पायनमविशोधिकोटिरिष्यते तर्हि आत्मार्थिताः-स्वार्थ निष्पादिता ये तन्तवस्तैः श्रमणार्थ यः पटः ततः पायितो व्यूतश्च, कथं पायितः ? इत्याह-'प्राशुकेन' निर्जीवेन खलिकाद्रव्यसम्भारेण पायितः, स किं आधाकर्म न भवति ? भवत्येवेति भावः ॥ १७६६ ॥ तथा यदि पायनमेव तुशब्दस्यैवकारार्थत्वाद् आधाकर्म 'इतरत् भा० ॥

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400