________________
10
15
४५८
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ कर्कशक्षेत्रादायाताः ये वा रूक्षाहारभोजित्वाद् दुर्बलाः, एते एकं वा द्वौ वा त्रीन् वा दिवसान् तस्मिन् ग्रामे 'उषित्वा' स्थित्वा 'आप्यायिताः' मनोज्ञाहारैः स्वस्थीभूताः अपरं ग्रामं व्रजन्ति ॥ १५५६ ॥ इदमेव भावयति
पढमदिणे समणुण्णा, सोहीवुड्डी अकारणे परतो।
तिनि व (वि) समगुन्नाया, तओ परेणं भवे सोही ।। १५५७ ।। प्रथमदिने तत्र ग्रामे वसतां समनुज्ञा, प्रथमो दिवसस्तत्रानुज्ञात इति भावः । ततः 'परतः' द्वितीयादिदिवसेष्वकारणे वसतां शोधिः-प्रायश्चित्तं तस्या वृद्धिर्भवति । सा चानन्तरगाथायां वक्ष्यते । अथ तपःशोषितत्वादिकमनन्तरगाथोक्तं कारणं वर्तते तत्र त्रीण्यपि दिनानि समनुज्ञातानि । 'ततः' दिवसत्रयात् परतः 'शोधिः' प्रायश्चित्तं भवेत् ॥ १५५७ ॥ तामेवाह
सत्तरत्तं तवो होइ, तओ छेओ पहावई ।।
छएणऽच्छिन्नपरियाए, तओ मूलं तओ दुर्ग ॥ १५५८ ॥ सप्तरात्रं यावत् तपो भवति । 'ततः' सप्तरात्रानन्तरं छेदः प्रधावति । छेदेनाप्यच्छिन्नपर्याये साधौ ततो मूलम् । ततः 'द्विकम्' अनवस्थाप्य-पाराश्चिकद्वयम् ॥ १५५८ ॥ इदमेव व्याख्यानयति
मासो लहुओ गुरुओ, चउरो लहया य होति गुरुगा य ।
छम्मासा लहु गुरुगा, छेओ मूलं तह दुगं च ।। १५५९ ॥ इह प्रथमदिवसे वसन्तोऽनुज्ञाता एव, “पढमदिणे समणुन्न" (गा० १५५७ ) ति वचनात् । द्वितीये दिवसे यदि मनोज्ञाहारलम्पटतया तत्र ग्रामे वसन्ति तदा लघुको मासः, तृतीये
गुरुकाः(कः), चतुर्थे चत्वारो लघवः, पञ्चमे चतुर्गुरवः, षष्ठे षण्मासा लघवः, सप्तमे षण्मासा 20 गुरवः, ततः सप्तरात्रानन्तरमष्टमे दिवसे च्छेदः, नवमे मूलम् , दशमेऽनवस्थाप्यम् , एकादशे पाराञ्चिकमिति । अथ तपःशोषितशरीरादयस्ते ततस्त्रीणि दिवसानि वसन्तः प्रायश्चित्तं नापद्यन्ते, “तिनि वि समणुनाय' (गा० १५५७ ) त्ति वचनात् । चतुर्थे दिवसे वसतां लघुमासः, पञ्चमे गुरुमासः, षष्ठे चतुर्लघवः, सप्तमे चतुर्गुरवः, अष्टमे षड्लघवः, नवमे षड्गुरवः, दशमे च्छेदः, एकादशे मूलम् , द्वादशेऽनवस्थाप्यम् , त्रयोदशे पाराश्चिकमिति विशेषचूर्ण्य25 भिप्रायः । बृहद्भाष्ये पुनरित्थमुक्तम्
___एक्वेक सत्तवारा, मासाईयं तवं तु दाऊण ।
छेओ वि सत्तसत्तओं, तिन्नि गमा तस्स पुव्वुत्ता ॥ 'पूर्व' पीठिकायां (गाथा ७०६ ) 'तस्य' च्छेदस्य ये त्रयो गमा उक्तास्तेऽत्रापि द्रष्टव्याः । तत्र यतः स्थानात् तपः प्रारब्धं तत आरभ्य च्छेदोऽपि दीयते, लघुमासादारभ्येत्यर्थः इत्येको 30 गमः । लघुपञ्चकादारभ्येति द्वितीयः । गुरुपञ्चकादारभ्येति तृतीयः ॥ १५५९ ॥ इदं सामान्यतः प्रायश्चित्तम् । अथ विशेषत आह
__ अणणुण्णाए निकारणे व गुरुमाइणं चउण्हं पि । १°व पक्षद्वयं भा° भा० ॥ २'रणे एत्तो ता० ॥