________________
भाष्यगाथाः १५५७-६४ ] प्रथम उद्देशः ।
४५९ ____ गुरुगा लहुगा गुरुगो, लहुओ मासो य अच्छंते ॥ १५६० ॥ अननुज्ञाते दिवसत्रयादूर्द्ध 'निष्कारणे वा' कारणं विना प्रथमदिवसादूई गुर्वादीनां चतुर्णामपि तिष्ठतां यथाक्रमं गुरुका लघुका गुरुको लघुकश्च मासः । इयमत्र भावना-आचार्यस्वाननुज्ञाते निष्कारणे वा तिष्ठतश्चत्वारो गुरवः, वृषभस्य चत्वारो लघवः, अभिषेकस्य गुरुमासः, भिक्षोर्ल घुमासः ॥ १५६० ॥ आह किंनिमित्तमित्थं प्रायश्चित्तमापद्यते ? उच्यते
नेहामु त्ति य दोसा, जे पुव्वं वणिया कइयमादी।
ते चेव अणट्ठाए, अच्छते कारणे जयणा ॥ १५६१ ॥ 'नैष्यामः' नागमिष्याम इत्युक्ते ये पूर्व क्रियितादयः' वसतेर्माटकसमर्पण-विक्रयणादयो दोषा वर्णितास्ते चैव अर्थः-प्रयोजनं तदभावोऽनर्थ तेन प्रयोजनमन्तरेणेत्यर्थः, तत्र प्रामे तिष्ठतां दोषाः । किमुक्तं भवति ?-तत्र ग्रामे रसगौरवबहुलतया तेषां तिष्ठतां कालविलम्बलगनात् 10 चिकीर्षितमासकल्पे क्षेत्रे वसतिं शय्यातरो भाटकेन समर्पयेत् विक्रीणीत वा धान्यादिना वा प्रियेत बटुकादीनां वा दद्यात् ततस्त एवात्मविराधनादयो दोषाः । कारणे तु तिष्ठतां यतना, एकं द्वौ त्रीन् वा दिवसान स्थित्वा तथा गन्तव्यं यथा विलम्बमन्तरेण तत् क्षेत्रं प्राप्यत इति भावः । एवमेतेन विधिना वजन्तस्तावद् गता यावद् मूलक्षेत्रम् ॥ १५६१ ॥ ततः किम् ? इत्याह
15 भत्तट्ठिया व खमगा, पुचि पविसंतु ताव गीयत्था ।
परिपुच्छिय निद्दोसे, पविसंति गुरू गुणसमिद्धा ॥ १५६२ ॥ ते हि भक्तार्थिनः क्षपका वा सन्तस्तत्र क्षेत्रे प्रविशन्ति । 'भक्तार्थिनः' भोक्तुकामाः, 'क्षपकाः' उपोषिताः । तत्र च पूर्वं तावद् गीतार्थाः प्रविशन्तु । ततस्तैः गीतार्थैः 'परिपृच्छय' शम्यातरं पृष्ट्वा निर्दोषे उपाश्रये सुनिश्चिते सति प्रविशन्ति गुरवो गुणसमृद्धाः । साभिप्रायकमिदं विशे-१७ पणम् । ते हि भगवन्तो गुरवो गुणैः समृद्धाः, अतो यदि प्रथमं प्रविश्य सव्याघातां वसतिं मत्वा प्रतिनिवर्तन्ते ततो भवति महानवर्णवादः, यथा-एतेषामेतदपि ज्ञानं नास्तीति, ततः पश्चात् प्रविशन्ति ॥ १५६२ ॥ अथैनामेव गाथां विवरीषुराह
बाहिरगामे वुच्छा, उजाणे ठाण वसहिपडिलेहा । [ओघ. भा. १०४]
इहरा उ गहियभंडा, वसहीवापाय उड्डाहो ॥ १५६३ ॥ 25. प्रत्यासन्ने बाह्यग्रामे उषिताः प्रत्युषसि विवक्षितक्षेत्रस्योद्यानमागम्य तत्र स्थानं कुर्वन्ति । यैः क्षेत्रं प्रत्युपेक्षितं ते वसतिप्रत्युपेक्षणार्थ प्रेष्यन्ते । 'इतरथा' यदि वसतिमप्रत्युपेक्ष्य प्रविशन्ति ततो मासलघु । सा वसतिरन्येषां प्रदत्ता भवेत् ततः 'गृहीतभाण्डाः' गृहीतोपकरणा वसतिव्याघाते सत्यपरां वसतिमन्वेषयन्त इतस्ततः पर्यटन्ति, तथाभूतांश्च दृष्ट्वा उडाहो भवेत्, यथा-अहो ! निप्परिग्रहा निर्ग्रन्था इति ॥ १५६३ ॥ ततः किं विधेयम् ! इत्याह- 30
तम्हा पडिलेहिय साहियम्मि पुवगत असति सारविए । [ओघ.भा.१११]
फड्डगफड्ड पवेसो, कहणा न य उद्दऽणायरिए ॥ १५६४ ॥ तस्मात् चिलिमिली-दण्डकपोञ्छने गृहीत्वा वसतिं प्रत्युपेक्ष्य यदि सा नान्येषां प्रदचा