________________
शकुनाः
४६०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १: तदा “साहियम्मि" त्ति शय्यातरस्य 'आचार्या आगताः सन्ति' इति कथिते सति यदि 'पूर्वमताः' पूर्वस्थिताः क्षेत्रप्रत्युपेक्षकास्तत्र सन्ति तदा तैः प्रागेव वसतिः प्रमार्जितैव । अथ न सन्ति ततः खयमेव "सारविए" ति सम्मार्जिते प्रतिश्रये द्वारे च चिलिमिली बड़ा धर्मकथिनमेकं मुक्त्वा व्यावृत्य गुरूणां निवेदयन्ति । ततो वृषभास्तथैवाक्षान् गृहीत्वा शकुनान् परीक्षमाणाः प्रविशन्ति । तैश्च प्रविष्टैः शेषाः साधवः स्पर्द्धकस्पर्द्धकैः प्रविशन्ति, न पुनः सर्वे एकत्र पिण्डीभूयेति भावः । यश्च तत्र धर्मकथिकः स्थित आस्ते स सागारिकस्य धर्मकथां करोति । स च "अणायरिय" ति आचार्य मुक्त्वा शेषसाधूनां ज्येष्ठार्याणामप्यभ्युत्थानं न करोति 'मा भूदु धर्मकथाया व्याघातः' इति ॥ १५६४ ॥ अथ वृषभाणां प्रविशतां शकुना-ऽपशकुनविभागनिरूपणायाह
मइल कुचेले अभंगियल्लए साण खुज वडभे या। वसति.
एयाइँ अप्पसत्थाइँ होति गामं अइंताणं ॥ १५६५ ॥ [ओघ. भा.१०५] प्रवेशे
रत्तपड चरग तावस, रोगिय विगला य आउरा वेजा। ऽपशकुन.
कासायवत्थ उद्धृलिया य कजं न साहिति ॥ १५६६ ॥ [ओघ. भा. १०६] नंदीतूरं पुण्णस्स दंसणं संख-पडहसदो य । भिंगार-छत्त-चामर-वाहण-जाणा पसत्थाई ॥ १५६७ ॥ [ओघ.भा.१०९] समणं संजयं दंतं, सुमणं मोयगा दधिं ।
मीणं घंटे पडागं च, सिद्धमत्थं वियागरे ॥ १५६८ ॥ [ओघ. भा. ११०] चतस्रोऽपि गाथाः प्राग्वत् (गाथाः १५४७-५०)। नवरं श्वा दक्षिणपार्थाद् वामपार्श्वगामी गृह्यते ॥ १५६५ ॥ १५६६ ॥ १५६७ ॥ १५६८ ॥
20 इत्थं वृषभेषु प्रशस्तैः शकुनैः प्रविष्टेषु सूरयः क्षेत्रं प्रविश्य किं कुर्वन्ति ? इत्याहआचार्यस्य
पविसंते आयरिए, सागरिओं होइ पुव्व दट्ठव्यो। वसति
अद्दट्टण पविट्ठो, आवजइ मासियं लहुयं ॥ १५६९ ॥ प्रवेशन
"पविसंते आयरिए" त्ति तृतीयार्थे सप्तमी, वसतिं प्रविशता आचार्येण सागारिकः पूर्वमेव विधिः
द्रष्टव्यो भवति । अथ सागारिकमदृष्ट्वैव प्रविष्ट आचार्यः तत आपद्यते मासिकं लघुकम् 25॥ १५६९ ॥ अथाचार्यमायान्तं दृष्ट्वा धर्मकथी किं करोति ? इत्याह
आयरियअणुट्ठाणे, ओभावण बाहिरा अदक्खिन्ना । [ओघ. भा. ११२]
कहणं तु वंदणिज्जा, अणालवंते वि आलावो ॥ १५७० ॥ धर्मकथिना आचार्याणामभ्युत्थानं कर्त्तव्यम् । यदि न करोति तदा 'अपभावना' लाघवमाचार्याणां भवति-नूनं नामधारक एवायमाचार्यः, नास्य किमप्याज्ञैश्चर्य विद्यते । यद्वा लोक30 व्यवहारस्य बाह्या अमी, यतः पञ्चानामप्यङ्गुलीनां तावदेका ज्येष्ठा भवति । तथा 'अदाक्षिण्याः' 'गुरूनपि प्रति एतेषां दाक्षिण्यं नास्ति' इति शय्यातरश्चिन्तयति । “कहणं तु" त्ति शय्यातरस्य
१°त्र वसन्ति मो० ॥ २ सर्वेऽपि एक डे० ॥ ३ प्रविष्यन्तः (प्रविशन्तः) सन्तः त.डे. कां०॥. .