________________
भाष्यगाथाः १५४८-५६] प्रथम उद्देशः ।
४५७ सन्ति ततस्ते परस्परं विभज्य गृह्णन्ति । अथ न सन्त्याभिग्रहिकास्ततः को विधिः ? इत्याह
आयरिओवहि बालाइयाण गिण्हंति संघयणजुत्ता।
दो सोत्ति उण्णि संथारए य गहणेकपासेणं ॥१५५३ ॥ आचार्योपधिं बालादीनां चोपधिं गृह्णन्ति 'संहननयुक्ताः' अनाभिग्रहिका अपि सन्तो ये समर्थसाधवः । कथम् ? इत्याह-द्वौ सौत्रिकौ कल्पौ एक और्णिकः कल्पः संस्तारकः चशब्दादुत्तर-5 पट्टकश्च । एतेषामाचार्यादिसम्बन्धिनां “गहणेकपासेणं" ति सप्तम्यर्थे तृतीया 'एकस्मिन् पार्थे एकत्र स्कन्धे ग्रहणं कुर्वन्ति । द्वितीये तु पार्थे आत्मीयमुपधिं स्थापयन्ति ॥ १५५३ ॥ . अथ “खग्गूड" ( गा० १५४३ ) त्ति पदं विवृणोति
रत्तिं न चेव कप्पइ, नीयदुवारे विराहणा दुविहा ।
पण्णवण बहुतर गुणा, अणिच्छ बीओ व उवही वा ॥ १५५४ ॥ 10 कश्चिद धर्मश्रद्धालुतया खग्गूडतया वा प्राह-रात्रौ न चैव कल्पते विहर्तुम् , यतः "नीयदुवारं तमसं, कोट्टगं परिवज्जए।" (दशवै० अ० ५ गा० २०) त्ति वचनाद् दिवाऽपि तावद् नीचद्वारे कोष्ठके प्राणिनां कण्टकादीनां चानुपलभ्यमानतया 'द्विविधा' संयमा-ऽऽत्मविराधना भवति इति कृत्वा प्रवेष्टुं न कल्पते, किं पुना रात्रौ विहत्तुं कल्पिप्यते ? । इत्थं ब्रुवाणस्य तस्य प्रज्ञापना कर्तव्या, यथा-वत्स ! दूरतमक्षेत्रस्य गन्तव्यतया बहुतरा गुणाः सबाल-वृद्धस्य गच्छस्य । साम्प्रतं रात्रौ गमने भवन्ति । इत्थमपि प्रज्ञापितो यदि नेच्छति ततोऽस्य 'द्वितीयः' सहायो दीयते उपधिर्वा तस्य जीर्ण उपहतश्च समर्प्यते', मा सारतरस्तदीयोपधिः स्तेनैर्गृह्येत मा वा रात्रौ सुप्तस्योपहन्येतेति ॥ १५५४ ॥ तदेवमुक्तविधिना ततः क्षेत्राद् निर्गत्य सूत्रोक्तनीत्या गच्छन्ति । ग्रामं च प्राप्तानां क्षेत्रप्रत्युपेक्षका यत्र पूर्व वसतिः प्रत्युपेक्षिता आसीत् तत्र प्रथमं वयं गत्वा वसतिं निरूप्य ततो गच्छं तत्र प्रवेशयन्ति । तत्र रात्रावुषित्वा प्रभाते नामान्तरं गच्छन्ति । एवं च-20
वचंतेहि य दिडो, गामो रमणिजभिक्ख-सज्झाओ।
जं कालमणुनाओ, अणणुनाए भवे लहुओ ॥ १५५५ ॥ वजद्भिस्तैः साधुभिः कश्चिद् ग्रामो दृष्टः, कथम्भूतः ? रमणीयं-सुखप्राप्यत्वेन मनोज्ञभक्तपानलाभेन च भैक्षं अत एव रमणीयः खाध्यायश्च यत्र स रमणीयभैक्ष-खाध्यायः । एवंविधो ग्रामः 'यं' यावन्तं 'कालम्' एकदिवसलक्षणं स्थातव्यत्वेनानुज्ञातः तावन्तं कालं वसन्तो न प्राय-25 श्चित्तभाजो भवन्ति । 'अननुज्ञाते' द्वितीयादिपु दिवसेषु वसतां लघुको मासो भवेत् ॥१५५५॥ अथवा
तवसोसिय उव्याया, खुल लुक्खाहारदुबला वा वि ।
एग दुग तिन्नि दिवसे, वयंति अप्पाइया वसिउं ॥ १५५६ ॥ तपसा-षष्ठा-ऽष्टमादिना ये शोषिता ये वा उद्वाताः-अतीवपरिश्रान्ताः ये च "खुल" ति 30 १°ल्पः तथा संत. ॥ २ तु स्कन्धे आ° भा० ॥ ३ ते, तदीयः पुनः शोभनो गृह्यते, मा स्तेनादयस्तमेकाकिनं दृष्ट्वा शोभनमुपधिं गृह्णीयुरिति ॥ १५५४ ॥ तदेव भा० ॥४°त। एष एका पक्षः॥ १५५५ ॥ अथवा भा० ॥