Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 290
________________ ५०१ द्वारम् भाष्यगाथाः १७००-३] प्रथम उद्देशः । अपशकुनं मन्यमानः प्रद्वेषं यायात् , प्रद्विष्टश्चाहननादि कुर्यात् । अथैतद्दोषभयादतिक्रान्तायां वेलायामटति तदाऽपि मासलघु, "अकाले चरसी भिक्खू" (दश० अ० ५ उ० २ गा०५) इत्यादिगाथोक्ताश्च दोषाः । एवमुष्णस्यापि भक्तस्याप्राप्ते अतिक्रान्ते वा एत एव दोषा मन्तव्याः॥ गतं कालद्वारम् । अथावश्यकद्वारम्-यद्यावश्यकम वि]शोध्य निर्गच्छति तदा मासलघु, आवश्यकआज्ञादयश्च दोषा विराधना च प्रवचनादीनाम् । तद्यथा-भिक्षामटतः संज्ञा समागच्छेत् ततो 5 द्वारम् याद्राहितपात्रकः पानकं वा विना व्युत्सृजति तदा प्रवचनविराधना-अहो ! अशुचयोऽमी । अथैतद्दोषभयान्न व्युत्सृजति तत आत्मविराधना । अथ प्रतिश्रयमागत्य पानकं गृहीत्वा संज्ञाभूमौ व्रजति ततो देश-काले स्फिटिते सति भिक्षामलभमान एषणां प्रेरयेत् , ततः संयमविराधना । यत एवमत आवश्यकं शोधयित्वा निर्गन्तव्यम् ॥ गतमावश्यकद्वारम् । अथ सङ्घाटकद्वारं भाष्यकृदेव व्याख्यानयति 10 एगाणियस्स दोसा, साणे इत्थी तहेव पडिणीए। सङ्घाटकभिक्खविसोहि महव्वय, तम्हा सबिइज्जए गमणं ॥ १७०२॥ यद्येकाकी पर्यटति तदा मासलघु । एते च दोषाः-स एकाकी यदि भिक्षां शोधयति तदा पृष्ठतः श्वानः समागत्य तं दशेत् । अथ श्वानमवलोकते तत एषणां न रक्षति । तमेकाकिनं दृष्ट्वा काचित् प्रोषितभर्तृका विधवा वा स्त्री बहिः प्रचारमलभमाना द्वारं पिधाय तं गृह्णीयात् । 15 प्रत्यनीको वा तमेकाकिनं दृष्ट्वा प्रान्तापनादि' कुर्यात् । 'भिक्षाविशोधिः' इति एकाकी यदि त्रिपु गृहेषु भिक्षां दीयमानां गृह्णाति तत एषणायामशुद्धिर्भवति । अथैकत्रैव गृहे गृह्णाति तत इतरयोर्दायकयोः प्रद्वेषो भवेत् । द्वयोस्तु निर्गतयोरेक एकत्र भिक्षामाददान एवोपयोगं ददाति, द्वितीयस्तु शेषगृहद्वयादानीयमानं भिक्षाद्वयमपि सम्यगुपयुङ्क्ते । महात्रतानि वा एकाकी विराधयेत् । तथाहि—एकाकी निःशङ्कत्वादप्कायमप्यापिवेत् १ कुण्टल-विण्टलादि वा प्रयुञ्जीत 20 २ हिरण्यादिकं वा विक्षिप्तं गुरुकर्मतया स्तेनयेत् ३ अविरतिकां वा रूपवतीं दृष्ट्वा समुदीर्णमोहतया प्रतिसेवेत ४ भैक्षेण वा समं पतितं सुवर्णादि गृह्णीयाद् ५ इति । यत एते दोषास्तस्मात् सद्वितीयेन गमनं कर्त्तव्यम् , सङ्घाटकेनेत्यर्थः ॥ १७०२ ॥ स पुनरेकाकी कैः कारणैः सङ्घाटिक न गृह्णानि ? इति उच्यते गारविए काहीए, माइल्ल अलम लुद्ध निम्मे । दुल्लह अत्ताहिट्ठिय, अमणुने या असंघाडो ॥ १७०३ ॥ 'गौरविको नाम' 'लब्धिसम्पन्नोऽहम्' इत्येवं गर्वोपेतः । अत्र चेयं भावना-सङ्घाटके यो रत्नाधिकः सोऽलब्धिमान् अवमरत्नाधिकस्तु लब्धिसम्पन्नः ततोऽसावग्रणीभूय भिक्षामुत्पादयति, प्रतिश्रयमागतयोश्च तयो रत्नाधिको मण्डलीस्थविरेण भण्यते-'ज्येष्ठाय ! मुञ्च प्रतिग्रहम्' ततोऽवमरत्नाधिकः स्खलब्धिगर्वितश्चिन्तयेत्-'मया खलब्धिसामर्थेनेदं भक्त-पानमुत्पादितम् , 30 इदानीमस्य रत्नाधिकः प्रभुरभूद् येनास्य पार्थे प्रतिग्रहो याच्यते' इति कपायितः सन्नेकाकिवं प्रतिपद्यते । “काहीए" ति कथाभिश्चरतीति 'काथिकः' कथाकथनैकनिष्ठः, स गोचरं प्रविष्टः १°दि पिट्टनं कु° भा० ॥ 25

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400