________________
५०१
द्वारम्
भाष्यगाथाः १७००-३] प्रथम उद्देशः । अपशकुनं मन्यमानः प्रद्वेषं यायात् , प्रद्विष्टश्चाहननादि कुर्यात् । अथैतद्दोषभयादतिक्रान्तायां वेलायामटति तदाऽपि मासलघु, "अकाले चरसी भिक्खू" (दश० अ० ५ उ० २ गा०५) इत्यादिगाथोक्ताश्च दोषाः । एवमुष्णस्यापि भक्तस्याप्राप्ते अतिक्रान्ते वा एत एव दोषा मन्तव्याः॥
गतं कालद्वारम् । अथावश्यकद्वारम्-यद्यावश्यकम वि]शोध्य निर्गच्छति तदा मासलघु, आवश्यकआज्ञादयश्च दोषा विराधना च प्रवचनादीनाम् । तद्यथा-भिक्षामटतः संज्ञा समागच्छेत् ततो 5 द्वारम् याद्राहितपात्रकः पानकं वा विना व्युत्सृजति तदा प्रवचनविराधना-अहो ! अशुचयोऽमी । अथैतद्दोषभयान्न व्युत्सृजति तत आत्मविराधना । अथ प्रतिश्रयमागत्य पानकं गृहीत्वा संज्ञाभूमौ व्रजति ततो देश-काले स्फिटिते सति भिक्षामलभमान एषणां प्रेरयेत् , ततः संयमविराधना । यत एवमत आवश्यकं शोधयित्वा निर्गन्तव्यम् ॥ गतमावश्यकद्वारम् । अथ सङ्घाटकद्वारं भाष्यकृदेव व्याख्यानयति
10 एगाणियस्स दोसा, साणे इत्थी तहेव पडिणीए।
सङ्घाटकभिक्खविसोहि महव्वय, तम्हा सबिइज्जए गमणं ॥ १७०२॥ यद्येकाकी पर्यटति तदा मासलघु । एते च दोषाः-स एकाकी यदि भिक्षां शोधयति तदा पृष्ठतः श्वानः समागत्य तं दशेत् । अथ श्वानमवलोकते तत एषणां न रक्षति । तमेकाकिनं दृष्ट्वा काचित् प्रोषितभर्तृका विधवा वा स्त्री बहिः प्रचारमलभमाना द्वारं पिधाय तं गृह्णीयात् । 15 प्रत्यनीको वा तमेकाकिनं दृष्ट्वा प्रान्तापनादि' कुर्यात् । 'भिक्षाविशोधिः' इति एकाकी यदि त्रिपु गृहेषु भिक्षां दीयमानां गृह्णाति तत एषणायामशुद्धिर्भवति । अथैकत्रैव गृहे गृह्णाति तत इतरयोर्दायकयोः प्रद्वेषो भवेत् । द्वयोस्तु निर्गतयोरेक एकत्र भिक्षामाददान एवोपयोगं ददाति, द्वितीयस्तु शेषगृहद्वयादानीयमानं भिक्षाद्वयमपि सम्यगुपयुङ्क्ते । महात्रतानि वा एकाकी विराधयेत् । तथाहि—एकाकी निःशङ्कत्वादप्कायमप्यापिवेत् १ कुण्टल-विण्टलादि वा प्रयुञ्जीत 20 २ हिरण्यादिकं वा विक्षिप्तं गुरुकर्मतया स्तेनयेत् ३ अविरतिकां वा रूपवतीं दृष्ट्वा समुदीर्णमोहतया प्रतिसेवेत ४ भैक्षेण वा समं पतितं सुवर्णादि गृह्णीयाद् ५ इति । यत एते दोषास्तस्मात् सद्वितीयेन गमनं कर्त्तव्यम् , सङ्घाटकेनेत्यर्थः ॥ १७०२ ॥ स पुनरेकाकी कैः कारणैः सङ्घाटिक न गृह्णानि ? इति उच्यते
गारविए काहीए, माइल्ल अलम लुद्ध निम्मे ।
दुल्लह अत्ताहिट्ठिय, अमणुने या असंघाडो ॥ १७०३ ॥ 'गौरविको नाम' 'लब्धिसम्पन्नोऽहम्' इत्येवं गर्वोपेतः । अत्र चेयं भावना-सङ्घाटके यो रत्नाधिकः सोऽलब्धिमान् अवमरत्नाधिकस्तु लब्धिसम्पन्नः ततोऽसावग्रणीभूय भिक्षामुत्पादयति, प्रतिश्रयमागतयोश्च तयो रत्नाधिको मण्डलीस्थविरेण भण्यते-'ज्येष्ठाय ! मुञ्च प्रतिग्रहम्' ततोऽवमरत्नाधिकः स्खलब्धिगर्वितश्चिन्तयेत्-'मया खलब्धिसामर्थेनेदं भक्त-पानमुत्पादितम् , 30 इदानीमस्य रत्नाधिकः प्रभुरभूद् येनास्य पार्थे प्रतिग्रहो याच्यते' इति कपायितः सन्नेकाकिवं प्रतिपद्यते । “काहीए" ति कथाभिश्चरतीति 'काथिकः' कथाकथनैकनिष्ठः, स गोचरं प्रविष्टः १°दि पिट्टनं कु° भा० ॥
25