________________
५०२
उपकरण
द्वारम्
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ कथाः कथयन् द्वितीयेन साधुना. गुर्वादिभिर्वा वार्यमाणोऽपि नोपरमते तत एकाकी भवति । 'मायावान्' भद्रकं भद्रकं भुक्त्वा शेषमानयन्नेकाकी जायते । 'अलसः' चिरगोचरचर्याभ्रमणभनः सन्नेकाकी पर्यटति । 'लुब्धस्तु' दधि-दुग्धादिका विकृतीग्वभापमाणः पृथगेवाटति । '
निर्मा पुनः' अनेषणीयं जिघृक्षुरेकत्वं प्रतिपद्यते । “दुल्लह" ति दुर्लभभैक्षे काले एकत्वमुपसम्पद्यते । 5 'अत्ताहिट्ठिय" त्ति आत्मार्थिकः-आत्मलब्धिकः सः 'स्खलब्धिसामथ्र्येनैवोत्पादितमहं गृह्णामि' इत्येकाकी भवति । 'अमनोज्ञो नाम' सर्वेषामप्यनिष्टः कलहकारकत्वाद् असावप्येकाकी पर्यटतीति । एतैः कारणैः 'असङ्घाटः' सङ्घाटको न भवति ॥ १७०३ ॥ अथैतेषामेकाकित्वप्रत्ययं प्रायश्चित्तमाह
लहुया य दोसु गुरुओ, अ तइअए चउगुरू य पंचमए ।
सेसाण मासलहुओ, जं वा आवजई जत्थ ॥ १७०४ ॥ 'द्वयोः' गौरविक-काथिकयोश्चत्वारो लघवः । 'तृतीयकस्य' मायावतो गुरुको मासः । 'पञ्चमस्य' लुब्धस्य चत्वारो गुरवः । 'शेषाणाम्' अलस-निर्धर्मादीनां मासलघु । 'यद् वा' संयमविराधनादिकं यत्रापद्यते तन्निप्पन्नं तत्र प्रायश्चित्तम् ॥ १७०४ ॥ ___ गतं सङ्घाटकद्वारम् । अथोपकरणद्वारम्-सर्वमप्युपकरणमादाय भिक्षायामटितव्यम् । यदि 15 सर्वोपकरणं न गृह्णाति तदा मासलघु, उपधिनिप्पन्नं वा । तथा तेषां भिक्षामटितुं गतानां स प्रतिश्रयस्थापित उपधिरग्निकायेन दह्येत, दण्डिकक्षोभो मालवस्तेनक्षोभो वा तेषां भिक्षामटतां सहसा समापतित इति कृत्वा तत एव ते पलायिताः, ततो यदुपधि विना तृणग्रहणादि कुर्युः तन्निष्पन्नं प्रायश्चित्तमिति ॥
गतमुपकरणद्वारम् । अथ मात्रकद्वारं व्याख्यायते--मात्रकमगृहीत्वा निर्गच्छति मासलधु । 20 आचार्यादीनां प्रायोग्यं मात्रकं विना कुत्र गृह्णातु ? । यदि 'न गृह्णाति तदा यत् ते अनागाढमागाढं वा परिताप्यन्ते तन्निष्पन्नम् । अथ ते अन्त-प्रान्तं समुद्दिशेयुः ततो ग्लान्यादयो दोषाः। दुर्लभद्रव्यस्य वा घृतादेस्तदिवसं लाभो जातः, यदि मात्रकं नास्तीति कृत्वा तन्न गृह्णाति तदा मासलघु । संसक्तभक्त-पानं वा मात्रकं विना क शोधयतु ? । यदि मात्रकमभविष्यत् ततस्तत्र
शोधयित्वा परिष्ठापयेत् प्रतिग्रहे प्रक्षिपेद्वा । यत एवमतः कर्त्तव्यं मात्रकग्रहणम् ।। 25 गतं मात्रकद्वारम् । अथ कायोत्सर्गद्वारम्-कायोत्सर्गमकृत्वा व्रजति मासलधु । दोषाश्चात्र
कश्चिद् योगप्रतिपन्नस्तस्य तद्दिवसमाचाम्लम् , स चोपयोगकायोत्सर्गमकृत्वा गतो दनः करम्बं गृहीत्वा समायातः, पश्चादपरैः साधुभिस्तस्याचाम्लं स्मारितम् , ततः स यदि तं समुद्दिशति तदा योगविराधना, अथ परिष्ठापयति ततः संयमविराधना, ततः कायोत्सर्ग कृत्वा निर्गच्छेत् । तत्र
च कायोत्सर्गे चिन्तयेत्-यथा अद्य किं मे आचाम्लम् ? उत निर्विकृतिकम् ? उताहो अभक्ता30र्थम् ? आहोश्चिदेकाशनकम् ? इति । इत्थमुपयोगं दत्त्वा प्रत्याख्यानानुगुणमेवाहारं गृह्णाति ॥
गतं कायोत्सर्गद्वारम् । अथ यस्य च योग इति द्वारम्-यस्य-वस्त्र-पात्र-शैक्षादेर्योगः-सम्बन्धो १ इति विशेषचूर्णितो लिखितम् । इत्थ भा० ॥
मात्रकद्वारम्
कायोत्सर्ग
द्वारम्
द्वारम्