________________
भाप्यगाथा : १७०४ ]
प्रथम उद्देशः ।
५०३
भविष्यति तदपि ग्रहीष्यामीति यदि न भणति तदाऽपि मासलघु । वस्त्र - पात्रादिकं च ग्रहीतुं न कल्पते ॥
अथ सप्रतिपक्ष इति द्वारम् -- एष द्वारकलापः सप्रतिपक्षः - सापवादो मन्तव्यः । तद्यथाआचार्याद्यर्थं बहूनपि वारान् प्रविशेत् ।
प्रथम-द्वितीयपरीषहपीडितो यद्यप्यतिप्रभातं तदाऽपि निर्गच्छेत्, यत्र च मानुषाणि विबु - 5 द्धानि तत्र गत्वा धर्मलाभयेत्, ग्लान- प्राघूर्णकादीनां हेतोरतिक्रान्तेऽपि निर्गच्छेत् ।
अनाभोगतो ग्लानादिषु वा कार्येषु व्यापृतः सन्नावश्यकमप्य [वि]शोध्य निर्गच्छेत् । निर्गतश्च संज्ञया बाध्यमानो यदि प्रतिश्रयः प्रत्यासन्नस्ततो निवर्त्तते । अथ दूरे ततो यदि कालो न पूर्यते तदा तयोरेकः पात्रकाणि धारयति इतरः संज्ञां व्युत्सृजति । अथ सागारिकास्तत्र पश्यन्ति ततः समनोज्ञानां प्रतिश्रयं गत्वा व्युत्सृजति । तदभावे अमनोज्ञानां संविग्नानाम् । तेषामलाभे पार्श्व - 10 . स्थादीनाम् । तेषामप्यभावे सारूपिकाणाम् । तदसत्त्वे सिद्धपुत्रकाणाम् । तेषामप्राप्तौ श्रावकाणां वैद्यस्य वा गृहे । एतेषामभावे राजमार्गे गृहद्वयमध्यभागे वा गृहस्थसत्के वा अवग्रहे कायिकीवर्ज व्युत्सृजति । ततो यद्यसौ गृहपतिस्तां संज्ञां त्याजयति तदा राजकुले व्यवहारो लभ्यते । यथात्रेयः शल्या महाराज !, अस्मिन् देहे प्रतिष्ठिताः । वायु - मूत्रपुरीषाणां प्राप्तं वेगं न धारयेत् ||
तथा सङ्घार्टकं विनाऽपि निर्गच्छेत् । कथम् ? इति चेट् उच्यते - यदि दुर्भिक्षे चिरमप्यदित्वा पर्याप्तं लभ्यते ततो द्वावेव पर्यटतां न पुनरेकाकी । अथ द्वयोरप्येकैव भिक्षा लभ्यते न च कालः पूर्यते तत एकोऽपि पर्यटेत् । यदि सर्वेऽपि खग्गूढत्वादात्मलब्धिका भवन्ति तदा प्रतिषेद्धन्याः । अथ कोऽपि प्रियधर्मा मातृस्थानविरहित आत्मलब्धिकत्वं प्रतिपद्यते ततः सोऽनुज्ञातव्यः । यः पुनरमनोज्ञः स अन्यान्यैः साधुभिः समं संगोज्य प्रेष्यते । यदि सर्वेऽपि 20 नेच्छन्ति ततः परित्यजनीयोऽसौ । अथ स एवैकः कलहकरणलक्षणस्तस्य दोषः अपरे निर्लोभत्वादयो बहवो गुणा एषणाशुद्धौ चातीव दृढता ततो न परित्यक्तव्य इति । यत्र श्वान - गवादयो दुष्टा भवन्ति गृहं यद्यनाभोगतः प्रविष्टस्ततः कुड्य-कटनिश्रया तिष्ठति, दण्डकेन वा तान् वारयति । यदि काचिदविरतिका तमुपसर्गयेत् ततो धर्मकथा कर्त्तव्या । तया यद्युपशाम्यति ततः सुन्दरम्, नो चेदभिधातव्यम् - एतानि व्रतानि गुरुसमीपे स्थापयित्वा समागच्छामीति । 25 यदि प्रत्यनीकगृहमनाभोगतः प्रविष्टस्ततो महता शब्देन तथा बोलं करोति यथा भूयाँलोको मिलति । त्रयाणां गृहाणां मध्ये स्थितः सन्नुपयोगं कृत्वा भिक्षां गृह्णीयात् । पञ्चानामपि महात्रतानामतिक्रमं महता प्रयत्नेन परिहरेत् ।
सर्वोपकरणमपि स्तेन-प्रत्यनीकाद्युपद्रवभयाद् वृद्धत्वादधुनोत्थितग्लानत्वाद्वा न गृह्णीयात् । इयत् पुनरवश्यमेव ग्रहीतव्यम् - पात्रभाण्डकं चोलपट्टको रजोहरणं मुखवस्त्रिका चेति ।
मात्रकमप्यनाभोगादिना न गृह्णीयात् ।
१ “तिष्णि सल्ला महाराय !, अस्सि देहे पइट्ठिया । वायु-मुप्त-पुरिसाणं, पत्तं वेगं न भारए ॥ ६२३ ॥” इति ओघनिर्युक्तिश्लोकसमोऽयं श्लोकः ॥ २°टकेन विभा० ॥
सप्रति
पक्षद्वारम्
15
30