________________
णद्वारम्
अलेप-
10
५०४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १. कायोत्सर्गादीन्यपि ग्लानादिकार्येषु त्वरमाणो न कुर्यादिति ॥
उक्तं सप्रतिपक्षद्वारम् । तदुक्तौ च गतं भिक्षाद्वारम् । अथ कल्पकरणद्वारमभिधित्सुराहकल्पकर
भाणस्स कप्पकरणे, अलेवडे नत्थि किंचि कायव्वं ।
तम्हा लेवकडस्स उ, कायव्वा मग्गणा होइ ॥ १७०५ ॥ 5. भाजनस्य कल्पकरणे चिन्त्यमाने यदलेपकृतं द्रव्यं तद् यत्र प्रक्षिप्तं तस्य भाजनस्य न किञ्चित् कर्तव्यम् , कल्पो न विधेय इत्यर्थः । लेपकृतभाजनस्य त्ववश्यं कल्पो दातव्य इत्यतो लेपकृतस्य मार्गणा कर्त्तव्या, कीदृशं लेपकृतम् ? अलेपकृतं वा ? इति चिन्तनीयमित्यर्थः ॥ १७०५ ॥ तत्रालेपकृतानि तावदाह
कंजुसिण-चाउलोदे, संसट्ठा-ऽऽयाम-कट्ठमूलरसे ।
कंजियकढिए लोणे, कुट्टा पिज्जा य नित्तुप्पा ॥ १७०६ ॥ कृतानि
कंजिय-उदगविलेवी, ओदण कुम्मास सत्तुए पिढे ।
मंडग समिउस्सिन्ने, कंजियपत्ते अलेवकडे ॥ १७०७ ॥ काञ्जिकम्-आरनालम् , उष्णोदकम्-उद्वत्तत्रिदण्डम् , "चाउलोदगं" तन्दुलधावनम् , संसृष्टं नाम-गोरससंसृष्टे भाजने प्रक्षिप्तं सद् यदुदकं गोरसरसेन परिणामितम् , 'आयामम्' अवश्रावणम् , 15 "कट्ठमूलरसे" त्ति काष्ठमूलं-चणक-चवलादिकं द्विदलं तदीयेन रसेन यत् परिणामितं तत्
काष्ठमूलरसं नाम पानकम् , तथा यत् काञ्जिकक्कथितम् , “लोणि" त्ति सलवणम् , या च "कुट्टा" चिञ्चनिका, पेया च' प्रतीता 'निस्तुप्पा' अचोप्पडा अवग्धारिता वा ॥ १७०६ ॥ तथा
विलेपिका द्विविधा-एका काञ्जिकविलेपिका, द्वितीया उदकविलेपिका । 'ओदनः' तन्दुलादि भक्तम्, 'कुल्माषाः' उडदा राजमाषा वा, 'सक्तवः' भ्रष्टयवक्षोदरूपाः, 'पिष्टं' 20 मुद्गादिचूर्णम् , 'मण्डकाः' कणिक्कामयाः, 'समितं' अट्टकः, 'उत्स्विन्नम्' उण्डेरकादि, 'काञ्जिकपत्रं' काञ्जिकेन बाप्पितं अरणिकादिशाकम् । एतानि काञ्जिकादीन्यलेपकृतानि मन्तव्यानि
॥ १७०७ ॥ अथ लेपकृतानि निरूपयतिलेपकृ.
विगई विगइअवयवा, अविगइपिंडरसएहिँ जं मीसं । तानि
गुल-दहि-तेल्लावयवे, विगडम्मि य सेसएसुं च ॥ १७०८ ॥ 25 दधि-दुग्ध-धृतादिका या विकृतयो ये च विकृतीनामवयवाः-मन्थुप्रभृतयस्तैर्य मिश्रं यच्चाविकृतिरूपैः पिण्डरसैः-खर्जूरादिभिर्मिश्रं एतत् सर्वमपि लेपकृतमिति प्रक्रमः । अत्र च गुडदधि-तैलानां येऽवयवाः यश्च 'विकेटे' मद्येऽवयवः 'शेषेषु च' घृतादिषु येऽवयवास्ते केचिद् विकृतयः केचिच्चाविकृतयः प्रतिपत्तव्याः ॥१७०८॥ अथैनामेव नियुक्तिगाथां विवृणोति
१कंजिय उण्होदग चाउलोदए संस° ता० । चूर्णिकृता विशेषचूर्णिकृता चायमेव पाठ आदतोऽस्ति ॥ २°कटस्य' मद्यस्यावयवः "सेसएसुंच" त्ति 'शेषेषु घृतादिषु च येऽव. भा०॥ ३ अथ विकृतीनामेव सावयव-निरवयवत्वज्ञापनार्थ ते वा अवयवाः के विकृतयः ? के वा न विकृतयः? इत्याशङ्कापनोदार्थ च गाथात्रयमाह-दहि भा० । “तेषां च के विकृतयः? के वा न? इति ज्ञापनार्थमिदमुच्यते-दधि" इति चौँ विशेषचों च॥