SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ५०० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ स्थापयेत् तदा तद् भवत्येव शीतलम् । तच्च तस्य तपःक्षामदेहस्याकारकमिति कृत्वा ध्यादयो गोचरकाला अनुज्ञाता इति॥१६९९।। अत्र परः प्राह—यद्यसौ षष्ठादिभक्तिको यावन्ति भक्तानि च्छिनत्ति तावन्त्येकेनैव दिवसेन पूरयति ततः को नाम गुणस्तस्य भक्तच्छेदनेन ? उच्यते बहुदेवसिया भत्ता, एगदिणेणं तु जइ वि भुंजेजा। तह वि य चाग-तितिक्खा-एगग्ग-पभावणाईया ॥ १७०० ॥ बहुदैवसिकानि भक्तानि यद्यप्यसावेकदिनेनैव तुशब्दस्यैवकारार्थत्वात् षष्ठादिभक्तिको भुञ्जीत तथापि भक्तच्छेदने त्याग-तितिक्षैकाग्र्य-प्रभावनादयो गुणा भवन्ति । त्यागो नाम यादीन् दिवसान् यावत् सर्वथैव भक्तार्थपरिहारः, तितिक्षा-क्षुधापरीपहस्याधिसहनम् , ऐकाय्यं तु सूत्रार्थपरावर्तनादौ चित्तस्यानन्योपयुक्तता, प्रभावना नाम-अहो! अमीषां शासनं विजयते यत्रेदशास्त10 पखिन इति, आदिशब्दादन्येषामपि तपःकर्मणि श्रद्धाजननम् , गृहिणां वा तदर्शनात् प्रव्रज्याप्रतिपत्तिरिति । अतः षष्ठादिभक्तिकस्य व्यादिगोचरकालानुज्ञानम् । नित्यभक्तिकस्तु यदि द्वितीयं वारं भिक्षार्थमवतरति मासलघु, तृतीयवारं मासगुरु, चतुर्थ चतुर्लघु, पञ्चमं चतुर्गुरु, षष्ठं षड्लघु, सप्तमं षड्गुरु, अष्टमं छेदः, नवमं मूलम् , दशममनवस्थाप्यम् , एकादशं वारं पाराञ्चिकम् ॥ १७०० ॥ चतुर्थभक्तिकादीनामतिदेशमाह15 जह एस एत्थ वुड्डी, ओअरमाणस्स दसहि सपदं च । सेसेसु वि जं जुजइ, तत्थ विवड्डी उ सोहीए ॥ १७०१॥ यथा द्वितीयादिवारं भिक्षामवतरतः 'एषा' लघुमासादारभ्य प्रायश्चित्तस्य वृद्धिर्भणिता 'दशभिश्च' दशसङ्ख्याकैः स्थानैः 'स्वपदं' पाराञ्चिकं नित्यभक्तिकस्योक्तम् , तथा 'शेषेष्वपि' चतुर्थ भक्तिकादिषु 'यत्' तृतीयवारादिकं प्रायश्चित्तस्थानं युज्यते 'तत्र' तदारभ्य 'शोधेः' प्रायश्चित्तस्य 20 विवृद्धिः कर्तव्या । तद्यथा— चतुर्थभक्तिकस्तृतीयं वारं भिक्षामवतरति मासलघु, चतुर्थं मास गुरु, पञ्चमं चतुर्लघु, षष्ठं चतुर्गुरु, सप्तमं षड्लघु, अष्टमं षड्गुरु, नवमं छेदः, दशमं मूलम् , एकादशमनवस्थाप्यम् , द्वादशं वारं पर्यटतः पाराञ्चिकम् । एवं षष्ठभक्तिकस्यापि द्वादशं वारमवतरतः पाराञ्चिकम् । यदाह चूर्णिकृत् छट्ठभत्तियस्स वि बारसहिं पावइ सपयं ति । 25 अष्टमभक्तिकस्य तु चतुर्थवारादारभ्य त्रयोदशं वारं यावत् पर्यटतो लघुमासादिकं पाराश्चि कान्तमिति ॥ १७०१ ॥ ___गतं प्रमाणद्वारम् । अथ कालद्वारम् - कस्मिन् काले भिक्षार्थ निर्गन्तव्यम् ? उच्यते-यः क्षपको बालो वृद्धो वा पर्युषितेन प्रथमालिकां कर्तुकामः स सूत्रपौरुषीं कृत्वा निर्गच्छति । अथ तावती वेलां न प्रतिपालयितुं क्षमः ततोऽर्द्धपौरुप्यां निर्गच्छति । यद्यतिप्रभाते पर्यटति तदा 30 मासलघु, भद्रक-प्रान्तकृताश्च दोषा भवन्ति । तत्र साधुरतिप्रभात एव कस्यापि गृहं गत्वा भिक्षां याचितवान् , स च गृहपतिर्भद्रकः सुप्तामविरतिकामुत्थापयेत् ततस्तस्यामुत्थितायामधिकरणं प्रवर्तितं भवेत् । यस्तु प्रान्तो भवति स ब्रूयात्–किमुन्मत्तो वर्तसे यदेवमतिप्रभाते पर्यटसि ? मुखरात्रिकं वा प्रष्टुं समायासीः ? इति । यद्वा कोऽपि नामान्तरं प्रस्थितः प्रथममेव तं साधुं दृष्ट्वा कालद्वा
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy