________________
भाष्यगाथाः १६९३-९९]
प्रथम उद्देशः ।
४९९
1
कृत्वा निर्गन्तव्यम् । “संघाडगे" चि सङ्घाटकेन - साधुयुग्मेन निर्गन्तव्यं नैकाकिना । “उवगरणि” त्ति सर्वोपकरणमादाय भिक्षायामवतरणीयम् । " मत्तगि" त्ति मात्रकं ग्रहीतव्यम् । “काउसग्गो" त्ति उपयोगनिमित्तं कायोत्सर्गः कर्त्तव्यः । " जस्स य जोगो' चि 'यस्य च ' सचित्तस्याचित्तस्य वा 'योगः' सम्बन्धो भविष्यति लाभ इत्यर्थः तदप्यहं ग्रहीष्यामीति भणित्वा निर्गन्तव्यम् । “सपडिवक्खो” त्ति एष प्रमाणादिको द्वारकलापः 'सप्रतिपक्षः' सापवादो वक्तव्य इति द्वारगाथासमासार्थः ॥ १६९६ ॥ अथ विस्तरार्थमभिधित्सुः प्रमाणद्वारं भावयतिदोन अणुन्नायाओ, तझ्या आवज मासियं लहुयं । गुरुगो उ चउत्थीए, चाउम्मासो पुरेकम्मे ।। १६९७ ॥
चतुर्थभक्तिकस्य द्वौ बारौ गोचरचर्यामटितुमनुज्ञातौ । अथ तृतीयं वारमटति तत आपद्यते मासिकं लघुकम् । अथ चतुर्थं वारं पर्यटति तदा गुरुको मासः । स्त्रीत्वं सर्वत्र प्राकृतत्वात् । 10 अथ तृतीयादीन् वारान् भिक्षार्थं प्रविशति ततो गृहिणः पुरःकर्म कुर्वन्ति तत्र चत्वारो मासा लघव इति । ऐषा निर्युक्तिगाथा ।। १६९७ ॥ अथैनामेव भाष्यकृद् विवृणोति - सइमेव उनिग्गमणं, चउत्थभत्तिस्स दोत्रि वि अलद्धे । सव्वे गोयरकाला, विगिट्ठ छट्ठऽहमे बि-तिहिं ॥ १६९८ ॥
1
‘सकृदेव' एकवारमेव नित्यभक्तिकस्य भक्ताय वा पानाय वा निर्गमनं कल्पते । चतुर्थभ- 15 क्तिकस्याप्युत्सर्गतः सकृदेव भिक्षामटितुं कल्पते । अथ तदानीं पर्यटताऽपि तेन परिपूर्णो भक्तार्थो न लब्धः ततोऽलब्धे सति तस्य द्वावपि गोचरकालावनुज्ञातौ ।
- उक्तञ्च दशाश्रुतस्कन्धे - कप्पइ चउत्थभत्तियस्स एगं गोयरकालं गाहावइकुलं भत्ताए वा पाणा वा निक्खमित्तए वा पविसित्तए वा । से य नो संथरिज्जा एवं से कप्पइ दुच्चं पि गाहावइकुलं ( अध्य० ८ पत्र ६० ) इत्यादि ।
20
यस्तु 'विकृष्टभक्तिकः ' दशम- द्वादशमादिक्षपकस्तस्य सर्वेऽपि गोचरकालाः कल्पन्ते । “छट्ठऽट्टमे बि-तिहिं" ति षष्ठभक्तिकस्य द्वयोर्गोचरकालयोरष्टमभक्तिकस्य तु त्रिषु गोचरकालेषु भिक्षामटितुं कल्पत इति ॥ १६९८ ॥
स्यान्मतिः किमर्थं षष्ठादिभक्तिकानां व्यादिगोचरकालानामनुज्ञा : उच्यतेसंखुन्ना जेणंता, दुगाइ छट्ठादिणं तु तो कालो ।
भुत्तणुभुत्ते अ बलं, जायइ न य सीयलं होइ ॥ १६९९ ॥
'संक्षुण्णानि ' सङ्कुचितानि 'येन' कारणेन षष्ठादितपसा ' अन्त्राणि' प्रतीतानि, ततः षष्ठादिभक्तिकानां 'द्विकादिकः' गोचरद्वयादिकः कालोऽनुज्ञातः । अपि च प्रथममेकवारं भुक्तस्ततो द्वितीयादिकं वारमनुभुक्तो भुक्तानुभुक्तस्तस्य व्यादीन् वारान् भुक्तवत इत्यर्थः 'बलं' भूयोऽपि षष्ठादिकरणे सामर्थ्यमुपजायते । न चेत्थं तद् भक्तं शीतलं भवति, सद्यो गृहीतत्वात् । यदि 30 ह्येकमेव वारं पर्यटता यद् गृहीतं तन्मध्यात् किञ्चित् समुद्दिश्य द्वितीयादिवारसमुद्देशनार्थं शेषं
१ एषा पुरातना गाथा भा० । “दोण्णि० गाधा पुरातना" इति चूर्णौ विशेषचूर्णौ च ॥ एतच्चिद्यान्तर्गतः पाठः मो० ले० पुस्तकयोरेव विद्यते ॥ ३ 'कमेकवारं भा० विना ॥
२
25
प्रमाण
द्वारम्