________________
15:
४९८ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
जिनकल्पिका अभिगृहीतया 'पञ्चानाम्' उद्धृतादीनामन्यतरया एकया एषणया भक्तम् एकया पानकं गृहन्ति । 'गच्छे' गच्छवासिनः पुनः 'सर्वाभिरपि' असंसृष्टादिभिरेषणाभिर्भक्त-पानं गृहन्ति । कुतः ? इत्याह-'सापेक्षः' बाल-वृद्धाद्यपेक्षायुक्तः 'येन' कारणेन 'गच्छः' गच्छवासिसाधुसमूह इति ॥ १६९२ ॥ आह किमिति गच्छवासिनः सर्वाभिरप्येषणाभिमुहन्ति ? 5.किं तेषां निर्जरया न कार्यम् ? उच्यते
बाले वुड्ढे सेहे, अगीयत्थे नाण-दंसणप्पेही ।
दुब्बलसंघयणम्मि य, गच्छि पइन्नेसणा भणिया ॥ १६९३ ॥ षष्ठी-सप्तम्योरथ प्रत्यभेदाद वालस्य वृद्धस्य शैक्षस्यागीतार्थस्य 'ज्ञान-दर्शनप्रेक्षिणः' ज्ञानार्थिनो दर्शनप्रभावकशास्त्रार्थिनश्चेत्यर्थः 'दुर्बलसंहननस्य च' असमर्थशरीरस्यानुग्रहार्थं गच्छे 10 'प्रकीर्णा' अप्रतिनियता एषणा भणिता भगवद्भिरिति ॥ १६९३ ॥ अथैतान्येव पदानि गाथाद्वयेन भावयति
तिक्खछुहाए पीडा, उड्डाह निवारणम्मि निक्किवया । इय जुवल-सिक्खगेसुं, पओस भेओ य एकतरे ॥ १६९४ ॥ सुचिरेण वि गीयत्थो, न होहिई न वि सुयस्स आभागी।
पग्गहिएसणचारी, किमहीउ घरेउ वा अबलो ॥ १६९५ ॥ ___ अभिगृहीतयैवैषणया भक्त-पानग्रहणे प्रतिज्ञाते तया चालब्धे स्तोके वा लब्धे सति बाल-वृद्धशैक्षकाणां तीक्ष्णया-दुरधिसहया क्षुधा उपलक्षणत्वात् तृषा च महती पीडा भवति । उड्डाहो वा भवेत् , स हि बालादिरित्थं लोकपुरतो ब्रूयात्-एते साधवो मां क्षुधा तृषा वा मारयन्तीति । तथा 'निवारणे' विवक्षितामेकामेषणां विमुच्य अन्यासां प्रतिषेधे विधीयमाने सति बालादयश्चिन्त20 येयु:-अहो! निष्कृपताऽमीषाम् ; ततः प्रद्वेषं गच्छेयुः । 'भेदो वा एकतरे' जीवितस्य चारित्रस्य
वा विनाशोऽमीषां भवेदिति बाल-वृद्धयुगले शैक्षके वा नियन्त्र्यमाणे दोषा मन्तव्याः॥१६९४॥ __ तथा अगीतार्थः सुचिरेणापि कालेन गीतार्थो न भविष्यति, नापि 'श्रुतस्य' आचारादेः उपलक्षणत्वाद् दर्शनप्रभावकशास्त्राणां वा आभागी । कीदृशः ? इत्याह-'प्रगृहीतैषणाचारी' प्रगृहीता-अभिग्रहवती या एषणा तच्चारी-तत्पर्यटनशीलः, तथाविधभक्त-पानोपष्टम्भाभावादिति 25 भावः । यो वा 'अवलः' दुर्बलसंहननः स प्रणीताहाराद्युपष्टम्भाभावे किं सूत्रमर्थ वा अधीतां
धारयतां वा ? । अत एतेषामनुग्रहार्थं गच्छे प्रकीर्णैषणा दृष्टा ॥ १६९५ ॥
. अथास्या एव विधिमभिधिसुरगाथामाहभिक्षाया
पमाणे काले आवस्सए य संघाडगे य उवगरणे । [ओ.नि. ४१२] विधिः
मत्तग काउस्सग्गो, जस्स य जोगो सपडिवक्खो ।। १६९६ ।। 30 प्रमाणं नाम–कति वारान् पिण्डपातार्थं गृहपतिकुलेषु प्रवेष्टव्यम् ? इति । “कालि" त्ति कस्यां वेलायां भिक्षार्थ निर्गन्तव्यम् ? । “आवस्सग" त्ति 'आवश्यकं' संज्ञा-कायिकीलक्षणं तस्य शोधनं
१च ‘पीडा' परितापलक्षणा भवति । उड्डाहो वा भवेत् , ते हि वालादयो नियन्यमाणा इत्थं भणेयुः-एते भा० ॥