SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः १६८४-९२ ] प्रथम उद्देशः । पुव्वण्हे जा सिसिरे, निव्वाय निवाय सा रतिं ॥ १६८८ ॥ ग्रीष्मे अपराह्णे यदुपलेपनस्य करणं सा प्रवाता । कुतः ? इत्याह-येन सा रात्रौ ' नाशयति' व्यपनयति ‘घर्मं’ ग्रीप्मर्तुसम्भवं तापम् । या तु 'शिशिरे' शीतकाले पूर्वा उपलेपनकरणेन दिवसस्य चतुर्भिः प्रहरैः ‘'निवाता' शुष्का इत्यर्थः सा रात्रौ निवाता भवति । एतयोः कारणतोsस्थातुं कल्पत इति ॥ १६८८ ॥ अथ निर्व्याघातिमां भङ्गयन्तरेणाह - ४९७ पुण्हें अपविए, अवरण्हे उट्ठिएसु य पसत्था । - मज्झह निग्गएसु य, मंडलिसुत - पेहवाधाया ।। १६८९ ॥ या पूर्वीले अप्रस्थापिते सति स्वाध्याये अपराह्णे पुनः समुद्दिश्योत्थितेषु सत्सु साधुषु मध्याह्ने तु भिक्षापर्यटनार्थं निर्गतेषु या प्राभृतिका क्रियते सा प्रशस्ता । कुतः ? इत्याह –— "मंडेलिसुय-पेह” त्ति येन श्रुतमण्डल्या उपकरणप्रेक्षणायाश्च "वाघाय" त्ति अकारप्रश्लेषाद् 'अव्या - 10 घाता' न व्याघातविधायिनी, अत एषा प्रशस्ता || १६८९ ॥ प्ररूपिता बादरा सूक्ष्मा च पञ्चविधा प्राभृतिका, एवंविधया सहितायां वसतौ न स्थातव्यम् । अथ नास्ति तथाविधा अप्राभृतिका वसतिः ततः कारणतः सप्राभृतिकायामपि तिष्ठतां यतनामाह - तं वेल सारविंती, पाहुडियाकारगं च पुच्छंति । तूण चरिम भंगं, जयंति एमेव सेसेसु || १६९० ॥ यस्यां वेलायां प्राभृतिका क्रियते तां वेलामुपकरणं 'सारयन्ति' सङ्गोपयन्ति, अभिव्याप्तौ चात्र द्वितीया, तां वेलामभिव्याप्येत्यर्थः । प्राभृतिकाकारकं च पुरुषं पृच्छन्ति — कस्यां वेलायां भवान् सम्मार्जनादि करिष्यति ? इति । एवं 'चरमम्' अष्टमं भङ्गं मुक्त्वा 'शेषेषु' सप्तस्वपि भङ्गेषु 'यतन्ते' यतनां कुर्वन्ति ॥ १६९० ॥ जिणकप्पिअभिग्गहिएसणाए पंचण्हमन्नतरियाए । [ नि.गा. १६५८ ] गच्छे पुण सव्वाहिं, सावेक्खो जेण गच्छो उ ॥। १६९२ ।। 5 चरमे वि होइ जयणा, वसंति आउत्तउवहिणो निचं । दक्खे य वसहिपाले, ठर्विति थेरा पुणित्थीसु || १६९१ ॥ 'चरमेऽपि' अष्टमे भङ्गे 'अच्छिन्नकालिका अनियता अनिर्दिष्टा च' इत्येवंलक्षणे आगाढे कारणे तिष्ठतां भवति यतना । कथम् ? इत्याह – नित्यमायुक्तोपधयो वसन्ति, उपधावायुक्ताःसावधाना आयुक्तोषधयः, राजदन्तादेराकृतिगणत्वाद् व्यत्यासेन पूर्वापरनिपातः, मा गोमयादिना कोऽप्युपधिं गुण्डयेत् प्राभृतिकाकरणव्याजेनापहरेद्वेति सम्यगुपधिविषयमवधानं ददतीत्यर्थः । 25 दक्षाँश्च वसतिपालान् स्थापयन्ति । यदि च ते प्राभृतिकाकारिणः पुरुषा न स्त्रियस्ततस्तरुणावसतिपालाः स्थापयितव्याः । “थेरा पुणित्थीसु" त्ति यदि स्त्रियस्ततो ये स्थविरा: परिपाकप्राप्तब्रह्मचर्यास्ते वसतौ स्थापनीया इति ॥ १६९९ ॥ गतं प्राभृतिकाद्वारम् । अथ भिक्षाद्वारमभिधित्सुराह - १ "मंडलित- पेह वाघाए त्ति, मुत्तडलीए अत्थमंडलीए समुद्दिसणमंडलीए पडिलेहणियाकाले य जा कीरति सा वाघाता ॥ एतासु जतणं भणात तं वेल० गाधा" इति चूणों विशेषचूण च ॥ 15 20 30 fare द्वारम्
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy