________________
४९६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ तेन क्रियमाणा प्राभृतिका अपि निर्दिष्टा । तद्विपरीता अनिर्दिष्टा । अत्र च त्रिभिः पदैरष्टौ भङ्गा भवन्ति, तद्यथा-छिन्नकालिका नियता निर्दिष्टा १ छिन्नकालिका नियता अनिर्दिष्टा २ इत्यादि ॥ १६८३ ॥ अथ च्छिन्नकालिकां व्याख्यानयति
मासे पक्खे दसरायए य पणए अ एगदिवसे य ।
वाघाइमपाहुडिया, होइ पवाया निवाया य ॥ १६८४ ॥ या प्राभृतिका 'मासे' मासस्यान्ते 'पक्षे' पक्षस्यान्ते 'दशरात्रे' दशानामहोरात्राणां पर्यन्ते 'पञ्चके' पञ्चरात्रिन्दिवान्ते 'एकदिवसे' एकान्तरिते दिने चशब्दाद् निरन्तरं दिने दिने इत्यर्थः, एवं प्रतिनियते काले या क्रियते सा छिन्नकालिका । या तु न ज्ञायते कस्मिन् दिवसे विधीयते
सा अच्छिन्नकालिकेति । व्याघातिमप्राभृतिका नाम-या सूत्रार्थपौरुषीवेलायां क्रियते । भवति 10 प्रवाता निवाता चेति । प्रवाता नाम-या ग्रीष्मकाले अपराह्ने उपलेपनादिकरणेन धर्म नाशयति । यातु शीतकाले पूर्वाह्ने उपलेपनकरणेन रात्रौ व्यपगतःहा जायते सा निवाता भण्यते ॥१६८४॥ __ अथ कस्यां प्राभृतिकायां वस्तुं कल्पते ? कस्यां वा न ? इति अत आह
पुव्वण्हे अवरण्हे, सूरम्मि अणुग्गए व अत्थमिए ।
मज्झंतिए व वसही, सेसं कालं पडिकुट्ठा ॥ १६८५ ॥ 16 — पूर्वाह्ने अनुद्गते सूर्ये, अपराहे तु अस्तमिते, 'मध्यान्ते वा' मध्याह्नवेलायाम् अर्थपौरुष्या
उत्थितेषु इत्यर्थः, एतेषु कालेषु यस्यां प्राभृतिका क्रियते सा वसतिरनुज्ञाता, सूत्रार्थव्याघाताभावात् । “सेसं कालं" ति सप्तम्यर्थे द्वितीया, 'शेषे' उद्गतसूर्यादौ काले यस्यां प्राभृतिका विधीयते सा प्रतिकुष्टा, न कल्पते तस्यां वस्तुम् , सूत्रार्थव्याघातसम्भवात् ॥ १६८५ ॥ ___ अथ निर्दिष्टा-ऽनिर्दिष्टप्राभृतिके भावयति
पुरिसज्जाओ अमुगो, पाहुडियाकारओ उ निद्दिट्टो।
सेसा उ अनिद्दिट्ठा, पाहुडिया होइ नायव्वा ॥१६८६ ॥ अमुकः 'पुरुषजातः' पुरुषप्रकारः प्राभृतिकाकारक इन्द्रदत्तादिनाम्ना यस्यां निर्दिष्टः सा निर्दिष्टा । शेषा तु सर्वाऽप्यनिर्दिष्टा प्राभृतिका भवति ज्ञातव्या ॥ १६८६ ॥ ___ अथ पूर्वोक्तभङ्गाष्टकविषयं विधिमाह28 काऊण मासकप्पं, वयंति जा कीरई उ मासस्स ।
सा खलु निव्याघाया, तंवेलारेण निंताणं ॥ १६८७ ॥ इह प्रथमे भङ्गे या मासस्यान्ते क्रियत इति कृत्वा च्छिन्नकालिका, तत्राप्यपराल एव विधीयमानत्वाद् नियता, अमुकपुरुषकर्तृकत्वेन च निर्दिष्टा । तस्यां कृतायां प्रथमतः प्रविष्टास्ततो मासकल्पं कृत्वा यदि व्रजन्ति । कथम् ? इत्याह-"तंवेलारेण निंताणं' ति तस्याः-प्राभृति30 काकरणवेलाया अर्वाग् निर्गच्छतां सा प्राभृतिका निर्व्याघाता मन्तव्या, सूत्रार्थव्याघाताभावात् ,
कल्पते तस्यां वस्तुमिति भावः । शेषा द्वितीयादयो भङ्गाः कापि कथञ्चित् सव्याघाता इति कृत्वा तेषु न कल्पते ॥ १६८७ ॥ अथ प्रवाता,निवातेति च पदद्वयं भावयति
अवरण्हें गिम्ह करणे, पवाय सा जेण नासयइ घम्म ।