________________
भाष्यगाथाः १६७६-८३ ]
प्रथम उद्देशः ।
४९५
बादरायां प्राभृतिकायामनन्तरोक्तायामेव सर्वतः करिष्यमाणायां कृतायां वा तिष्ठति चत्वारो लघवः । देशतः करिष्यमाणायां कृतायां वा तिष्ठतो मासलघु । सूक्ष्मायां प्राभृतिकायां वक्ष्यमाणायां सर्वतो विधास्यमानायां विहितायां वा तिष्ठति मासलघु । देशतस्तस्यामेव भिन्नमासः || १६८० ॥ सा पुनः सूक्ष्मप्राभृतिका पञ्चविधा । तामेवाह
संमजण आवरण, उवलेवण सुहुम दीवए चैव ।
ओकण अहिसकण, देसे सव्वे य नायव्वा ।। १६८१ ॥ 'सम्मार्जनं' बहुकरिकया प्रमार्जनम्, 'आवर्षणम्' उदकेन च्छटकप्रदानम्, 'उपलेपनं ' छगणमृत्तिकया भूमिकाया लेपनम्, “सुहुमे" त्ति 'सूक्ष्माणि' समयभाषया पुष्पाण्युच्यन्ते, तथा च दशवैकालिकनिर्युक्तौ पुष्पाणामेकार्थिकानि—
पुप्फाय कुसुमा चेव, फुल्ला य पसवा विय । सुमणा चैव सुहुमा य, सुहुमकाइया विय ॥
ततश्च पुष्पाणां प्रकररचनेत्यर्थः । " दीवए चेव” त्ति दीपकप्रज्वालनम् । एतानि पूर्वमात्मार्थं क्रियमाणान्येव विद्यन्ते । नवरं साधून् प्रतीत्य देशतः सर्वतो वा यदवष्वष्कणमभिष्वष्कणं वा क्रियते सा सूक्ष्मप्राभृतिका ज्ञातव्या ॥ १६८१ ॥
अथास्या एवावप्वष्कणा - ऽभिष्वष्कणे भावयति
5 सूक्ष्मप्रा. मृतिका
-१ दशवैकालिकनिर्युक्तौ पुष्पैकार्थिकगाथा इत्थंरूपा वर्त्तते
पुराणि य कुसुमाणि य, फुल्लाणि तहेव होंति पसवाणि । सुमणाणि य सुहमाणि य, पुप्फाण य होंति एगट्ठा ॥ ३६ ॥ २ "फुलाय पसवा वि य" इति पाठः स्यात् ॥ ३ 'दा अभिष्त्र' भा० विना ॥ .
10
15
जाव न मंडलिवेला, ताव पमज्जामो होड़ ओसक्का । उहेंतु ताव पढिउं, उस्सकण एव सव्वत्थ ।। १६८२ ॥
यावत् ‘मण्डलीवेला' खाध्यायमण्डलीकालो नोपढौकते तावत् प्रमार्जयाम इत्येवं विचिन्त्यानागतमेव यदि प्रमार्जयन्ति तदाऽवष्वष्कणं भवति । अथ साधवः स्वाध्यायं कुर्वाणास्तदानीं मण्डल्यामुपविष्टाः सन्ति ततश्चिन्तयन्ति — उत्तिष्ठन्तु तावदमी पठित्वा ततः पश्चात् प्रमार्जयि- 20 प्याम इति विचिन्त्य तथैव यदि कुर्वते तदा उत्स्वप्कणं भवति । एवमवष्वष्कणमभिष्वष्कणं च ‘सर्वत्र' आवर्षणोपलेपनादावपि भावनीयम् || १६८२ ॥ सा पुनः सूक्ष्मप्राभृतिका द्विविधा -
छिन्नमछिना काले, पुणो य नियया य अनियया चेव ।
निट्ठिाऽनिट्ठिा, पाहुडिया अट्ठ भंगा उ || १६८३ ॥
‘काले’ कालतश्छिन्ना अच्छिन्ना वा, छिन्नकालिका अच्छिन्नकालिका चेत्यर्थः । यस्यामुप - 25: लेपनादिकं छिन्ने-प्रतिनियते मासादौ काले क्रियते सा छिन्नकालिका । या तु यदा तदा वा क्रियते सा अच्छिन्नकालिका । पुनरेकैका द्विधा – नियता अनियता चैव । नियता नाम - या पूर्वाह्णादावेव वेलायामवश्यमेव वा क्रियते । तद्विपरीता अनियता । पुनरेकैका द्विविधा - निर्दिष्टा अनिर्दिष्टा च । तत्र यः प्राभृतिकाकारकः स निर्दिष्टः - इन्द्रदत्तादिनाम्नोपलक्षितः