________________
15
४९४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ __ ओभासिए व संते, न एंति जा भंतुणं कुणिमो ॥ १६७६ ॥ इदानीं तावद् ‘आसतां' तिष्ठन्तु श्रमणाः, गतेषु तेषु 'पश्चाद' आषाढमासे भक्त्वा करिष्याम इति, एतदभिप्वप्कणम् । अथावप्वप्कणमाह-"ओभासिए व” इत्यादि । क्षेत्रप्रत्युपेक्षकैरवभाषिते प्रदत्ते चोपाश्रये सति स गृहपतिश्चिन्तयति-ज्येष्ठमासे तावदत्र साधवः स्थास्यन्ति, अतो 5 यावत् ते नागच्छन्ति तावद् वैशाखे मासे भक्त्वा कुर्म इति, एतदवप्वष्कणम् ॥ १६७६ ॥ भावितं विध्वंसनपदम् । अथ च्छादनादीन्यतिदिशन्नाह
एसेव कमो नियमा, छज्जे लेवे य भूमिकम्मे य ।
तेसाल चाउसालं, पडुच्चकरणं जईनिस्सा ॥ १६७७ ॥ एष एवाभिप्वप्कणतोऽवप्वष्कणतश्च क्रमो नियमाद् मन्तव्यः । क ? इत्याह-'छज्जे' 10 छादने 'लेपे' लिम्पने भूमिकर्मणि च । तिष्ठन्तु तावदिदानीं श्रमणाः, पश्चाद् गतेषु सत्सु गृहं
छादयिप्यामो लेप्स्यामो भूमिं वा परिकर्मयिष्याम इति, एतदभिष्वप्कणम् । एतान्येव च्छादनादीनि यद्यनागतमेव करोति तदाऽवष्वष्कणम् । अथ प्रतीत्यकरणं भाव्यते--"तेसाल" इत्यादि । त्रिशालं गृहं कर्तुकामो यतीनां निश्रया तान् प्रतीत्येति भावः चतुःशालं यत् करोति तत् प्रतीत्यकरणमुच्यते ॥ १६७७ ॥ अथवा
पुव्वघरं दाऊण व, जईण अनं करिति सट्टाए।
काउमणा वा अन्नं, हाणाइसु कालमोसक्के ॥ १६७८ ॥ ___ 'पूर्वगृहं' खार्थं पूर्वं कृतं यद् गृहं तद् यतीनां दत्त्वा स्वार्थम् 'अन्यद्' अभिनवं यदगारिणः कुर्वन्ति तद् वा प्रतीत्यकरणम् । अथवा केऽपि श्राद्धाः स्वार्थमन्यद् गृहं ज्येष्ठमासे कर्तुम
नसः परं तत्र वैशाखमासि स्नानादिकं जैनचैत्येषु भविता ततस्ते चिन्तयन्ति-अनागतमेव गृहं 20 कुर्मों येन तत्र साधवो वैशाखमासि सानादिषु समायातास्तिष्ठन्ति । एवं साधून् प्रतीत्य कालमवष्वष्कयेयुः एतदवष्वष्कणतः प्रतीत्यकरणमुक्तम् ॥ १६७८ ॥ अथाभिष्वप्कणतस्तदेवाह
एमेव य हाणाइसु, सीयलकजट्ट कोइ उस्सके ।
__ मंगलबुद्धी सो पुण, गएसु तहियं वसिउकामो ॥ १६७९ ॥ 'एवमेव' अवप्वप्कणवत् कोऽपि श्राद्धः शीतकाले गृहं कर्तुकामश्चिन्तयति-'वैशाखमासि 25 सानं रथयात्रा वेह भविष्यति, तत्र च साधवः समागमिष्यन्ति तच्च तदानीमेव कृतं नवगृह
शीतलं भवति, शीतले च तस्मिन् साधवः सुखमासिप्यन्ते, अतः स्नानादिप्रत्यासन्न एव समये करिष्यामि' इति साधून् प्रतीत्य स्नानादिषु शीतलकार्यार्थ यत् कोऽप्युत्ष्वष्कते एतदभिष्वष्कणतः प्रतीत्यकरणम् । स पुनरवप्वष्कणमभिष्वष्कणं वा मङ्गलबुद्ध्या करोति, यथा—पूर्व साधवो मदीयं नवगृहं यदि परिभुञ्जते ततः पवित्रं भवतीति । गतेषु च तेषु तत्र नवगृहे खयमेव 30 वस्तुकाम इति ॥ १६७९ ॥ अथात्रैव प्रायश्चित्तमाह
सव्वम्मि उ चउलहुया, देसम्मी बायराएँ लहुओ उ ।
सव्वम्मि मासियं खलु, देसे भिन्नो य सुहमाए ॥ १६८०॥ १ वा वाशब्दः प्रकारान्तरतायाम् खा त० डे० ॥