________________
४९३
भाष्यमाथाः १६६९-७५] प्रथम उद्देशः । मुदायः, गणसमुदायः सङ्घः चतुर्वर्णरूपो वा, तत्कार्येषु च विभाषा कर्तव्या । सा चेयम्--- कुले गणे सङ्घ वा आभाव्या-ऽनाभाव्यविषयः कोऽपि व्यवहारः समुपस्थितः तस्य यथावत् परिच्छेदनं कर्त्तव्यम् , प्रत्यनीको वा कोऽपि साधूनामुपस्थितः तस्य शिक्षणं विधेयम् , चैत्यद्रव्यं वा कश्चिद् निःशकं मुष्णाति स शासितव्यो वर्तत इत्यादि ॥ १६७२ ॥ तथा
उच्चारः-पुरीषं तस्य उपलक्षणत्वात् प्रश्रवण-खेलादेश्च व्युत्सर्जनार्थ बहिर्गन्तव्यम् ।। विहारो नाम-वसतावस्वाध्यायिके समुत्पन्ने सति खाध्यायनिमित्तमन्यत्र गमनम् , आदिग्रहणात् पूर्वगृहीतपीठफलक-शय्या-संस्तारकप्रत्यर्पणप्रभृतिपरिग्रहः । सम्भ्रमो नाम-उदका-ऽग्नि-हस्त्याद्यागमनसमुत्थ आकस्मिकः संत्रासः, भयं तु-सामान्येन दुष्टस्तेनाद्युपद्रवप्रभवम् , चैत्यानिजिनबिम्बानि तेषां वन्दनम् , आदिशब्दादपूर्वबहुश्रुताचार्यवन्दनादिपरिग्रहः । एवमादीनि यान्यात्मनः परेषामुभयस्य वा हेतोः कार्याणि तन्निमित्तं गच्छे बहुशोऽपि प्रतिश्रयाद् विनि-10 र्गमाः 'वर्णिताः' प्रतिपादिता इति ॥ १६७३ ॥ गतं निष्क्रमणद्वारम् । अथ प्राभृतिकाद्वारं बिभावयिषुराह
पाहुडिया वि ये दुविहा, बायर सुहुमा य होइ नायव्वा । [पि.नि.२८५) प्रामृतिकाएक्केका वि य एत्तो, पंचविहा होइ नायव्या ॥ १६७४ ॥
द्वारम् 'प्राभृतिका' वसतेश्छादन-लेपनादिरूपा, सा द्विविधा-वादरा सूक्ष्मा च भवति ज्ञातव्या । 15 एकैकाऽपि चेत ऊर्द्ध पञ्चविधा भवति ज्ञातव्या ॥ १६७४ ॥ तत्र बादरां पञ्चविधामपि तावदाह-- विद्धंसण छायण लेवणे य, भूमीकम्मे पडुच्च पाहुडिया ।
बादरओसकण अहिसक्कण, देसे सव्वे य नायव्वा ॥ १६७५ ॥
प्राभृतिका 'विध्वंसनं' वसतेभञ्जनम् । 'छादनं' दर्भादिभिराच्छादनम् । 'लेपनं' कुड्यानां कर्दमेन गोमयेन 20 चलेपप्रदानम् । 'भूमिकर्म' सम-विषमाया भूमेः परिकर्मणम् । “पडुच्च" त्ति 'प्रतीत्यकरणं' त्रिशालं गृहं कर्तुकामः साधून् प्रतीत्य चतुःशालं करोति, आत्मीयं वा गृहं साधूनां दत्त्वा आत्मार्थमपरं कारयतीत्यादि । एषा पञ्चविधाऽपि बादरप्राभृतिका प्रत्येकं द्विधा-अवष्वष्कणतोऽभिप्वष्कणतश्च । अवष्वष्कणं नाम-विवक्षितविध्वंसनादिकालस्य हासकरणम् , अर्वाकरणमित्यर्थः । अभिष्वप्कणं-तस्यैव विवक्षितकालस्य संवर्द्धनम् , परतः करणमित्यर्थः । पुनरेकैके विध्वंसना-25 दयो द्विधा देशतः सर्वतश्च ज्ञातव्याः ॥ १६७५ ॥ तत्र देशतः सर्वतो वा विध्वंसनमभिष्वकणतो भाव्यते-केनचिद् गृहपतिना चिन्तितम्-यथेदं गृहं ज्येष्ठमासे भक्त्वा ततोऽभिनवं करिष्याम इति । इतश्च ज्येष्ठमासे तत्र गृहे साधवो मासकल्पेन स्थिताः, ततोऽसौ चिन्तयति
अच्छंतु ताव समणा, गएसु भंतूण पच्छ काहामो । १सा चैषा-कु° त० डे० कां० ॥ २ तथा उच्चार-विहाराद्यर्थ बहिर्गमनं भवति, उच्चारः-पुरीषम् उपलक्षणत्वात् प्रश्रवण-खेलादिकमपि गृह्यते, तस्य परिष्ठापनं विधेयम् । विहारो भा० ॥ ३ हु ता० ॥ ४ साधुनिमित्तं चतुःशालं करोति, स्वार्थ वा पूर्व कारितं गृहं साधूनां भा० ॥