Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 275
________________ 15 ४८६ सनियुक्ति-लघुभाम्य-वृत्तिके बृहत्कल्पसूत्रे मासकल्पप्रकृते सूत्रम् १ उत्क्षिप्त-पाकपिठरात् पूर्वमेव दायकेनोद्धृतं तद् ये चरन्ति-गवेषयन्ति ते उत्क्षिप्तचरकाः, आदिशब्दाद् निक्षिप्तचरकाः सङ्ख्यादत्तिका दृष्टलाभिकाः पृष्टलाभिका इत्यादयो गृह्यन्ते । त एते गुण-गुणिनोः कथञ्चिदभेदाद् भावयुताः खल्वभिग्रहा भवन्ति, भावाभिग्रहा इति भावः । यद्वा गायन् यदि दास्यति तदा मया ग्रहीतव्यम् , एवं रुदन् वा निषण्णादिर्वा, आदिग्रहणादुत्थितः 5 सम्पस्थितश्च यद् ददाति तद्विषयो योऽभिग्रहः स सर्वोऽपि भावाभिग्रह उच्यते॥१६५२॥ तथा ओसक्कण अहिमकण, परम्मुहाऽलंकिएयरो वा वि । भावन्नयरेण जुओ, अह भावाभिग्गहो नाम ॥ १६५३ ॥ 'अवप्वप्कन्' अपसरणं कुर्वन् 'अभिप्वप्कन्' सम्मुखमागच्छन् 'पराङ्मुखः' प्रतीतः, अलकृतः कटक-केयूरादिभिः, 'इतरो वा' अनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमिति । 10 एतेषां भावानामन्यतरेण भावेन युतः 'अथ' अयं भावाभिग्रहो नामेति । एते च द्रव्यादयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीर्णत्वाद् मोह-मदापनयनप्रत्यलत्वाच्च गच्छवासिनां तथाविधसहिष्णुपुरुषविशेषापेक्षया महत्याः कर्मनिर्जराया निबन्धनं प्रतिपत्तव्या इति ।। १६५३ ॥ अथ प्रजाजना-मुण्डापनाद्वारे भावयति सच्चित्तदवियकप्पं, छव्विहमवि आयरंति थेरा उ । कारणओ असहू वा, उवएसं दिति अनत्थ ॥१६५४॥ प्रव्राजना-मुण्डापनाभ्यामुपलक्षणत्वात् षड्विधोऽपि सञ्चित्तद्रव्यकल्पो गृहीतः । तद्यथाप्रव्राजना १ मुण्डापना २ शिक्षापना ३ उपस्थापना ४ सम्भुञ्जना ५ संवासना ६ चेति । तमेवंविधं षविधमपि सच्चित्तद्रव्यकल्पमाचरन्ति 'स्थविराः' गच्छवासिनः । "कारणओ" ति तथाविधैरनाभाव्यतादिभिः कारणैः 'असहिष्णवो वा' स्वयं वस्त्र-पात्रादिभिर्ज्ञानादिभिश्च शिष्याणां 20 सङ्ग्रहोपग्रहो कर्तुमसमर्था उपदेशम् 'अन्यत्र' गच्छान्तरे 'ददति' प्रयच्छन्ति, अमुकत्र गच्छे संविमगीतार्था आचार्याः सन्ति तेषां समीपे भवता दीक्षा प्रतिपत्तव्येति ॥ १६५४ ।। अथ "मनसाऽऽपन्ने नास्ति प्रायश्चित्तम्" (गा० १६३५) इति पदं व्याख्यानयति जीवो पमायबहुलो, पडिवक्खे दुक्करं ठवेउं जे । [आ.व नि.८०२] केत्तियमित्तं वोज्झिति, पच्छित्तं दुग्गयरिणी वा ॥ १६५५ ॥ 25 अयं 'जीवः' प्राणी 'प्रमादबहुलः' अनादिभवाभ्यस्तप्रमादभावनाभावितः, ततः 'प्रतिपक्षे' अप्रमादे स्थापयितुं दुष्करं भवति, दुःखेन अप्रमादभावनायां स्थाप्यत इत्यर्थः । “जे" इति निपातः पादपूरणे । अतो 'दुर्गतऋणिक इव' दरिद्राधमर्ण इव अतिप्रभूतं ऋणं अतिचपलचित्तसम्भवापराधवशादयं प्रमादबहुलो जीवः पदे पदे समापद्यमानं कियन्मानं प्रायश्चित्तं 'वक्ष्यति' १ एते सर्वेऽपि भाव भा० ॥ २ 'कारणतः' तथा भा० ॥ ३ °ल' स्वभावत एवाना भा० ॥ ४ यतश्चैवमतः कियन्मात्रमसौ प्रायश्चित्तं वक्ष्यति 'दुर्गतऋणिक इव' दरिद्रधारणिक इव ? । यथा हि निर्द्रव्यत्वादसौ कियन्मात्रमिव ऋणं निर्वाहयितुमीशः? तथाऽयमपि जीवः प्रमादबहुलतया पदे पदे समापद्यमानं कियदिव प्रायश्चित्तं निर्वाहपितुमीथे ? इति मनसाऽऽपस्याप्यपराधस्य नास्ति प्रायश्चित्तं स्थविरकल्पिकानाम् ॥१६५५॥ भा० ॥

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400