________________
15
४८६ सनियुक्ति-लघुभाम्य-वृत्तिके बृहत्कल्पसूत्रे मासकल्पप्रकृते सूत्रम् १
उत्क्षिप्त-पाकपिठरात् पूर्वमेव दायकेनोद्धृतं तद् ये चरन्ति-गवेषयन्ति ते उत्क्षिप्तचरकाः, आदिशब्दाद् निक्षिप्तचरकाः सङ्ख्यादत्तिका दृष्टलाभिकाः पृष्टलाभिका इत्यादयो गृह्यन्ते । त एते गुण-गुणिनोः कथञ्चिदभेदाद् भावयुताः खल्वभिग्रहा भवन्ति, भावाभिग्रहा इति भावः । यद्वा गायन् यदि दास्यति तदा मया ग्रहीतव्यम् , एवं रुदन् वा निषण्णादिर्वा, आदिग्रहणादुत्थितः 5 सम्पस्थितश्च यद् ददाति तद्विषयो योऽभिग्रहः स सर्वोऽपि भावाभिग्रह उच्यते॥१६५२॥ तथा
ओसक्कण अहिमकण, परम्मुहाऽलंकिएयरो वा वि ।
भावन्नयरेण जुओ, अह भावाभिग्गहो नाम ॥ १६५३ ॥ 'अवप्वप्कन्' अपसरणं कुर्वन् 'अभिप्वप्कन्' सम्मुखमागच्छन् 'पराङ्मुखः' प्रतीतः, अलकृतः कटक-केयूरादिभिः, 'इतरो वा' अनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमिति । 10 एतेषां भावानामन्यतरेण भावेन युतः 'अथ' अयं भावाभिग्रहो नामेति । एते च द्रव्यादयश्चतुर्विधा
अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीर्णत्वाद् मोह-मदापनयनप्रत्यलत्वाच्च गच्छवासिनां तथाविधसहिष्णुपुरुषविशेषापेक्षया महत्याः कर्मनिर्जराया निबन्धनं प्रतिपत्तव्या इति ।। १६५३ ॥ अथ प्रजाजना-मुण्डापनाद्वारे भावयति
सच्चित्तदवियकप्पं, छव्विहमवि आयरंति थेरा उ ।
कारणओ असहू वा, उवएसं दिति अनत्थ ॥१६५४॥ प्रव्राजना-मुण्डापनाभ्यामुपलक्षणत्वात् षड्विधोऽपि सञ्चित्तद्रव्यकल्पो गृहीतः । तद्यथाप्रव्राजना १ मुण्डापना २ शिक्षापना ३ उपस्थापना ४ सम्भुञ्जना ५ संवासना ६ चेति । तमेवंविधं षविधमपि सच्चित्तद्रव्यकल्पमाचरन्ति 'स्थविराः' गच्छवासिनः । "कारणओ" ति तथाविधैरनाभाव्यतादिभिः कारणैः 'असहिष्णवो वा' स्वयं वस्त्र-पात्रादिभिर्ज्ञानादिभिश्च शिष्याणां 20 सङ्ग्रहोपग्रहो कर्तुमसमर्था उपदेशम् 'अन्यत्र' गच्छान्तरे 'ददति' प्रयच्छन्ति, अमुकत्र गच्छे संविमगीतार्था आचार्याः सन्ति तेषां समीपे भवता दीक्षा प्रतिपत्तव्येति ॥ १६५४ ।। अथ "मनसाऽऽपन्ने नास्ति प्रायश्चित्तम्" (गा० १६३५) इति पदं व्याख्यानयति
जीवो पमायबहुलो, पडिवक्खे दुक्करं ठवेउं जे । [आ.व नि.८०२]
केत्तियमित्तं वोज्झिति, पच्छित्तं दुग्गयरिणी वा ॥ १६५५ ॥ 25 अयं 'जीवः' प्राणी 'प्रमादबहुलः' अनादिभवाभ्यस्तप्रमादभावनाभावितः, ततः 'प्रतिपक्षे'
अप्रमादे स्थापयितुं दुष्करं भवति, दुःखेन अप्रमादभावनायां स्थाप्यत इत्यर्थः । “जे" इति निपातः पादपूरणे । अतो 'दुर्गतऋणिक इव' दरिद्राधमर्ण इव अतिप्रभूतं ऋणं अतिचपलचित्तसम्भवापराधवशादयं प्रमादबहुलो जीवः पदे पदे समापद्यमानं कियन्मानं प्रायश्चित्तं 'वक्ष्यति'
१ एते सर्वेऽपि भाव भा० ॥ २ 'कारणतः' तथा भा० ॥ ३ °ल' स्वभावत एवाना भा० ॥ ४ यतश्चैवमतः कियन्मात्रमसौ प्रायश्चित्तं वक्ष्यति 'दुर्गतऋणिक इव' दरिद्रधारणिक इव ? । यथा हि निर्द्रव्यत्वादसौ कियन्मात्रमिव ऋणं निर्वाहयितुमीशः? तथाऽयमपि जीवः प्रमादबहुलतया पदे पदे समापद्यमानं कियदिव प्रायश्चित्तं निर्वाहपितुमीथे ? इति मनसाऽऽपस्याप्यपराधस्य नास्ति प्रायश्चित्तं स्थविरकल्पिकानाम् ॥१६५५॥ भा० ॥