________________
10
भाष्यगाथाः १६५३-५९] प्रथम उद्देशः ।
४८७ वोढुं शक्ष्यति ? इति मनसाऽऽपन्नेऽप्यपराधे नास्ति तपःप्रायश्चित्तं स्थविरकल्पिकानाम् , आलोचना-प्रतिक्रमणप्रायश्चित्ते तु तत्रापि भवत इति मन्तव्यम् ॥ १६५५ ॥ ___ अथ "कारणे पडिकम्मम्मि य” (गा० १६३५)त्ति पदं व्याख्यायते-कारणम्-अशिवाऽवमौदर्यादिकं तत्रोत्पन्ने द्वितीयपदमप्यासेवन्ते । तथा निष्कारणे निष्प्रतिकर्मशरीराः । कारणे तु ग्लानमाचार्य वादिनं धर्मकथिकं च प्रतीत्य पादधावन-मुखमार्जन-शरीरसम्बाधनादिकरणात्। सप्रतिकर्माण इति । "भत्तं पंथो य भयणाए" ति भक्तं पन्थाश्च भजनया । किमुक्तं भवति ?-- उत्सर्गतस्ताक्त् तृतीयपौरुप्यां भिक्षाटनं विहारं च कुर्वन्ति, अपवादतस्तु तदानी भिक्षाया अलाभे काले वाऽपूर्यमाणे शेषास्वपि पौरुषीविति । गतं स्थितिद्वारम् । अथोपसंहरन्नाह- .
गच्छम्मि उ एस विही, नायव्यो होइ आणुपुचीए ।
जं एत्थं नाणत्तं, तमहं वोच्छं समासेणं ॥ १६५६ ॥ 'गच्छे' गच्छवासिनां 'एषः' अनन्तरोक्तो विधिर्ज्ञातव्यः ‘आनुपूर्व्या' परिपाट्या । यत् पुनरत्र 'नानात्वं' विशेषस्तदहं वक्ष्ये समासेन ॥ १६५६ ॥ एतदेव सविशेषमाहसामायारी पुणरवि, तेसि इमा होइ गच्छवासीणं ।
गच्छवासिपडिसेहो व जिणाणं, जं जुजइ वा तगं वोच्छं ॥ १६५७ ॥
नां सामा
चारी सामाचारी पुनरपि तेषां गच्छवासिनां मासकल्पेन विहरताम् ‘एषा' वक्ष्यमाणा भवति । 15 'जिनानां' जिनकल्पिकानामस्या एव सामाचार्याः प्रतिषेधो वा वक्तव्यः । 'यद् वा' प्रत्युपेक्षणादिकं तेषामपि युज्यते तकमपि वक्ष्ये ॥ १६५७ ॥ प्रतिज्ञातमेव निर्वाहयन् द्वारगाथाद्वयमाह
पडिलेहण निक्खमणे, पाहुडिया भिक्ख कप्पकरणे य । गच्छ सतिए अ कप्पे, अंबिल भरिए य ऊसित्ते ॥ १६५८ ॥ परिहरणा अणुजाणे, पुरकम्मे खलु तहेव गेलने।
गच्छपडिबद्धहालंदि उवरि दोसा य अववादे ॥ १६५९ ॥ प्रथमतः प्रत्युपेक्षणा वक्तव्या । ततो 'निष्क्रमणं' कति वारा उपाश्रयाद् निर्गन्तव्यमिति, प्राभृतिका सूक्ष्म-बादरभेदाद् द्विविधा, 'भिक्षा' गोचरचर्या, 'कल्पकरणं च' भाजनस्य धावनविधिलक्षणमित्येतानि वक्तव्यानि । “गच्छ सइए" ति शतिकाः-शतसङ्ख्यपुरुषपरिमाणा ये गच्छास्तेषु प्रभूतेन पानकेन प्रयोजनं भवेत् , तच्च "कप्पे अंबिल" ति 'कल्प्यं' कल्पनीयम् 25 'अम्लं च' सौवीरं ग्रहीतव्यम् , अनेन सम्बन्धेन सौवीरिणीसप्तकमभिधानीयम् । “भरिए य" ति तस्याः सौवीरिण्याः सप्तविधं भरणं वाच्यम् । “ऊसित्ति" ति उत्सेचनमुत्सितं-सौवीरस्योलिम्चनमित्यर्थः तत्खरूपं च निरूपणीयम् ॥ १६५८ ॥
"परिहरण" त्ति नोदकः प्रश्नयिष्यति—यदि साम्प्रतं शतिकेष्वपि गच्छेष्वित्थमाधाकर्मादयो दोषा उद्भवन्ति ततः पूर्व साहस्रेषु गच्छेषु साधवः कथमाधाकर्मादीनां परिहरणं कृत-30 चन्तः ? इति । अत्राऽऽचार्यः प्रतिवक्ष्यति- 'अनुयानं' रथयात्रा उपलक्षणत्वात् मात्रादेरपि-परि
१क्षा' प्रतीता, 'क° भा० ॥ २°धातव्यम् । “भरिए य" त्ति एकैकस्याः सौ भा०॥ ३ 'त्यर्थः, तदात्मार्थ साध्वर्थ वा करोतीति निरू° भा०॥ ४ हसिकेषु मा०॥