________________
15
माप्यगाथाः १६४७-५२] प्रथम उद्देशः । शलभस्तस्येव या वीथिका-पर्यटनमार्गः सा पतङ्गवीथिका, पतङ्गो हि गच्छन्नुत्प्लुत्योत्प्लुत्यानियतया गत्या गच्छति एवं गोचरभूमिरपि या पतङ्गोड्डयनाकारा सा पतङ्गवीथिकेति भावः ४ । यस्यां तु साधुः क्षेत्रं पेटावत् चतुरस्र विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृप्वपि दिक्षु सम. श्रेण्या भिक्षामटति सा पेटा ५ । अर्द्धपेटाऽप्येवमेव, नवरमर्द्धपेटासशसंस्थानयोर्दिगद्वयसम्बद्धयोर्गृहश्रेण्योरत्र पर्यटति ६ । तथा शम्बूकः-शङ्खः तद्वद् या वीथिः सा शम्बूका । सा द्वेधा-3 अभ्यन्तरशम्बूका बहिःशम्बूका च । यस्यां क्षेत्रमध्यभागात् शङ्खवद् वृत्तया परिभ्रमणभङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका ७ । यस्यां तु क्षेत्रबहिर्भागात् तथैव भिक्षामटन मध्यभागमायाति सा बहिःशम्बूका ८ । .. आह च खोपज्ञपञ्चवस्तुकटीकायां श्रीहरिभद्रसूरिः
अभितरसंबुक्का वाहिसंबुक्का . य संखनाहिखेत्तोवमा । एगीए अंतो आढवइ बाहिरतो 10 .. संनियट्टइ, इयरीए विवजओ त्ति (गा० २९९)। __ तथा “एलुगविक्खंभमित्तगहणं च" त्ति एलुकः-उदुम्बरस्तस्य विष्कम्भः-आक्रमणं तन्मात्रेण मया ग्रहणं कर्त्तव्यमिति कस्याप्यभिग्रहो भवति, यथा भगवतः श्रीमन्महावीरस्वामिनः । तथा खग्रामे वा परग्रामे वा एतावन्ति गृहाणि मया प्रवेष्टव्यानीत्येषः 'क्षेत्रे' क्षेत्रविषयोऽभिग्रहः ॥ १६४९ ॥ कालाभिग्रहमाहकाले अभिग्गहो पुण, आई मज्झे तहेव अवसाणे ।
कालाभिअप्पत्ते सइ काले, आई विइओ अ चरिमम्मि ॥ १६५०॥ प्रहः 'काले' कालविषयोऽभिग्रहः पुनरयम् -आदौ मध्ये तथैवावसाने भिक्षावेलायाः । एतदेव व्याचष्टे-अप्राप्ते भिक्षाकाले यत् पर्यटति सः 'आदौ' इति आद्यभिक्षाकालविषयः प्रथमोऽभिग्रहः । यत्तु 'संति' प्राप्ते भिक्षाकाले चरति स द्वितीयो मध्यभिक्षाकालविषयोऽभिग्रहः । यत् 20 पुनः 'चरिमे' अतिक्रान्ते भिक्षाकाले पर्यटति सोऽवसानविषयोऽभिग्रहः ॥ १६५० ॥ कालत्रयेऽपि गुण-दोषानाह
दिंतग-पडिच्छगाणं, हविज सुहमं पि मा हु अचियत्तं ।
इअ अप्पत्ते अइए, पवत्तणं मा ततो मझे ॥ १६५१ ॥ __ 'ददत्-प्रतीच्छकयोः' इति भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च वनीपकादेर्मा भूत् । सूक्ष्ममपि 'अचियत्तम्' अप्रीतिकं 'इति' अस्माद्धेतोरप्राप्तेऽतीते च भिक्षाकालेऽटनं [न] श्रेय इति गम्यते । “पवत्तणं मा ततो मज्झे" त्ति अप्राप्तेऽतीते वा पर्यटतः प्रवर्त्तनं पुरःकर्म-पश्चात्कर्मादेर्मा भूत् 'ततः' एतेन हेतुना 'मध्ये' प्राप्ते भिक्षाकाले पर्यटति ॥१६५१॥ अथ भावाभिग्रहमाहउक्खित्तमाइचरगा, भावजुया खलु अभिग्गहा होति ।
भावाभिगायंतो व रुदंतो, जं देइ निसन्नमादी वा ॥ १६५२ ॥
3)प्रहः १°धुरभिग्रहविशेषाद् ग्रामादिक्षेत्रं पेटा भा० ॥ २ तद्वत् शङ्खभूमिवद् या भा० ॥ ३ “संखनाहिवित्तोवमा" इति पञ्चवस्तुकटीकायाम् ॥ ४°इति प्रथ° मो. ले० विना ॥ ५ यस्तु त० डे० कां० ॥ ६ 'सति' विद्यमाने प्राप्ते भा०॥ ७°ध्यविष त. डे. का० ॥