________________
10
४८४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ "ज लेसं" ति सप्तम्यर्थे द्वितीया, ततोऽयमर्थः- 'यस्यां' कृष्णादीनामन्यतमस्यां लेश्यायां परिणतस्य जीवस्य यद् अशुभं शुभं वा 'कर्म' ज्ञानावरणादि चीयते, कर्मकर्त्तर्ययं प्रयोगः, चयं-बन्धमुपगच्छतीत्यर्थः, 'तस्य' एवमशुभरूपतया शुभरूपतया वा बद्धस्य कर्मण उदयावलिकां प्राप्तस्याशुभ: शुभो वा यथानुरूप एवोदयः 'गीतः' संशब्दितस्तीर्थकरैः । दृष्टान्तमाह-- 5 'अपथ्य-पथ्यान्न उदय इव' यथा अपथ्यान्नं भुक्तवतो ज्वरादिरोगद्वारेणापथ्य एवोदयो भवति, पथ्यान्नं तु भुक्तवतः सुखासिकादिद्वारेण पथ्यः । एवं कर्मणोऽपि प्रशस्ता-ऽप्रशस्तलेश्यापरिणामबद्धस्य विपाकः शुभाशुभो भवतीति ॥ १६४६ ॥ - उक्तं सप्रपञ्चं ध्यान-लेश्याद्वारद्वयम् । अथ गणनाद्वारमाह
पडिवजमाण भइया, एगो व सहस्ससो व उक्कोसा ।
कोडिसहस्सपुहत्तं, जहन्न-उक्कोसपडिवन्ना ॥ १६४७ ।। स्थविरकल्पस्य प्रतिपद्यमानकाः 'भाज्याः' विवक्षितकाले भवेयुर्वा न वा । यदि भवेयुस्तत एको द्वौ वा त्रयो वा उत्कर्षतो यावत् सहस्रपृथक्त्वम् । पूर्वप्रतिपन्ना जघन्यतोऽपि कोटिसहसपृथक्त्वम् , उत्कर्पतोऽपि कोटिसहस्रपृथक्त्वम् । नवरं जघन्यपदादुत्कृष्टपदे विशेषाधिकत्वम्
॥ १६४७॥ गतं गणनाद्वारम् । अथाभिग्रहद्वारं व्याख्यायते-ते च चतुर्दा, तद्यथा
15 द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यतस्तावदाहद्रव्याभि
लेवडमलेवडं वा, अमुगं दव्वं च अज घिच्छामि ।
अमुगेण व दव्वेणं, अह दव्याभिग्गहो नाम ॥ १६४८ ॥ 'लेपकृतं' जगारिप्रभृतिकम् 'अलेपकृतं वा' तद्विपरीतं वल्ल-चणकादि 'अमुकं वा' निर्दिष्टनामकं मण्डकादिद्रव्यमहं ग्रहीष्यामि, 'अमुकेन वा' दर्वी-कुन्तादिना दीयमानमहं ग्रहीष्ये, 20 'अथ' अयं 'द्रव्याभिग्रहो नाम' भिक्षाग्रहणादिविषयः प्रतिज्ञाविशेष इति ॥ १६४८ ॥.
क्षेत्राभिग्रहमाहक्षेत्राभि
- अट्ठ उ गोयरभूमी, एलुगविक्खंभमित्तगहणं च । प्रहः
सग्गाम परग्गामे, एवइय घरा य खित्तम्मि ॥ १६४९ ॥ अष्टौ गोचरभूमयो भवन्ति । ताश्चैताः-ऋज्वी १ गत्वाप्रत्यागतिका २ गोमूत्रिका ३ 25 पतङ्गवीथिका ४ पेडा ५ अर्द्धपेडा ६ अभ्यन्तरशम्बूका ७ बहिःशम्बूका ८ च । तत्र. यस्यामेकां दिशमभिगृह्योपाश्रयाद् निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपतौ भिक्षां परिभ्रमन् तावद् याति यावत् पतौं चरमगृहम् , ततो भिक्षामगृहन्नेवापर्याप्तेऽपि प्रान्जलयैव गत्या प्रतिनिवर्त्तते सा ऋज्वी १ । यत्र पुनरेकस्यां गृहपतौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा
प्रत्यागच्छन् पुनर्द्वितीयस्यां गृहपतौ भिक्षामटति सा गत्वाप्रत्यागतिका, 'गत्वा प्रत्यागतिर्यस्यां 30 सा गत्वाप्रत्यागतिका' इति व्युत्पत्तेः २ । यस्या तु वामगृहाद् दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गो:-बलीवर्दस्य मूत्रणं गोमूत्रिका, उपचारात् तदाकारा गोचरभूमिरपि गोमूत्रिका ३ । यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका, पतङ्गः
१ सा गोमूत्राकारत्वाद् गोचर' त० डे० का० ॥