Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे मूर्ये तु विद्यया त्रय्या हविषानौ यजेत माम् । आतिथ्येन तु विप्राग्ये गोष्वङ्ग यवसादिना ।। वैष्णवे बन्धुत्कृत्या खे हृदि ध्याननिष्ठया । वायौ मुख्याधिया तोये द्रव्यस्तोयपुरस्कृतैः ॥ स्थण्डिले मन्त्रहदयैर्भोगेरात्मानमात्मनि । क्षेत्रनं सर्वभूतेषु समत्वेन यजेत माम् ॥ मुख्यधिया प्राणबुद्ध्या । भोगैरिति स्रक्चन्दनादिना । आत्माऽभिन्नः परमेश्वरः प्रीयतामिति बुध्या भोगाचरणमपि पूजेत्यर्थः। तदुक्तं लिङ्गपुराणे, गन्धपुष्पादिकं सर्व शिरसा यो विधारयेत् । विष्णवे सर्वमित्येवं मत्वासौ वैष्णवः स्मृतः ॥ इति । आतिथ्यादिविशेषविधावपि गन्धाधुपचारपूजा न विरुद्धा। अत एव सूर्यादौ द्रव्यैरपि पूजां वक्ष्यति अर्चायां स्थण्डिले वह्नौ सूर्ये खे यदि वा द्विजे । द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ इति । आगमिकास्तु यन्त्रे पूजामिच्छन्ति यन्त्र मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतेति च । यन्त्रं विना कृता पूजा देवता न प्रसीदति ।। इतिवाक्यात् । तयेति शेषः। नारदोऽपि, अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्रस्थानेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् ॥ इति । विष्णुधर्मोत्तरे, आपो ह्यायतनं तस्य तस्मात्तासु सदा हरिः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107