Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोर्गन्धाः। इन्द्रलोके वसेच्छीमान् यावदिन्द्राश्चतुर्दश ।। इति । अथ गन्धाः । नरसिंहपुराणे, कुङ्कुमागुरुश्रीखण्डकपूरेणाच्युताकृतिम् । आलिप्य भक्त्या राजेन्द्र कल्पकोटिं वसेदिवि ॥ चन्दनागुरुकर्पूरकुडमोशीरपद्मकैः। अनुलिप्तो हरिभक्त्या वरान् भोगान् प्रयच्छति ॥ पद्मपुगणे, गन्धेभ्यश्चन्दनं पुण्यं चन्दनादगुरुवरः। कृष्णागुरुस्ततः श्रेष्ठः कुङ्कुमं तु ततो वरम् ॥ कालेयं च तुरुष्कं च रक्तचन्दनमेव च । नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तमे ॥ नारदीये, सचन्दनं सकपूरं कुङ्कमागुरुमिश्रितम् । मृगनाभिसमायुक्तं जातीफलविमिश्रितम् ॥ तुलसीचन्दनोपेतं महाविष्णोः सुखावहम् । अनुलेपनमिति शेषः । गारुडे, कस्तूरिकाया भागौ द्वौ चत्वारश्चन्दनस्य तु । कुङ्कमस्य त्रयश्चैव शशिनः स्याच्चतुःसमम् ।। कपूरं चन्दनं दः कुङ्कुमं च चतुःसमम् । सर्वगन्धमिति प्रोक्तं समस्तसुरवल्लभम् ॥ विष्णुधर्मोत्तरे, दारियं पद्मकं कुर्यादस्वास्थ्यं रक्तचन्दनम् । उशीरं विप्र विभ्रंशमन्ये कुर्युरुपद्रवम् ।। इति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107