Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 98
________________ Shri Mahavir Jain Aradhana Kendra ०४ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरामेत्रोदयस्य पूजाप्रकाशे कथं भागवतो नाम गीयते तस्य देहिनः ।। भागवत इत्यस्यानन्तरम् इति पदस्याध्याहारः । अथ स्तोत्रपाठादिमहिमा | स्कान्दे, गीतं नृत्यं च वाद्यं च तथा पुस्तकवाचनम् । पूजाकाले तु राजेन्द्र सर्वदा केशवप्रियम् ॥ गीतवाद्याद्यभावे तु विष्णोर्नामसहस्रकम् । स्तवराजं मुनिश्रेष्ठ गजेन्द्रस्य च मोक्षणम् ॥ तथा, स्तोत्राणां परमं स्तोत्रं विष्णोर्नामसहस्रकम् । हित्वा स्तोत्रसहस्राणि पठनीयं महामुने || तेनैकेन मुनिश्रेष्ठ पठितेन सदा हरिः । प्रीतिमायाति देवेशो युगकोटिशतानि च ॥ विष्णोर्नामसहस्रं च कलिकाले पठेत्तु यः । वेदानां सपुराणानां फलमाप्नोति मानवः ।। मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं हरेः । परिपूर्ण भवत्याशु सहस्त्राख्यस्य कीर्त्तनात् ॥ हलायुधः, शालग्रामशिलाग्रे तु गीताभ्यासं करोति यः । संवत्सरसहस्राणि वसते ब्रह्मणः क्षये ॥ क्षये गृहे । आब्रह्मस्तम्बपर्यन्तं जगतृप्तिं करोति सः । विश्वरूपं सदा ध्यायन् विभूतिं यः पठेद्विजः ॥ गीताध्यायं पठेद्यस्तु श्लोकार्द्ध श्लोकमेव वा । सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107