Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे प्रक्षाल्य पादौ हस्तौ च आचम्य प्रयतः शुचिः॥ पूजागृहं प्रविश्याथ मण्डलं परिलिख्य च । सौवर्णेन चतुर्दारं समाकारं सविस्तरम् ।। मण्डपं रचयित्वा तु वितानध्वजतोरणैः । अपसर्पन्तुमन्त्रेण सर्वविघ्नं निवार्य च ॥ अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नक रस्ते नश्यन्तु शिवाज्ञया । नाराचावं योनिमुद्रां चक्रमुद्रा च दर्शयेत् । मुस्थिरो भव ईशान भव मां रक्ष रक्ष च ।। दिव्यान्तरिक्षभूमिष्ठान विधानस्त्रेण वारयेत् । स्वर्णमयं चतुर्दारयुतं विमलशोभितम् ॥ नयनं मीलितं कृत्वा रचितं मण्डपं स्मरेत् । नानारवैश्च खचितं मौक्तिकैरुपशोभितम् ।। ध्यात्वा सिंहासनं मध्ये द्वारपालांच पूजयेत् । पूजयेद्गणपं भानु तिलकस्वामिनं तथा ॥ क्षेत्रपालं च धातारं विधातारमनन्तरम् । चतुराङ्किते देशे एतान् देवान् पुरो यजेत् ।। ततः पूर्वद्वारमुख्यान भद्रादीनर्चयेत् पृथक् । भद्रं सुभद्रं गङ्गां च यमुनां द्वारशाखयोः॥ चतुर्थ्यन्तं नमोऽन्तं च प्रागद्वारे संपपूजयेत् । बलमबलचिच्छक्तीर्मायाशक्तिं तथैव च ।। चतुर्थ्यन्तं नमोऽन्तं च दक्षिणे संप्रपूजयेत् । चण्डं प्रचण्डं गौरी व श्रियं पश्चिमशाखयोः ।। चतुर्थ्यन्तं नमोऽन्त च पश्चिमे संभपूजयेत् । जयं च विजयं चैव शङ्कपद्यनिधी तथा ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107