Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
॥ अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥
॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥
आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर
Websiet : www.kobatirth.org Email: Kendra@kobatirth.org
www.kobatirth.org
पुनितप्रेरणा व आशीर्वाद
राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
श्री
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक : १
महावीर
श्री महावीर जैन आराधना केन्द्र
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर
कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249
जैन
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
अमृतं
आराधना
तु
केन्द्र कोबा
विद्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
卐
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
2044
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wil gust.
7911.
THE
CHOWKHAMBA SANSKRIT SERIES;
COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS.
NO. 164
वीरमित्रोदयः।
TTTTTT: 1 महामहोपाध्यायश्रीमित्रमिश्रविरचितः । साहित्योपाध्यायविष्णुप्रसादशर्मणा संशोधितः ।
VĪRAMITRODAYA, Puja PRAKÁSA,
BY MAHÂMAHOPADHYAYA PANDITA MITRA MISRA,
EDITED BY Vishnu Prashad Saarma,
VOL. III. FASCICULUS I,
PUBLISHED AND SOLD BY THE SECRETARY,
CHOWKHAMBA SANSKRIT BOOK-DEPOT.
BENARES. AGENTS:- OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAMA MUKUNDAJI, BOMBAY: PROBSTHAN & CO., BOOKSELLERS, LONDON, Printed by Jai Krishna Dasa Gupta, AT THE MIDYA VILASA PRESS.
BENARES,
Price Rupee one.
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
*
www. kobatirth.org
11 eft: 11
-*
आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥ सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबक:- १६४
Acharya Shri Kailassagarsuri Gyanmandir
200
१ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतक सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्त्रेषु एकःस्तबको मुद्रयित्वा प्रकाश्यते। एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते ।
२ प्राचीना दुर्लभाश्चामुद्विता मीमांसावेदान्तादिदर्शनव्याकरण धर्मशास्त्रसाहित्य पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते ।
३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन् च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति ४ भारतवर्षीयैः, ब्रह्मदेशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै देयं वार्षिकमग्रिमं
मूल्यम् -मुद्राः ७ आणकाः ८
५
अन्यैर्देयं प्रतिस्तबकम्
१
६ प्रापणव्ययः पृथग् नास्ति ।
७ साम्प्रतं मुयमाणा ग्रन्थाः(१) संस्काररत्नमाला । गोपीनाथभट्टकृता (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया व्याख्यया सहितम् । सम्पूर्णम् ।
(४) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टाद्वैतदर्शनप्र
करणम् । श्रीमल्लोकाचार्य्यप्रणीतम् । श्रीनारायण (वेदान्त) २ तीर्थ विरचित भाट्टभाषा प्रकाशसहितम् । सं०
"
For Private And Personal Use Only
99
"
मुद्रिताः स्तवकः
( संस्कारः )
(व्याकरणम्) १०
(५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) (६) भाट्टचिन्तामणिः । महामहोपाध्याय- । गाभट्ट विरचितः । तर्कपादः ।
( मीमांसा)
१०
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशः ।
श्रीगणेशायनमः ॥
अथ देवतापूजा |
तत्र पूजानाम देवतोद्देशेन द्रव्यत्यागात्मकत्वाद्याग एव । तत्र यद्यपि केषांचिदावाहनादीनामवागात्मकत्वात् पूजात्वं न स्यात् । नच तेषां पूजात्वं नास्त्येवेति वाच्यम् । षोडशस्वप्युपचारेषु शास्त्रकाराणां पूजाशब्दप्रयोगात् । तथापि यागायागसमुदाये पूजाशब्दा गौरवितप्रीतिहेतुक्रियात्वेनोपाधिना रूढ एव । यथा इष्टिपशुसोमसमुदाये राजसूयशब्दः । यद्यपि ईश्वरे यागायागसमुदायक्रियया जीववदन्तःकरणवृत्तिरूपा प्रीतिर्नोत्पद्यते, अन्तः करणाभावात् । तथापि मायावृत्तिविशेष एव प्रीतिः शिक्षादिवत् । सा च यद्यपि उत्पन्नत्वान्नश्यति तथापि फलं यावत् तिष्ठति । अन्येषां मते अपूर्ववत् ।
अथ देवपूजनाधिकारिणः ।
तत्र
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ॥ मुच्यन्ते चाशुभैर्दुखैर्जन्मकोटिसमुद्भवैः । इतिनारसिंहीयात्, पूजनस्य
विष्णुप्रा ........देवब्राह्मणपूजनम् ।
इति साधारणधर्ममध्ये पाठाच्च असङ्कोचेन सर्वेऽधिकारिणः । यत्तु नरसिंहपुराणे,
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे अनामित्वं गृहभङ्गकारणमतो गृहाणाश्रममुत्तमं मुने । अनाश्रमस्थैर्द्विज वेदपारगैरपि त्वहं नानुगृहामि चार्चनम् ॥
इति भगवद्वाक्यम् । तस्यायमर्थः । आश्रमिकृतमर्चनं यथा ऽनुगृह्णामि न तथाऽनाश्रमिकृतमिति । साधारणधर्मबोधकवचनस्वरसादाचाराच्च ।
देवीपुराणे देवीमूर्तीरभिधाय ब्रह्मवाक्यम्, एतासां शास्त्रवेत्ता यो देवपूजाविधौ शुभः । मातृमण्डलवेत्ता च ब्राह्मणः क्षत्रियोऽपि वा ॥ प्रतिचारोऽथ वैश्यो वाऽप्यन्यो वा तन्त्रविद्यदि । पूजाविधौ भवेत् श्रेष्ठो नापटुर्न कुशीलवः ॥ नानैष्ठिको दाम्भिको वा पूजकः प्राप्यते शुभः ॥
प्रतिचारः शूद्रः । अपटुः असमर्थः । पूजारनाकरे तु पण्ड इति पठित्वा रुद्रपूजायामकुशल इतिव्याख्यातम् । कुशीलवो नटादिः। अत्रैकपाके वसतां पुत्रभ्रातृणामपि देवपूजाधिकारमाह
आश्वलायनाचार्यः, पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजातिनाम् । अग्निहोत्रं सुरार्चा च सन्ध्या नित्यं भवेत्ततः ॥ इति । देवपूजायां सर्ववर्णाधिकारे-- विष्णुः, आगमोक्तेन मार्गेण स्त्रीशूरैरपि पूजनम् । कर्त्तव्यं श्रद्धया विष्णोः सर्वैश्वयंप्रदायकम् । स्मृत्यर्थसारे-- बौधायनः, शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वे चागममार्गेण कुर्युर्वेदानुसारिणा ॥
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पूजाकालनिरूपणम् ।
चतुर्थी मोन्तेन देवतानाम्नेत्यर्थः ।
तथा,
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु । दीक्षामन्त्रविनोऽपि कुर्याद्देवार्चनं बुधः ॥ इति । प्रतिनिधित्वेन अधिकारिण उक्ताः
मन्त्रराजानुष्टुब्विधाने,
गुरवः पूजकाचैव विद्वांसो येऽग्निहोत्रणः । अधिकारित्वमर्हन्ति यद्वा याज्ञिकदीक्षिताः ॥ वेदवेदार्थवेत्ता च स्मार्त्तकर्मज्ञ एव वा ॥ इति । इत्यधिकारिणः ।
अथ पूजाकालः ।
तत्र माध्याह्निकतर्पणानन्तरं वैश्वदेवात्पूर्व विष्णुपुराण इदेवपूजा, पाद्मनारसिंहयोर्विष्णुपूजोक्ता अतः स एव कालः । व्यासेन वैश्वदेवानन्तरं देवपूजाविधानात् सोऽप्यपरः कालः । इष्टदेव विष्णुपूजाऽन्यदेव पूजानां तु
देवकार्यस्य सर्वस्य पूर्वाह्नस्तु विधीयते । इति नरसिंहपुराणीयवाक्यात् पूर्वाह्नः कालः । नारदीये,
प्रातर्मध्यन्दिने सायं विष्णुपूर्जा समाचरेत् । यथा सन्ध्या स्मृता नित्या विष्णुपूजा तथा बुधैः ॥ अशक्तौ विस्तरेणैव प्रातः सम्पूजयेद्धरिम् । मध्याह्ने चैव सायं च पुष्पाञ्जलिमपि क्षिपेत् || मध्याह्ने विस्तरेणैव संक्षेपेणाथवा हरिम् । राज्य भोजनं कुर्यादन्यथा नरकं व्रजेत् ॥ नैमित्तिकेषु सर्वेषु तत्तत्कालाविशेषतः ।
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश
पूजयेदेवदेवेशं द्रव्यं सम्पाद्य यत्नतः ॥ अन्ये देवतापूजाकालास्तत्तत्पूजाप्रकरणे द्रष्टव्या इति ।
अथ ततद्देवताराधने फलानि ।
मात्स्ये,
आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् । ज्ञानं च शङ्करादिच्छेन्पोक्षमिच्छेज्जनार्द्दनात् ॥
याज्ञवल्क्यः,
आदित्यस्य सदा पूजां तिलकस्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥ तिलकप्रियस्य स्वामिनः स्कन्दस्य । मार्तण्डतिलकस्वामिमहागणपतीन् वयम् । विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः ||
इति वाचस्पत्यश्लोके कल्पतरुणा तथा व्याख्यातम् । विज्ञानेश्वरस्तु तिलकं स्वामिन इति पठित्वा तिलकं सुवर्णादिनितिमिति व्याचख्यौ । पूजामित्यादि त्रिषु सम्बध्यते । सदाश्रवणान्नित्येति केचित् । वस्तुतः फलसम्बन्धश्रवणात्काम्यापि ।
याज्ञवल्क्यः,
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् । विप्रपादोदकोच्छिष्टमार्जनं गोप्रदानवत् ॥ गवाह्निकं देवपूजा वेदाभ्यासः सरित्प्लवः । नाशयन्त्याशुपापानि महापातकजान्यपि ॥ सरित्प्लवो नदीस्नानम् । सरिदत्र पुण्या नदी । देवीपुराणे,
मन्त्रादिसाधनं द्रव्यं रुद्रयागादवाप्यते । धीमेधाज्ञानवात्सल्यमुमायागादवाप्यते ॥
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्तदेवताराधने फलानि ।
रुद्रयागात् रुद्रपूजातः । धारणावती बुद्धिर्मेधा ।
तथा,
यः प्रदद्याद्भवां लक्षं दोग्ध्रीणां वेदपारगे । एकाहमर्चयेद्भानुं तस्य पुण्यं ततोऽधिकम् ॥ यं च काममभिध्यायन् भास्करान्वितमानसः । उपोष्य तमवाप्नोति प्रसन्ने कमलध्वजे || कमलध्वजे रवौ ।
तथा,
यजेदेकं सहस्रांशुं मोक्षकामो न संशयः । तथा, योगो ज्ञानं यशः सिद्धिर्महादेवादवाप्यते । आरोग्यं साम्प्रतं पुत्रं भास्करात्माप्नुयात् ध्रुवम् ॥ साम्प्रतं कुशलम् ।
गतिमिष्टां तथा कामं प्रददाति त्रिविक्रमः । धर्मार्थकाममोक्षणां भाजनं विष्णुपूजकः ॥ सर्वान् कामानवाप्नोति सम्पूज्य विष्णुवल्लभाम् । विघ्नो न जायते तस्य यजेद्यस्तु विनायकम् ॥ मातृगणान्महासिद्धिः सर्वेषामेव जायते । लभते धनधान्यानि मर्त्यः पूज्य हुताशनम् ॥ महागणपतेः कर्मसिद्धिं प्राप्नोति मानवः । महागणपतेरिति पञ्चमी । सर्व जगद्वशीकुर्यान्महागणपतिः सदा । स्वर्गापवर्गसंसिद्धिर्दुर्गा यागात्प्रजायते ॥ भविष्ये,
यः सदा पूजयेदुर्गा प्रणमेद्वापि भक्तितः ।
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
स स्वर्गराज्यमोक्षाणां क्षिप्रं भवति भाजनम् ॥ मार्कण्डेये, स्तुता सम्पूजिता पुष्पैर्गन्धधुपादिभिस्तथा । ददाति वित्तं पुत्रांश्च मतिं धर्मे तथा शुभाम् ॥ इति । ब्रह्मविष्णुमहेशानां यावज्जीवं प्रतिज्ञया पूजा विहिता कूर्मपुराणे, तस्माद्ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः । एकस्यैव स्मृतास्तिस्रस्तन्वः कार्यवशात् प्रभोः ॥ तस्मात्सर्वप्रयत्नेन त्रयः पूज्याः प्रयत्नतः । यदीच्छेदचलं स्थानं यत्तन्मोक्षाख्यमुत्तमम् ॥ वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः । पूजयेद्भावयुक्तेन यावज्जीवं प्रतिज्ञया । इति ।
असाधारण्येनैतानि फलानि न तु फलान्तरदातृत्वव्यावृत्तिः । वाक्यान्तरेषु तेषां फलान्तरदातृत्वश्रुतेः । तत्र विष्णुपूजोत्कृष्टत्युक्तम्----
कूर्मपुराणे, न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेदरिम् ॥ इति । गरुडपुराणे, विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकरः। तस्मात्पूज्यतमं नान्यमहं मन्ये जनार्दनात् ॥ भागवते, यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच यथेन्द्रियाणां तथैव सर्वाहणमच्युतेज्या । प्राणोपहारो भोजनादिः । तत्र विष्णुपूजा नित्या काम्या
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णुपूजाया उत्कर्षः ।
च । तत्र नित्यत्वबोधकवचनानि यथा, एकाहमपि न स्थेयं विना केशवपूजनात् । एकाहवर्जनाद्राजन् पुण्यं याति पुरा कृतम् ॥ तथा कूर्मपुराणे, यो मोहादथवाऽऽलस्यादकृत्वा माधवार्चनम् । भुङ्क्ते स याति नरकं शूकरेष्विह जायते ॥ अनर्चयित्वा गोविन्दं यैर्भुक्तं धर्मवर्जितैः । शुनो विष्ठासमं चानं नीरं च सुरया समम् ॥ स्कान्दे,
केशवार्चा गृहे यस्य न तिष्ठति महीपते । तस्यानं नैव भोक्तव्यमभक्षणसमं स्मृतम् ।। इति । अत्र कर्मणि ल्युट् । अभक्ष्यसममित्यर्थः । काम्यत्ववोधकानि यथा, भौमान्मनोरथान् स्वर्ग स्वर्गिवन्धं तथा पदम् । प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥
स्वर्गिपदमिन्द्रादिपदम् । नारसिंहे,
यस्तु पूजयते नित्यं नरसिंहं नरेश्वर । स स्वर्गमोक्षभागी स्यानात्र कार्या विचारणा || तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया । पूजनान्नरसिंहस्य समानोत्यभिवांछितम् ॥ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । सम्पूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ॥ मुच्यन्ते चाशुभदुःखैर्जन्मकोटिशतोद्भवैः । तेपि भूयोऽभिजायन्ते श्वेतद्वीपनिवासिनः ॥ इति ।
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश न त्वसम्पूज्य भुञ्जीत केशवं कौशिकी शिवम् ।
इति वाचस्पतिमिश्रधृतकालिकापुराणवचनाच्छिवादिपूजाऽपि नित्या । एतेन शिवादिपूजनं काम्यमेवेति मतमपास्तम् ।
शिवं भास्करमग्निं च केशवं कौशिकीमपि । मनसाऽनर्चयन् याति देवलोकादधोगतिम् ।। इतिवचनाच्च ।
अथ देवपूजायाः स्थानविशेषाः । गृह्यपरिशिष्टे, तानप्सु वाऽग्नौ वा सूर्ये वा स्थण्डिले प्रतिमासु नावाहनविसर्जने भवतः । स्वाकृतिषु शस्तामु देवता सन्निहितेति ।
शातातपोपि, भूमावग्नौ तथा चाप्सु दिवि सूर्ये च देवताः। नित्यमन्ने हिरण्ये च ब्राह्मणेषु च गोषु च ॥ इति ।
एतेषु स्थानेषु सन्निहिता इतिशेषः । भूमौ जले आकाशे भावनया देवतात्वम् । अन्नादीनां तु देवतार्चनायो नाधिकरणत्वं शिष्टाचारविरोधात् । किन्तु पूजार्थत्वमेव देवताधारत्वकीर्तनम् ॥
मनुः, अप्स्वग्नौ चैव हृदये स्थण्डिले प्रतिमामु च । विप्रेषु च हरेः सम्यगर्चनं मनुना स्मृतम् । अग्नौ क्रियावां देवो दिवि देवो मनीषिणाम् ॥ प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः। तस्य सर्वगतस्यार्चा स्थण्डिले भावितात्मनाम् ॥ विप्राणां वपुराश्रित्य सर्वास्तिष्ठन्ति देवताः। अतस्तत्रैव ताः पूज्या अलाभे प्रतिमादिषु ।।
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवपूजायाः स्थानविशेषाः ।
तथा, विप्राणां रूपमास्थाय प्रचरन्तीह देवताः। पूज्यन्ते ब्राह्मणालाभे प्रतिमादिषु कुत्र चित् ।। 'ब्राह्मणो वै सर्वा देवता' इतिश्रुतेाह्मणे पूजा अतिप्रशस्ता । भारते सर्वदेवताधारत्वकथनाच्च । अत एव श्रावणद्वादशीव्रतविशेषे ब्राह्मणादेः पूजाधारता श्रूयते
यथा कल्पतरौ ब्रह्मपुराणे, प्रयागादिषु तीर्थेषु नदीनां सङ्गमेषु च । कृत्वा स्नानं तु विधिना हृषीकेशं प्रपूजयेत् ।। जले स्थलेऽम्बरे मूर्ती कुम्भे वा कमलोपरि । वह्नौ विप्रे गुरौ वापि पितर्यथ च मातरि ॥ आहृया ऽऽसनपुण्याहस्वागतैरथ विस्तरैः । पाद्यार्घपुष्पधूपैश्च दीपालङ्कारचामरैः ॥
इत्यादि । कुम्भे दुर्गादिपूजा पुराणोक्ता । उत्सवादिषु कुम्भे सर्वदेवान् पूजयन्ति । कमलापरि रेखादिना कमलाकारवति पात्रे सर्वदेवपूजा आगमादिप्रतिद्धा । भूमिजलाकाशपतिमाः सर्वदेवानाम् । विष्णोरकाशिलाशालग्रामशिले । शिवस्य लिङ्गम् । दुर्गायाः पुस्तकशूलखड्गाः । विष्णुपूजा शालग्रामे महाफला । शिवपूजा लिङ्गे महाफला । शालग्रामे सर्वेपि देवाः पूज्या इति शिष्टाः । 'न तु केवलभूतले' इतिवचनात् पूजा केवलभूमौ सति सम्भवे न कार्या । गृहस्थेन तु शिवपूजा जले न कार्येत्यागमिकाः।
श्रीभागवते भगवद्वाक्यम् , सूर्योऽग्निाह्मणा गावो वैष्णवः खं मरुज्जलम् । भूरात्मा सर्वभूतानि तत्र पूजापदानि ये ॥
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे मूर्ये तु विद्यया त्रय्या हविषानौ यजेत माम् । आतिथ्येन तु विप्राग्ये गोष्वङ्ग यवसादिना ।। वैष्णवे बन्धुत्कृत्या खे हृदि ध्याननिष्ठया । वायौ मुख्याधिया तोये द्रव्यस्तोयपुरस्कृतैः ॥ स्थण्डिले मन्त्रहदयैर्भोगेरात्मानमात्मनि । क्षेत्रनं सर्वभूतेषु समत्वेन यजेत माम् ॥ मुख्यधिया प्राणबुद्ध्या । भोगैरिति स्रक्चन्दनादिना । आत्माऽभिन्नः परमेश्वरः प्रीयतामिति बुध्या भोगाचरणमपि पूजेत्यर्थः।
तदुक्तं लिङ्गपुराणे, गन्धपुष्पादिकं सर्व शिरसा यो विधारयेत् । विष्णवे सर्वमित्येवं मत्वासौ वैष्णवः स्मृतः ॥ इति ।
आतिथ्यादिविशेषविधावपि गन्धाधुपचारपूजा न विरुद्धा। अत एव सूर्यादौ द्रव्यैरपि पूजां वक्ष्यति
अर्चायां स्थण्डिले वह्नौ सूर्ये खे यदि वा द्विजे । द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ इति । आगमिकास्तु यन्त्रे पूजामिच्छन्ति यन्त्र मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतेति च । यन्त्रं विना कृता पूजा देवता न प्रसीदति ।। इतिवाक्यात् । तयेति शेषः। नारदोऽपि, अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्रस्थानेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् ॥ इति । विष्णुधर्मोत्तरे, आपो ह्यायतनं तस्य तस्मात्तासु सदा हरिः ।
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सरोवरः॥
.
देवपूजायाः स्थानविशेषाः । अर्चाभावे तथा वेद्यां स्थले पर्णपुटेऽपि वा। नदीतीरेऽथ कमले केशवं पूजयेन्नरः॥ मन्त्रराजानुष्टुविधाने, अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्स्वेतेषु हरिं सम्यगर्चयेत्........ ॥ तथा. कर्मणाग्नौ जले पुष्पर्ध्यानेन हृदयेऽर्चयेत् । जपेन सूर्यविम्बे स्यात् स्थण्डिले भावितात्माभिः ।। बार्द्रिव्यगुणैरेव प्रतिमा पूजयेत्सदा । अत्र षड्ग्रहणं नाधिष्ठानान्तरपरिसंख्यार्थम् । तथा, पूजार्थमुत्तमं स्थानं शालग्रामं तदुच्यते । प्रतिमादौ पडावृत्त्या पूजिते यत्फलं लभेत् । शालग्रामेऽर्चिते देवेप्येकावृत्त्यापि तल्लभेत् ॥ स्कान्दे, नृसिंहपूजने श्रेष्ठा शालग्रामोद्भवा शिला । द्वारकाजातचक्राङ्का शिला श्रेष्ठा तथैवच ॥ तयोश्च सङ्गमं कृत्वा पूजयन् मुक्तिभाक् भवेत् । तयोरसम्भवे चार्चा सदैव नवधा स्मृता ॥ अर्चा प्रतिमा। रत्नजा हेमजा चैव राजती ताम्रजा तथा । रैतिकी वा तथा लौही शैलजा द्रुमजा तथा ॥ . रौतिकी पित्तलजा। अधमाधमा विज्ञेया मृन्मयी प्रतिमा च या। सर्वकामप्रदा चैव रत्नजा चोत्तमोत्तमा ॥ रत्नजा लक्ष्मिदाऽऽयुर्दा पुष्टिश्रीदा च हेमजा ! .
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोपयस्य पूजाप्रकाशे
राजती पुत्रदा चैव तथा प्रज्ञाकरी मता ॥ ब्रह्मवर्चस्करी ताम्री तथाऽऽरोग्यप्रदायिनी । रैतिकी कीर्तिदा चैव तथा कान्तिप्रदायिनी ॥ लोही च जयदा ज्ञेया शैलजा भूमिदायिनी । द्रुमजा धान्यदा ज्ञेया मृन्मयी भोगदायिनी ॥ तत्रादौ पूजनाथाय मुख्यं स्थानं मयोच्यते । शालग्रामोद्भवा शस्ता जाता या चक्रतीर्थके ॥
ब्रह्मोवाच । भगवन् देवदेवेश शङ्खचक्रदाधर । संशयं मे समुत्पन्नं छेत्तुमर्हस्यशेषतः ॥ शालग्रामं तु यत्पुण्यं क्षेत्रं त्रैलोक्यविश्रुतम् । तत्र तिष्ठति विश्वात्मा सर्वदेवनमस्कृतः ॥ क्षेत्रोत्पन्नाः स्वयम्बिम्बाः सूक्ष्माः सूक्ष्मतरास्तथा । प्रादुर्भावैश्च विविधैलांछनैश्च समान्विताः ॥ अर्थदाः कामदाश्चैव धर्ममोक्षपदायकाः । शस्ता अशस्ताः किम्भूता एतदाख्यातुमर्हसि ॥
श्रीभगवानुवाच। शृणु ब्रह्मन् प्रवक्ष्यामि शालग्रामे स्थितं हरिम् । हरिस्तत्र स्थितो नित्यं प्रादुर्भावैरनेकधा ॥ लाञ्छनैर्विविधाकारैलाञ्छनं यत्र दृश्यते । चक्राङ्कितं हरेश्चापि शालग्रामस्य लक्षणम् ।। यथायोग्यं विचार्यैव ग्रहीतव्यं प्रयत्नतः । आदौ शिलां परीक्षेत ग्राखाग्राह्यविभागतः ।। स्थिरासना सुवृत्ता च फलाकारा यवानना । कृष्णा च पाण्डुरा पीता नीला श्यामाथ शुक्लका ॥
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः। १३
कपिलामा च काचाभा दूर्वाभा रक्तपिङ्गला । एताः शुभाः शिला ग्राह्या मिश्राश्चैव विशेषतः॥ स्थिरासना परिज्ञेया स्वकस्थानसुखप्रदा । वृत्ता सुत्तदा प्रोक्ता फलाकारा फलप्रदा । यवानना च विज्ञेया वाक्सौन्दर्य्यप्रदायिका । (मन्त्रसिद्धिकरी स्निग्धा नित्यश्रीकान्तिदायिका)॥ कीर्तिभोगप्रदा कृष्णा पाण्डुरा पापहारिणी । पीता पुत्रपदा नित्यं लक्ष्मीशान्तिप्रदा तथा । नीला बहनदा ज्ञेया तथा वै कान्तिदायिनी । पुष्टिटद्धिप्रदा श्यामा श्वेता सत्वप्रदायिनी ॥ कपिळाख्या भवेन्मुद्रा ज्ञानेश्वर्यप्रदायिका । कामप्रदा च काचाभा दूर्वाभा पशुदायिनी । रक्ताऽऽरोग्यपदा नित्यं मिश्रा मिश्रफलप्रदा ।। धात्रीफलप्रमाणा या करसम्पिहिताङ्गका । पूजनीया शिलाभावे तत्र जाते द्रुमेऽपि वा ॥ तत्र शालग्रामे । तत्राप्यामलकीतुल्या पूज्या सातीव या भवेत् ।। तस्यामेव सदा ब्रह्मन् श्रिया सह वसाम्यहम् । यथायथा शिला सूक्ष्मा तथा चैव वसाम्यहम् ॥ तस्यां मां पूजयेन्नित्यं धर्मकामार्थसिद्धये । एवं ब्रह्माणमुक्त्वा धरणी प्रत्याह । तत्राश्चर्य प्रवक्ष्यामि विशेषं तव सुन्दरि । शैलं लिङ्गाङ्कितं तत्र दृश्यते यत्र कुत्रचित् ॥ पूजयेत्तद्विशेषेण तत्र सन्निहितः शिवः । शिवनाभिरिति ख्यातं शालग्रामोद्भवं तु यत ।
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे दृष्ट्वा स्पृष्ट्वा नरो देवि सर्वपापैः प्रमुच्यते । शैवं नारायणं शैलं यत्र देशे व्यवस्थितम् ॥ तच्छैवं विष्णुमत्तीर्थ शालग्रामसमुद्भवम् । पूजनीयं प्रयत्नेन तत्र सनिहितावुभौ ॥ येऽर्चयन्ति महाभत्त्या शिवनाभिं नरोत्तमाः। ते यान्ति मन्दिरं शम्भोः सिद्धचारणसेवितम् ।। शिवनाभिं च ये भक्त्या विधिवत्पूजयन्ति वै । गन्धपुष्पोपहारैश्च ते यान्ति शिवसनिधिम् ॥ द्विनाभिः पद्मरूपा चेत् भवेद्धरिहरात्मिका । नाभौ लिङ्गेन युक्ता वा श्वेतामा वै खुरान्विता ॥ शिवनाभीति विख्याता भुक्तिमुक्तिप्रदायिका । यवमात्रं तु गर्च स्यायवार्धं लिङ्गमुच्यते ॥ शिवनाभिरिति ख्यातः त्रिषु लोकेषु दुर्लभः । वासुदेवमयं क्षेत्रं लिङ्गं शिवमयं स्मृतम् ।। तस्माद्धरिहरक्षेत्रे पूजयेच्छङ्कराच्युतौ । सा चेच्छिलाशतैः शस्ता चतुर्वर्गफलप्रदा ॥ साक्षान्महेश्वरेणात्र संयुक्तं पूजयेद्धरिम् । पाञ्चजन्याङ्किता या तु पझेन गदया युता ॥ तत्र श्रीः प्रत्यहं तिष्ठेत् सदा सम्पदमादिशेत् । जया च परमा मुद्रा चतुर्वर्गफलप्रदा ॥ एषा चैकेन चिह्नन लाञ्छिता वै प्रशस्यते । सकृदभ्यर्चितो येन देवो योगेश्वरो हरिः॥ दर्शनात्स्पर्शनाच्चैव शालग्रामस्य नित्यशः । निर्दहिष्यति तत्सर्व ज्वालयाग्निरिवेन्धनम् ॥ (?) न तेषामपराधोऽस्ति शालग्रामशिलार्चने ।
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः। १५ तैश्चाहं पूजितो यस्मानान्यथैव वसुन्धरे ॥ कुरुक्षेत्रसमो देशः समन्तात् क्रोशपञ्चकम् । तन्मध्ये म्रियते यस्तु साधकः सुसमाहितः॥ दशधन्वन्तरस्थस्तु जायते न पुनर्भवे । दशधन्वन्तरं चत्वारिंशद्धस्तमध्ये । शालग्रामशिला यत्र तिष्ठेत्तु हरिचिह्निता । हरिचिद्रं चक्रं तद्वती। तत्रैवच कुरुक्षेत्रं नैमिषं पुष्करं तथा । सा श्रेष्ठा सर्वदा पूज्या मुच्यते पूजको भवात् ॥ शालग्राममयी मुद्रा संस्थिता यत्र कुत्रचित् । वाराणस्यां यवाधिक्यं समन्तायोजनत्रयम् ॥ शालग्रामसमीपे तु क्रोशमात्रं समन्ततः । कीकटेऽपि नरो याति वैष्णवं भवनं मृतः ॥ कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः । शालग्रामशिलां पुत्र पूजयेत्सोऽच्युतो भवेत् ॥ कामासक्तोऽपि क्रुद्धोऽपि शालग्रामशिलार्चनम् । भक्त्या वा यदिवाऽभत्या कृत्वा मुक्तिमवाप्नुयात् ॥ यत्किञ्चित्पैतृकं कुर्यात् सपिण्डं वा तदन्तिके । विष्णुलोकं स गछेत्तु लभते शाश्वतं पदम् ॥ जन्मप्रभृति यत्पापं दुःखभूतं महत्कृतम् । इयं मुद्राऽर्पिता येन नाशयेत्तस्य तत्क्षणात् ।। मुद्रा शिला । अर्पिता दत्ता। हरिस्तत्र सदा विष्णुमन्त्रात्मा विश्वरूपधृक् ।। लक्ष्मीः कीर्तिस्तथा कान्तिः पुष्टिः श्रीश्च सरस्वती । हीः शान्तिश्च सदा सर्वमुद्रायां पुत्र संस्थिताः ॥
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
वीरमित्रोदयस्य पूजाप्रकाशे
सततं चार्चयनित्यं हरिदेहसमन्विताम् । ध्यानं पूजां तथा दानमग्निकार्य जपादिकम् ॥ तदने पञ्चकं कुर्यात्तत्सर्व चाक्षयं भवेत् । शालग्रामोद्भवं देवं भावयेदपि यो नरः ॥ सोऽपि याति परं ब्रह्म किंपुनर्यः सदार्चयेत् । कृत्वा पापसहस्राणि शालग्रामं प्रपश्यति ॥ पापपाशाद्विनिर्मुक्तो विष्णुलोकं स गच्छति । तत्रैव, एवं लक्षणसम्पन्ना पारम्पर्यक्रमागता । उत्तमा सा तु विज्ञेया गुरुदत्तापि तत्समा ॥ फलपुष्पैश्च तत्स्थानं गत्वा तत्र समर्चयेत् । गुरुभिः पूजयित्वाथ कलान्यासाच्च मन्त्रतः॥ गुरुभिः कारयित्वैवं शुभे लग्नेऽनुकूलके । ततो गुरुं समभ्यर्च्य शक्त्या भक्त्या प्रणम्य तम् ॥ पूजयिष्याम्यहं भक्त्या शालग्रामोद्भवं हरिम् । गुरुः शिष्याञ्जलौ दद्याच्छान्तिः शिवमिति ब्रुवन् । गृहीत्वा शिरसा धृत्वा ततः सम्पूजयेत्सदा । शालग्रामे स्वयं गत्वा व्रतैः सह विशेषतः॥ पूर्वाद्रः पूर्वदृष्टां तु दत्वाऽऽराध्य सदक्षिणाम् । द्वितीया तु स्वयं पूज्या सा शिला चोत्तमोत्तमा ॥ क्रयक्रीता परिज्ञेया मध्यमा याचिताऽधमा ।
व्रती सन् । पूर्वाद्रेः पूर्व प्रथमतो दृष्टां शिलामाराध्य पूजयित्वा सदक्षिणां ब्राह्मणाय दत्वा द्वितीया मूर्तिः स्वयं पूज्या सा सर्वोत्तमेत्यर्थः।
अथ त्याज्याः शिला उक्तास्तत्रैव,
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः। १७
त्याज्यां शिलामतो वच्मि शृणु ब्रह्मन् समासतः । तिर्यक्चक्रा परित्याज्या बद्धचक्रा तथैवच ॥ क्रूरापिच परित्याज्या स्फोटा रूक्षा तथैवच । कुरूपा निष्ठुराऽनास्या कराला विकरालिका ॥ कपिला विषमावर्ता व्यावास्या कोटरा तथा। आसने चलना भमा महास्थूला विगर्हिता ॥ विगर्हितेति मूर्तिनाम । आसने सुषिरं यस्याश्चक्रेणैकेन संयुता। दर्दुरा बहुचक्रा च लग्नचक्राप्यधोमुखी ॥ ददेरा अश्लक्ष्णा। छिद्रा दग्धा सुरक्ता च बृहच्चका विभीषणा। चक्रेणातचक्रा च बृहञ्चका प्रकीर्तिता । बहुरेखासमायुक्ता भग्नचक्रा तथैवच । दीर्घचक्रा परित्याज्या पलिचक्रा विशेषतः॥ मस्तकास्या ह्यचिह्ना च वा ह्येताः सदा बुधैः। क्रूरा दंष्ट्रासमायुक्ता स्फोटा बुबुदसंयुता ॥ अचिरात् शुष्कतां याति यस्यां लिप्तं तु चन्दनम् । कुरूपा कुत्सिताकारा निष्ठुरा निवा स्मृता ॥ स्ववेष्टनतुरीयांशमास्यं यस्याः शुभा हि सा । तस्मादधिकवत्रा च करालेति प्रकीर्तिता ।। तुरीयांशश्चतुर्थाशः। तृतीयांशास्यसंयुक्ता दंष्ट्रया विकरालिका ॥ संवृतास्या परिज्ञेया वेष्टनबष्टभागतः । बष्टभागः षोडशांशः। व्यात्तास्या चाधिका ज्ञेया वृत्ताधिक्ये तु कोटरा ।
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे स्थूला त्वष्टाङ्गुलायामा पूजकस्याङ्गुलेन तु । अधिके तु महास्थूला तां गृही न तु पूजयेत् । अधोमुखी त्वधरास्या ऊर्खास्यापिच निन्दिता ॥ तिर्यक्चक्रान्विता दद्याद्धमणं क्लेशसंयुतम् । क्रूरा रोगप्रदा नित्यं स्फोटा चायुविनाशिनी ।। रूक्षा चोद्वेगदा नित्यं दुःखदारिद्यदायिका । कुरूपा दैन्यदा चैव निष्ठुरा पुण्यनाशिनी ॥ अनास्या मौयंदा चैव कराला भयदायिका । ऐहिकामुष्मिकं हन्ति विकराला स्वभावतः ॥ कपिला पनीहा नित्यं व्यात्तास्या जयनाशिनी । कोटरा पूजकं हन्ति तथा बन्धुविनाशिनी ॥ आसने चलना नित्यं प्रवासस्य प्रदायिनी । भग्ना धनहरा नित्यं महास्थूला व्ययप्रदा ॥ गर्हिताऽपायदा प्रोक्ता कीर्तिदा मुषिरासना । एकचक्रा कुलनी स्यान्मस्तकास्या च पुत्रहा ॥ दर्दुरा कुष्ठदा ज्ञेया बहुचक्रा भयपदा । बहुचिन्ताप्रदा छिद्रा लग्ना चाध्यप्रदा हि सा ॥ अधोगतिपदा ज्ञेया तथैवाधोमुखी तु सा । बहुचक्रान्वयं हन्ति यशोघ्नी बहुरेखिका ॥ पतिचक्रा पति हन्ति बृहच्चका गृहक्षया । अचिह्ना निष्फला ज्ञेया निराशत्वप्रदायिनी ॥ एतत् बहुशालग्रामसद्भावे द्रष्टव्यम् । अलामे तु तत्रैवोक्तम् क्षेत्रे तु वासुदेवोऽस्ति स्थितश्चोपलकुक्षिषु । शालग्रामे विशेषेण हरिस्तत्रैव संस्थितः ॥
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः । १९
खण्डितां स्फुटितां मां पार्श्वभिन्नां विभेदिताम् ॥ शालग्रामसमुद्भूतां शिलां तु पूजयेत्सदा । न तत्र दोषो मन्तव्यो विद्युत्पाताग्निसम्भवः ॥ इति । वाराहे,
ये केचिचैव पापाणा विष्णुचक्रेण चिह्निताः । तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्विषैः ॥ पाद्मेपि,
खण्डितं त्रुटितं भयं पार्श्वभिन्नं सुभेदितम् । शालग्रामसमुद्भूतं शैलं दोषावहं नहि ।। इति ।
तथा, शिला द्वादश भो वैश्य शालग्रामसमुद्भवाः । विधिवत्पूजिता येन तस्य पुण्यं वदाम्यहम् ॥ कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः । यत्स्यात् द्वादशकल्पेषु दिनेनैकेन तद्भवेत् ।। तथा,
यः पुमान् पूजयेद्भक्त्या शालग्रामशिलाशतम् । उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते ॥ अन्यदपि,
शालग्रामशिलायां हि यः श्राद्धं कुरुते नरः । पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥ तथा, शालग्रामशिलायां यो मूल्यमुत्पादयेन्नरः । विक्रेता चानुमन्ता च यः परीक्ष्यानुमोदकः ॥ सर्वे ते नरकं यान्ति यावदाभूतसंम् ॥ इति । कोटिलिङ्गसहस्रैस्तु पूजितैर्जाह्नवीतटे ।
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२०
वीरमित्रोदयस्य पूजाप्रकाशे
कशीवासयुगान्यष्टौ दिनेनैकेन तद्भवेत् ॥ गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास्तु याः । निवसन्ति सतीर्थास्ताः शालग्रामशिलाजले || स्मृत्यन्तरे,
शालग्रामाः समाः पूज्या विषमा न कदाचन । समेषु न द्वयं पूज्यं विषमेष्वेक एवहि || तथा,
विषमेष्वेक एवेज्यः समे द्वेषद् विवर्जयेत् । अत्रापवादो हेमाद्री,
चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः । वैश्यैaiवेव सम्पूज्यौ तथैकः शूद्रजातिभिः || ब्राह्मणैर्वासुदेवस्तु नृपैः सङ्कर्षणस्तथा । प्रद्युम्नः पूज्यते वैश्यैरनिरुद्धस्तु शूद्रकैः ॥ शालग्रामपूजाधिकारिणः उक्ताः स्कन्दपुराणे,
ब्राह्मणक्षत्रियविशां स्त्रीशूद्राणामथापि वा । शालग्रामेऽधिकारोऽस्ति नान्येषां तु कदाचन ॥ अन्येषां वर्णसङ्कराणाम् । स्त्रीशूद्राधिकारोऽत्र पूजायाम् । यः शूद्रेणार्चितं लिङ्गं विष्णुं वा प्रणमेन्नरः । तस्येह निष्कृतिर्नास्ति प्रायश्चित्तशतैरपि ॥ योषिद्भिः पूजितं लिङ्गं विष्णुं वा प्रणमेन्नरः । स कोटिकुलसंयुक्त आकल्पं रौरवं व्रजेत् ॥ बृहन्नारदीयज्ञापकात् 'अनिरुद्धस्तु शूद्रकै' रित्युदाहृतवचनाच्च । न तु स्पर्शे । तदुक्तं स्कान्दे,
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शालग्रामपूजाधिकारिनिरूपणम् ।
स्त्रीशूद्राभ्यां करस्पों वज्रादपि सुदुस्सहः । बृहन्नारदीयेपि लिङ्गपरम् । यथोक्तं तत्रैव यदा प्रतिष्ठितं लिङ्ग मन्त्रविद्भिर्यथाविधि । तदाप्रभृति शूद्रश्च योषिद्वापि न संस्पृशेत् ।। इति । विष्णुरपि, स्त्रीणामनुपनीतानां शूद्राणां च जनेश्वर । स्पर्शने नाधिकारोऽस्ति विष्णोर्वा शङ्करस्य च ॥ शूद्रो पाऽनुपनीतो वा स्त्रियो वा पतितोऽपि वा । केशवं च शिवं वापि स्पृष्ट्वा नरकमाप्नुयुः ॥
अतश्च स्त्रीशूद्रैरस्पर्शवती पूजा कार्या । तत्पूजामात्रनिषेधे स्कन्दवचनविरोधापत्तेः।
सांप्रदायिकास्तु स्त्रीशूद्रपदमदीक्षितमद्यपस्त्रीशूद्रपरं मन्यमानाः संप्रदायविधिना विष्णुमन्त्रदीक्षितानां सत्स्त्रीशूद्राणामपि स्पर्शवती पूजामिच्छन्ति ।
मद्यपस्तु समासाद्य मम कर्मपरायणः । तस्य पापं प्रवक्ष्यामि शृणु सुन्दरि तत्त्वतः ॥ एकजन्म भवेद्गृध्रचाण्डालः सप्तजन्मसु । इति वाराहोक्तेः । मद्यपोत्र शूद्रः। द्विजातेरेव पूज्योऽहं शुचेरप्यशुचेरपि । इति स्कान्दात् ।
अत्र प्रतिष्ठितमूर्तिलिङ्गापूजा सत्स्त्रीसच्छूद्रैः स्पर्शवत्यपि कार्या। स्पर्शनिषेधस्तु शालग्रामदेवर्षिप्रतिष्ठितमूर्तिलिङ्गस्पर्शनिषेधपर इति शिष्टाः।
स्कन्दपुराणे, शालग्रामशिलायास्तु प्रतिष्ठा नैव विद्यते ।
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोपयस्य पूजाप्रकाशे
महापूजां तु कृत्वादौ पूजयेत्तां ततो बुधः ॥ बृहदामने, प्रतिष्टादिविधानेन विनैवच स ते हरिः । सदा तत्र शिलामात्रे चक्रचिन्हे वरानने ॥ शालग्रामार्चने भूप नावाहनविसर्जने । येषां नास्ति विधिमन्त्रो न दीक्षा न विधिक्रमः । न तेषामपराधोऽस्ति शालग्रामशिलार्चने ॥ आगम्यागमने पापं तथा विश्वासघातने । तत्सर्व नाशयत्याशु शालग्रामशिलार्चनात् ।। ब्रह्मपुराणे, शालग्रामोद्भवो देवो देवो द्वारवतीभवः । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ एकमूतिर्न पूज्यैव गृहिणा द्धिमिच्छवा । अनेकमूर्तिसम्पन्ना सर्वकामफलप्रदा ॥ अनेकमूर्तिकास्तस्मात्पूजयेद्बुद्धिमान् गृही । पूजिते फलमाप्नोति इह लोके परत्रच ।। मूर्तिशब्देन द्वारवत्युद्भवा चक्रशिला । अत एव, चक्राङ्कमिथुनं पूज्यं नैकं चक्राङ्कमर्चयेत् । चक्राङ्कमिथुनात्सार्द्ध शालग्रामं प्रपूजयेत् ।। तत्रैव, धरण्युवाच । देवदेव महादेव सर्वयोगीश्वरेश्वर । चक्रतीर्थस्य माहात्म्यं तत्र जाताऽश्मलक्षणम् ।। वक्तुमर्हस्यशेषेण यद्यनुग्रहभागहम् ।
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दारवत्याश्चक्रशिला।
श्रीभगवानुवाच । म्लेच्छदेशेऽशुचौ वापि चक्राको यत्र तिष्ठति । योजनानां तथा त्रीणि मम क्षेत्रं वसुन्धरे । तन्मध्ये म्रियते यस्तु पूजकः सुसमाहितः । प्रेतवाधां च सम्प्राप्तुं न पुनः सोपि जायते ॥ चक्राङ्कस्य तु सान्निध्ये यत्कर्म क्रियते नरैः । स्नानं दानं तपो होमः सर्व तस्याक्षयं भवेत् ॥ संवत्सरं तु यत्पापं मनसा कर्मणा कृतम् । तत्सर्व नश्यते पुंसां सद्यश्चक्राङ्कदर्शनात ॥ ज्वरदाहो विषं चैव अग्निचौरभयं तथा । सर्वे ते प्रलयं यान्ति चक्राको यत्र तिष्ठति ॥ भूतप्रेतपिशाचाच डाकिन्यश्च वसुन्धरं । सर्वे ते प्रलयं यान्ति यत्र चक्राङ्कितं न्यसेत् ॥ संवत्सरं तु यः कुर्यात् पूजां स्पर्शनदर्शने । विना सांख्येन योगेन मुच्यते नात्र संशयः ॥ भक्त्या वा यदिवाऽत्या चक्राक्षं पूजयेन्नरः । अपिचेत्स दुराचारो मुच्यते नात्र संशयः ।। द्वारवतीशिला देवैर्मुद्रिता मम मुद्रया। यत्रापि नीयते तत्स्यात् तीर्थ द्वादशयोजनम् ॥ यत्किश्चित्तस्य पाषाणं कृष्णचक्रेण मुद्रितम् । तस्य दर्शनमात्रेण मुच्यते सर्वपातकः ॥ हृदि स्थिते तु चक्राङ्के दूता वैवस्वतस्य तु । नोपसर्पन्ति ते भीता दृष्ट्वा विष्णुपरिग्रहम् ॥ भिन्नश्चैवार्थनाशया स्थूलो बुद्धिविनाशतः । दीर्घश्वायुहरो ज्ञेयो रूक्षो बुद्धिविनाशकृत् ॥
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
रूक्षोऽस्निग्धः । चक्राङ्क इति शेषः । शुक्लवर्ण शुभं ज्ञेयं वृत्तचक्रं तथैवच ॥ शालग्रामादिलक्षणानि तु लक्षणप्रकाशस्थानि द्रष्टव्याणि । अथ विष्णुपूजादिफलान्यभिधीयन्ते । विष्णुरहस्ये, इति विष्णवर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोरनन्तं परमं पदम् ॥ एवं ज्ञात्वार्चकस्येह सदा सर्व प्रसिध्यति । मुखं प्रज्ञां व कीर्तिं च लभते स्वर्गमुत्तमम् ।। त्रिसन्ध्यं पूजयेनित्यं स मुक्तः सर्वबन्धनात् । व्यासः, सर्वेषामेव लोकानां गुरुर्नारायणो हरिः। तस्य सम्पूजनं कार्य सर्वपापहरं हि यत् ॥ येयन्ति सदा विष्णुं शङ्खचक्रगदाधरम् । सर्वपापविनिर्मुक्ता ब्रह्माणं प्रविशन्ति ते ॥ बृहन्नारदीये, यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् । तस्य वै सदृशं नास्ति यथा वै रवितेजसः ॥ स्वाचारमनतिक्रम्य हरिभक्तिरतो हि यः। स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः॥ कुर्वन् वेदोदितान् धर्मान् मुनीन्द्र स्वाश्रमोचितान् । हरिध्यानपरो यस्तु स याति परमं पदम् ॥ शिवपूजापरो वापि विष्णुपूजारतोपि वा । यत्र तिष्ठति तत्रैव लक्ष्मीः सर्वाश्च देवताः ॥ यत्र पूजापरो विष्णोस्तत्र वहिर्न बाधते ।
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णुपूजादिफलानिः।
राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ॥ प्रेताः पिशाचाः कूष्माण्डा ग्रहा बालग्रहास्तथा । डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ॥ परपीडारता ये तु भूतवेतालकादयः । न सन्ति यत्र तद्भक्ता हरिलिङ्गार्चने रताः ॥ परोपदेशनिरता वीतरागा विमत्सराः। हरिपादार्चनरताः प्रयान्ति ब्रह्मणः पदम् ॥ पूजया रहितं विष्णुं योऽर्चयेदर्कवंशज । तस्य पुण्यफलं वक्ष्ये वदतस्तभिशामय ॥ जलेन स्नापयेद्यस्तु पूजारहितमच्युतम् । स याति विष्णुसालोक्यं कुलसप्ततिसंयुतः ।। पत्रैः पुष्पैः फलैर्वापि पूजारहितमच्युतम् । प्रयाति हरिसारूप्यं शतद्वयकुलान्वितः ।। भक्ष्यभोज्यादिभिर्भूप पूजया शून्यमच्युतम् । समभ्यर्च्य लभेन्मोक्षं कुलायुतसमन्वितः ॥ शीर्णस्फुटितसन्धानं यः करोति नरोत्तम । शिवस्यायतनं वापि विष्णोर्वा शृणु तत्फलम् ।। शतजन्मार्जितैः पापैर्मुक्तो वंशत्रयान्वितः । स्थित्वा विष्णुपुरे कल्पं तत्रैव परिमुच्यते ॥ देवतायतने राजन् कृत्वा संमार्जनं नरः। यत्फलं समवामोति तन्मे निगदतः शृणु ॥ यावत्यः पांशुकणिकाः सम्यक् समार्जिता नृप । तावद्युगसहस्राणि विष्णुलोके महीयते ॥ यत्तु देवा लये राजनपि गोचर्ममात्रकम् । जलेन सेचनं कुर्यात् तत्फलं बदतः शृणु ।
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२६
वीरमित्रोदयस्य पूजाप्रकाशं
यावत्यः पांशुकणिका द्रवीभूता नरेश्वर । तावज्जन्मार्जितैः पापैः सद्य एव विमुच्यते ॥ गन्धोदकेन यो मर्त्यो देवतायतने नृप । भक्तितः सेचनं कुर्यात् तस्य पुण्यफलं शृणु ॥ द्रवीभूतानि यावन्ति रजांसि मनुजेश्वर । तावत्कल्प हस्राणि हरिसारूप्यमश्नुते || मृदा धातुविकारैर्वा देवतायतनं नरः । ( 2 ) कुलद्रयसमेतस्तु विष्णुलोके युगं वसेत् ॥ मृदा धातुविकारैश्च वर्णकैर्गोमयेन वा । उपलेपनकृद्यस्तु नरो वैमानिको भवेत् ॥ शिलाचूर्णेन यो मर्त्यो देवतायतने नृप । करोति स्वस्तिकादीनि तस्य पुण्यं निशामय । यावत्यः कणिका भूमौ लिप्ता रविकुलोद्भव | तावद्युगसहस्राणि हरिसालोक्यमश्नुते || यः कुर्याद्दीपरचनं शालिपिष्टादिभिर्नृप । न तस्य पुण्यं संख्यातुमुत्सहे ऽब्दशतैरपि ॥ अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च । दिनोदनेऽश्वमेधस्य फलमाप्नोत्यनुत्तमम् ॥ अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः । स विष्णुभवनं प्राप्य वसेदब्दशतं नृप । मुखवाद्यकृतो ये तु देवतायतने नराः । विमानशतसंयुक्ताः कल्पं स्वर्गाधिवासिनः ॥ करशब्दं प्रकुर्वन्ति देवतायतने तु ये । ते सर्वपापनिर्मुक्ता विमानेशा युगद्वयम् ॥ देवतायतने ये तु घण्टानादं प्रकुर्वते !
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णुपूजादिफलानि ।
1
तेषां पुण्यं निगदितुं कः समर्थोस्ति भूपते ॥ मृदङ्गपटहनिःसाणाद्यैश्च डिण्डिमैः । सन्तर्प्य देवदेवेशं लभन्ते यत्फलं शृणु ॥ देवस्त्रीशतसंयुक्ताः सर्वकामसमन्विताः । स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपश्चकम् ॥ देवतायतने कुर्वन् राजन् शङ्खस्वनं नरः । सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते ॥ तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः । यत्फलं लभते राजन् शृणुष्व गदतो मम ॥ सर्वपापविनिर्मुक्तो विमानशतसङ्कुलः । गीयमानश्च गन्धर्वैर्विष्णुना सह मोदते ॥ ध्यातः स्मृतः पूजितो वा स्तुतो वाथ मुतोऽपि वा । स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ इति । नृसिंहपुराणेsपि,
नारासिंहगृहे नित्यं यः संमार्जनमाचरेत् । सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते ॥ गोमयेन मृदा तोयैर्यः करोत्यनुलेपनम् । चान्द्रायणफलं प्राप्य विष्णुलोके महीयते ।। निर्माल्यमपनीयाथ तोयेन स्नाप्य केशवम् । नरसिंहाकृतिं राजन् नरः पापैः प्रमुच्यते ॥ गोदानफलं प्राप्य यानेनामरशोभिना । नरसिंहपुरं प्राप्य मोदते कालमक्षयम् ॥ आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः । एतावतापि राजेन्द्र सर्वपापाद्विमुच्यते ॥ पट्टासनमथायै च पाद्यमाचमनीयकम् ।
For Private And Personal Use Only
२७
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
वीरमित्रोदयस्य पूजाप्रकाशे देवदेवस्य विधिना सर्वपापैः प्रमुच्यते ॥ दत्त्वेति शेषः। एवं यः पूजयेद्राजन् नरसिंहं नरोत्तमः । तस्य स्वर्गापवर्गौ तु भवतो नात्र संशयः ।। यत्र वै पूजितो विष्णुर्नरसिंहो नरैर्नृप । न राजन् तत्र दुर्भिक्षं राजचोरादिकं भयम् ।। एवमादिफलोपेतं नारसिंहार्चनं नृप । कुरु त्वं नृपतेः पुत्र यदि वांछसि सद्गतिम् ।। इतः परतरं नास्ति स्वर्गमोक्षफलप्रदम् । दरिद्रः सुकरं कर्तुं देवदेवस्य पूजनम् ।। मनो नियमयेदेकं विष्ण्वाराधनकर्मणा । मनो नियमितं येन मुक्तिस्तस्य करे स्थिता ॥ इत्येवमुक्तं भृगुनोदितेन मया तवेहार्चनमच्युतस्य । दिनेदिने त्वं कुरु विष्णुपूजां वदस्त्र वान्यत्कथयामि किं ते॥ तथा प्रत्युपचाराणां फलं वच्मि फलार्थिनाम् । संमार्जनं हरे हे कृत्वा पापैः प्रमुच्यते ॥ विष्णुलोकं च गत्वाथ कल्पमेकं स तिष्ठति अभ्युक्षणकृतां चैव विष्णुलोकः प्रसिध्यति । उपलेपकृतां चैव चान्द्रायशफलं भवेत् । निर्माल्यमपनीयाने स्नानं यः कुरुते हरेः॥ गोपदानफलं तस्य खेचरत्वं च सिध्यति । तथा, देवमाल्यापनयनं देवागारसमूहनम् । स्नपनं सर्वदेवानां गोपदानफलं स्मृतम् ॥ समूहनं मृदुश्लक्षणया मार्जन्या जन्तुपरिहारेण मार्जनम् ।
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णुपूजादिफलानि ।
लोभाद्देवमाल्यापनयनं च निषिद्धं भाविष्यपुराणे, देवमुल्लुश्चयेद्यस्तु तत्क्षणात्पुष्पलोभतः । पुष्पाणि च सुगन्धीनि पूजको नेतराणि यत् ॥ ब्रह्महत्यामवाप्येह पच्यते शाश्वतीः समाः।
नरके इति शेषः । उल्लुञ्चनमत्र देवदत्तपुष्पादेष्टप्रयोजनाय निर्माल्यापनयनकालात्याक् हरणम् । निर्माल्यापनयनस्य प्रातःकाले विधानात् । देशकालानुरोधेन कालान्तरेपि तत्करणमदुष्टम् । पुष्पलोभत इति दृष्टार्थत्वेन निषेधात् ।
हलायुधः, प्रातः काले सदा कुर्यान्निर्माल्योद्वासनं बुधः । हरेरिति शेषः। वाराहे, निर्माल्यं मद्वपुर्लनं प्रातरेव विवासयेत् । यत्तु गन्धपुष्पादिकं विष्णोः सूर्येऽस्ते नैव धारयेत् । तुलस्या मिश्रितं यच्च दिवारात्रौ न दुष्यति ॥
इति, तत् विगन्धम्लायमानपुष्पपरम् । यत्तु कचिन्मध्याह्ने निर्माल्यापनयनं प्रतीयते तत् प्रातः पूजितस्य पुनर्मध्याह्ने षोडशोपचारादिभिः पूजने क्रियमाणे निर्माल्यापनयनविषयम् । अन्यथा बहुवाक्यबाधापत्तेः ।
पञ्चरात्रे, यः प्रातरुत्थाय कृताभिषेको निर्माल्यमीशस्य निराकरोति। न तस्य दुःखं न दरिद्रता च नाकालमृत्युन चरोगमात्रम्।। ईशस्य हरेः, प्रकरणात् । तथा तत्रैव,
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३०
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
अरुणोदयवेलायां निर्माल्यं शल्यतां व्रजेत् । प्रातस्तु स्यान्महाशल्यं घटिकामात्रयोगतः ॥ अतिशल्यं विजानीयात्ततो वज्रप्रहारवत् । अरुणोदयवेलायां शल्यं तत् क्षमते हरिः ॥ घटिकाया अतिक्रान्तौ क्षुद्रं पातकमावहेत् । मुहूर्ते समतिक्रान्ते पूर्ण पातकमुच्यते ।। ततः परं ब्रह्मवधो महापातकपञ्चकम् । महरे पूर्णतां याते प्रायश्चित्तं ततो नहि ॥ निर्माल्यनिराकरणम् उशीरकूर्चादिना मार्जनम् । उशीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते ॥ दत्त्वा गोवालजं कूर्च सर्वपापान्यपोहति । इति विष्णुधर्मोत्तरात् । गौरत्र चमरी । उक्तञ्च तत्रैव,
दत्त्वा चामरजं कूर्च श्रियमानोत्यनुत्तमाम् ॥ इति । तथा, देवस्यावाहने ज्ञेयं सर्वपापक्षयः फलम् । आसने स्थानमुत्कृष्टं सर्वपापक्षयो भवेत् ॥ अर्थ्येऽनर्घ्यपदं सिध्येत् पापक्षयपुरःसरम् । पाद्ये श्रीपादभक्तिः स्याद्भक्त्या तत्रैव लीयते || हरेराचमनं दत्वा सर्वपापैः प्रमुच्यते । आयुः पुष्टिर्भवेन्नित्यं वस्त्रोद्वर्त्तनदानतः ॥ तेजः पुष्टि तुष्टिश्च भवेत्सौगन्धितैलतः । यवगोधूमकल्केन लेपने चोष्णवारिणा ॥ क्षालनाद्वारुणे लोके चिरकालं वसेद्भवम् । suraichara नित्यागेगी भवेदः ॥
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
१
विष्णुपूजादिफलानि । बिल्वपत्रैश्च सङ्घर्षात् सर्वपापक्षयो भवेत् ।। अङ्गसौरभ्यमायुष्यं सुगन्धामलकाद्भवेत् ॥ लक्ष्मीप्तौभाग्यकान्तीश्च सर्वोषध्यम्बुनाप्नुयात् । पञ्चगव्यब्रह्मकूर्चस्नापनाद्विष्णुमाप्नुयात् । सन्तोष सौख्यमारोग्यं सारूप्यं सप्तजन्मसु ॥ क्षीरेण स्नापिते विष्णौ बजेद्विष्णुपुरं नरः । दना तु स्नापिते विष्णौ रूपी विष्णुपुरं व्रजेत् ॥ रूपी रूपवान् । घृतेन स्नपनात्सर्ववन्धो वैकुण्ठगो भवेत् । मधुना स्नापनाद्विष्णोरमिलोकमवाप्नुयात् ॥ शुद्धोदकेन नपनात् क्षीणपापो हरिं व्रजेत् । मृजलस्नपनाद्विष्णोर्मनःशुद्धिमवाप्नुयात् ।। गन्धर्वलोकमामोति स्नपनाचन्दनांभसा । सुगन्धितोयनपनात् वारुणं लोकमाप्नुयात् ॥ अलक्ष्मीनाशमामोति स्वपनात् पल्लवाम्भसा । सपनात् कुशपुष्पाद्भिर्ब्रह्मलोकमवाप्नुयात् ॥ पुष्पाम्भःस्नपनात् लोकात् सावित्राद्विष्णुमाप्नुयात् । सवितृलोकद्वारा विष्णुं प्राप्नुयादित्यर्थः । फलाम्भः सपनाद्भक्त्या विष्णुलोकमवाप्नुयात् । स्वर्णाम्भः स्नपनात् विष्णोः कौबेरं पदमाप्नुयात् ।। सावित्रं लोकमामोति रत्नाम्भः स्नपनात्तथा । इहलोकाद्विष्णुलोकं कर्पूरागरुवारिणा । चन्द्रलोकाद्विष्णुलोकं वस्त्रदानादवाप्नुयात् । इन्द्रलोकमवानोति सर्वाभरणदानतः ॥ भक्त्या चन्दनदानेन विष्णुलोकमवाप्नुयात् ।
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे कल्पकोटिं वसेद्विष्णौ यक्षकर्दमदानतः ॥ अखण्डविल्बतुलसीसुगन्धकुसुमैर्हरिम् । आराध्य कोटिकल्पान् स विष्णुलोके वसेत्सुखी ॥ निष्पापो धूपदो वायोर्लोकाद्विष्णुमवाप्नुयात् । सन्ध्यादीपप्रदानाच्च अग्निलोके वसेच्चिरम् ।। ऐश्वर्य पुत्रलाभं च सौभाग्य स्त्रियमेवच । वाचं पापक्षयं सौख्यमारोग्यं ब्रह्मणः पदम् ॥ अष्टासु दिक्षु मध्ये च वीरुज्वाल्य यत्नतः । आरात्रिकप्रदानेन फलमेतदवाप्नुयात् ॥ वसेत्तण्डुलसंख्याकान् लोकान् नैवेद्यदो हरेः । हरेस्ताम्बूलदः प्रज्ञा मेधामैश्वर्यमाप्नुयात् ॥ शान्तिः श्रीश्च तथाऽऽरोग्यं भवेदिग्बलिदानतः । पृथ्व्याः प्रदाक्षणे यावत् फलं तावद्धरेरिति ॥ प्रदक्षिणादिति शेषः। नमस्कारं हरेः कृत्वा सायुज्यमधिगच्छति । स्तवैश्च क्षीणपापोऽसौ विष्णोर्लोकमवाप्नुयात् ।। नृत्यादिकं हरेः कृत्वा कामरूपो हरिं व्रजेत् । कामवत् रूपं यस्य सः। विष्णुलोकमवामोति धनदो गोष्ठकृत् तथा। सहस्रकपिलादानफलभाग गोपदो हरेः॥ कपिलादानतो विष्णोः सायुज्यमधिगच्छति । उद्वासनेऽपि सायुज्यमाप्नुयात् परमात्मनः ॥ इति ।
अत्रतत्तदुपचाराश्रिता न गुणकामाः,नापि द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात् * इतिन्यायेन अङ्गे फलश्रुति
* पू० मी० अ० ४। पा० ३ । सू०१ ।
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
पाद्यादिषु प्रक्षेपणीयद्रव्याणि । रर्थवादः। उपचाराणां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां विनियोजकानामभावेन परस्परमङ्गाङ्गिभावाभावात् । किन्तर्हि,प्रधानफलान्येतानि । तत्र विधिभेदेन एकैकस्योपचारस्य फलवत्त्वेऽपि समुदितानामपि फलवत्त्वं पञ्चोपचारादिपूजायाः फलवत्त्वश्रवणात् । तद्यथा अग्निहोत्रादिकर्मणां 'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यादिप्रातिस्विकफलश्रवणेऽपि 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इतिशतपथश्रुत्या यज्ञादीनां सर्वेषां विविदिषारूपफलवत्ता श्रुत्या बोधिता तद्वदिहापीति न काप्यनुपपत्तिरिति ।
___अथ पात्रासादनप्रकारः। पुष्पसारसुधानिधौ, अर्घ्यपात्रं तु वायव्ये नैर्ऋत्यां पाद्यपात्रकम् । आग्नेय्यां स्नानकलशमैशे त्वाचमनीयकम् ॥ मध्ये तु मधुपर्क स्यादित्येतत्पात्रलक्षणम् । पात्रलक्षणं पात्रस्थापनलक्षणम् ।
अथ पाद्यादिपात्रेषु प्रक्षेपणीयद्रव्याणि । रत्नकोशे, पद्मं च विष्णुपर्ण च दूर्वा श्यामाकमेवच । चत्वारि पाद्यद्रव्याणि लब्धं वापि समाचरेत् ॥ उक्तेषु यल्लब्धम् । कुशाक्षततिलव्रीहियवमाषप्रियङ्गुभिः । सिद्धार्थकसमायुक्तमयै स्यात्तु विशेषतः ॥ रक्तबिल्वाक्षतैः पुष्पैर्दधिर्वाकुशैस्तिलैः । सामान्यः सर्वदेवानाम?ऽयं परिकीर्तितः ॥ अलाभे दधिर्वादेर्मनमापि विचिन्तयेत् ।
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
hana Kendra
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
रक्तं कुङ्कुमम् । रक्तचन्दनमित्यन्ये । तथा, आपः क्षीरं कुशाग्राणि दधि सर्पिश्च तण्डुलाः । यवा सिद्धार्थकाश्चैव अष्टाङ्गोघः प्रकीर्तितः॥ आगमे, गन्धपुष्पाक्षतयवकुशाग्रतिलसर्पपैः । सर्वैः सर्वदेवानामर्षोऽयं परिकीर्तितः ॥ इति । अन्यच्च, शङ्के कृत्वा तु पानीयं गन्धष्पुपाक्षतान्वितम् । अर्घ ददाति देवस्य ससागरधराफलम् । ससागरधरादानफलं प्राप्नोतीति शेषः । इक्षुर्मधु घृतं चैव पयो दधि सहैव तु । प्रस्थप्रमाणं वा ग्राह्यं मधुपर्कमिहोच्यते ॥ इक्षुः ऐक्षवम् । एलालवगौशीरं च ककोलं च चतुर्थकम् । आचमनीयं विज्ञेयं यथालाभं प्रगृह्य वा ॥ अथ लानद्रव्यविधिः। गवां शतस्य विषाणां यद्दत्तस्य भवेत्फलम् ॥ घृतप्रस्थेन तद्विष्णोर्भवेत्स्नानान संशयः । नरसिंहपुराणे, क्षीरेण पूर्व कुर्वीत दना पश्चात् घृतेन च ॥ मधुना चाथ खण्डेन क्रमो ज्ञेयो विचक्षणैः । बृहन्नारदीये, प्रस्थमात्रेण पयसो यः स्नापयति केशवम् । कुलायुतायुतयुतो विष्णोः सारिष्टिमाप्नुयात् ।। सार्टिरित्यर्थे सारिष्टिरित्यार्षम् । तदर्थः सौभाग्यं फलम् ।
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्नानद्रव्यविधिः। कपिलाक्षीरमादाय शङ्ख कृत्वा जनार्दनम् ॥ यज्ञायुतसहस्रस्य स्नापयित्वा लभेत्फलम् । अग्यगोसम्भवं क्षीरं शङ्ख कृत्वा तु नारद ॥ यः स्नापयति देवेशं लभेत्पारायणं फलम् । पारायणं वेदाध्ययनजं फलम् । दध्यादीनां विकाराणां क्षीरतः संभवो यतः । दुःखानि सर्वपापानि क्षीरस्नानं ततो हरेत् ॥ नृसिंहपुराणे, स्नाप्य दध्ना सकृद्विष्णुं निर्मलं प्रियदर्शनम् । विष्णुलोकमवामोति सेव्यमानः सुरोत्तमैः ॥ बृहन्नारदीये, घृतेन मधुना वापि दध्ना वा तत्फलं शृणु । सर्वयज्ञफलं प्राप्य सर्वपापविमोचितः ॥ वसेद्विष्णुपुरं कल्पं त्रिःसप्तपुरुषान्वितः । तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् ॥ तत्रैव मोक्षमामोति पुनरावृत्तिदुर्लभम् । इक्षुक्षीरेण देवेशं यः स्नापयति केशवम् ॥ कुलायुतायुतयुतो विष्णुना सह मोदते । ब्राह्मे, देवानां प्रतिमा यत्र घृताभ्यक्षमा भवेत् । पलानि तत्र देयानि श्रद्धया पश्चनिंशतिः॥ अष्टोत्तरं पलशतं स्नाने देयं च सर्वदा । दे सहस्रे पलानां तु महास्नाने तु सङ्ख्यया ॥ दातव्यं येन सर्वासु दिक्षु निर्याति तघृतम् । अन्न घृतेत्युपलक्षणम् । तेन दुग्धादावपीयमेव सङ्ख्या । 'घृ
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश ताभ्यङ्गक्षमा भवेत्' इत्यतश्चित्रमृन्मयादिप्रतिमायां स्नानाभ्यञ्जने न स्तः।
नारसिंहे, यः पुनः पुष्पतैलेन दिव्यौषधियुतेन च । अभ्यङ्ग कुरुते विष्णोस्तस्य प्रीतो भवेत्सदा ॥ यवगोधूमयोश्चूणरुद्वयोष्णेन वारिणा । प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् ।। इति । जलस्नानमाह भारद्वाज, स्वच्छं सुशीतलं स्वादु लघु सत्पात्रपूरितम् । आनीतं सज्जनैर्यत्तत्सलिलं श्रेष्ठमुच्यते ॥ गरुडपुराणे, तुलसीमिश्रतोयेन स्नापयन्ति जनार्दनम् । पूजयन्ति च भावेन धन्यास्ते भुवि मानवाः ॥ नारसिंह, पुष्पोदकेन गोविन्दं स्नाप्य भक्त्या नरोत्तम । सावित्रं लोकमासाद्य विष्णुलोके महीयते ।। स्कन्दपुराणे, शङ्ख कृत्वा तु पानीयं साक्षतं कुसुमान्वितम् । स्नापयदेवदेवेशं हन्यात्पापं पुराकृतम् ॥ क्षिप्त्वा गन्धोदकं शर्के यः स्नापयति केशवम् । नमो नारायणायति मुच्यते योनिसङ्कटात् ॥ वादित्रनिनदैरुच्चैर्गीतमङ्गलसंस्तवैः। यः स्नापयति देवेशं जीवन्मुक्तो भवेद्धि सः ॥ वादित्राणामभावे तु पूजाकाले च सर्वदा । घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयो यतः ॥
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विहितनिषिद्धवस्त्राणि ।
सर्ववाद्यमयी घण्टा देवदेवस्य वल्लभा । तस्मात्सर्वप्रयत्नेन घण्टानादं तु कारयेत् ॥ विष्णुं स्नानार्द्रगात्रं तु वस्त्रेण परिमार्जति तस्य भक्त्या हृषीकेशः कुरुते पापमार्जनम् ||
I
अथ वस्त्रम् ।
अग्निपुराणे, दुकूलपदृकौशेयकार्पासराङ्कवादिभिः । वासाभिः पूजयेदेवं सुशुभ्रैरात्मनः प्रियैः ।।
तथा,
वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च । रूपवन्ति हरेर्दत्वा सदशानि नवानि च ॥ यावद्वस्त्रस्य तन्तूनां परिमाणं भवत्यथ । तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ नारसिंहे,
वस्त्राभ्यामच्युतं भक्त्या परिधाप्य विचित्रितम् । सोमलोके रमित्वा तु विष्णुलोके महीयते ॥
भरद्वाजः, नेत्रप्रियाणि सूक्ष्माणि नूतनानि धनानि च । न्यायागतानि वखाणि प्रशस्तानि भवन्ति हि ॥
अथ निषिद्धानि ।
बौधायनः,
परिहितमधिरूढमप्रक्षालितं प्रावरणीकृतं मनुष्यसंयुक्तं न
देवतासु युञ्जीयात् ।
आखुदष्टानि दग्धानि जीर्णान्यन्यैर्धृतानि च । मिशन शीर्णानि स्थूलान्युपहतानि च ।
For Private And Personal Use Only
३७
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३८
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
दुष्कर्मसु प्रयुक्तानि देवताभिर्धृतानि च ॥ स्यूतान्यन्यायलब्धानि न स्युः शस्तानि जातुचित् ।
वाराहे,
नीलीरञ्जितवस्त्रं यो मय मां निवेदयेत् । नवमक्षालितं चैव स चिरं रौरवं वसेत् ||
वस्त्रं कार्पासम् ।
ऊर्णायां पट्टवस्त्रे वा नीलीरागो न दुष्यति । इत्युक्तेः । अथ यज्ञोपवीतम् |
यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय वा । भवेद्विचतुर्वेदी शुद्धधर्नात्र संशयः ॥ नरसिंहपुराणे,
त्रिवृच्छुकं च पीतं च पट्टसूत्रादिनिर्मितम् । यज्ञोपवीतं गोविन्दे दत्वा वेदान्तगो भवेत् ||
त्रिवृत् नवगुणम् । नन्दिपुराणे,
अलङ्कारं च यो दद्याद्विप्राय च सुराय च । सोमलोके रमित्वा तु विष्णुलोके महीयते ॥ स्वशक्त्या देवदेवेशं भूषणैर्भूषयन्ति ये । हेमजै रत्नजैः शुभ्रैर्मणिमैश्व सुशोभितैः || तेषां फलं शतानन्दो न रुद्रो वासवादयः । जानन्ति मुनयो नैव वर्जयित्वा तु माधवम् ॥ नृसिंहपुराणे, सुवर्णाभरणैर्दिव्यैहर केयूरकुण्डलैः । मुकुटैः कटकाद्यैस्तु यो विष्णुं पूजयेन्नृप । सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ।
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोर्गन्धाः। इन्द्रलोके वसेच्छीमान् यावदिन्द्राश्चतुर्दश ।। इति ।
अथ गन्धाः । नरसिंहपुराणे, कुङ्कुमागुरुश्रीखण्डकपूरेणाच्युताकृतिम् । आलिप्य भक्त्या राजेन्द्र कल्पकोटिं वसेदिवि ॥ चन्दनागुरुकर्पूरकुडमोशीरपद्मकैः। अनुलिप्तो हरिभक्त्या वरान् भोगान् प्रयच्छति ॥ पद्मपुगणे, गन्धेभ्यश्चन्दनं पुण्यं चन्दनादगुरुवरः। कृष्णागुरुस्ततः श्रेष्ठः कुङ्कुमं तु ततो वरम् ॥ कालेयं च तुरुष्कं च रक्तचन्दनमेव च । नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तमे ॥ नारदीये, सचन्दनं सकपूरं कुङ्कमागुरुमिश्रितम् । मृगनाभिसमायुक्तं जातीफलविमिश्रितम् ॥ तुलसीचन्दनोपेतं महाविष्णोः सुखावहम् । अनुलेपनमिति शेषः । गारुडे, कस्तूरिकाया भागौ द्वौ चत्वारश्चन्दनस्य तु । कुङ्कमस्य त्रयश्चैव शशिनः स्याच्चतुःसमम् ।। कपूरं चन्दनं दः कुङ्कुमं च चतुःसमम् । सर्वगन्धमिति प्रोक्तं समस्तसुरवल्लभम् ॥ विष्णुधर्मोत्तरे, दारियं पद्मकं कुर्यादस्वास्थ्यं रक्तचन्दनम् । उशीरं विप्र विभ्रंशमन्ये कुर्युरुपद्रवम् ।। इति ।
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
X
.
वीरमित्रोदयस्य पूजाप्रकाशे एतानि केवलानि निषिद्धानि । मिलितानि विहितानि । त्रिपलं चन्दनं प्रोक्तं कुङ्कुमं तत्समं स्मृतम् ॥ कर्पूरं तु तदर्ध स्यात् घनसारश्च तत्समः । पलेनैकेन कस्तूरीमिलनाद्यक्षकर्दमः ॥ यथालाभानिमान् विद्वान् कलयेत्सङ्ख्ययाऽनया । एवं कर्जुमशक्तश्चेदेकैकेनापि पूजयेत् ॥ इति । वाराहपुराणे, कर्पूरं कुङ्कुमं चैव त्वचं तगरमेवच । रक्तं च चन्दनं चैव अगुरुं गुग्गुलं तथा । एतैर्विलेपनं दद्यात् सुरभिं तु विचक्षणः । वामनपुराणे, चन्दनेनानुलिम्पेत कुङ्कुमेन तु यत्नतः । उशीरपद्मकाभ्यां चै तथा कालेयकादिना ॥ सुगन्धैश्च सुरामांसीकर्पूरागुरुचन्दनः। तथाऽन्यैश्च शुभैव्यैरर्चयेजगतः पतिम् ।। तथा नारसिंहे, बकुलस्य च निर्यासैरग्निष्टोमफलं लभेत् । बकुलागुरुमिश्रेण चन्दनेन मुगन्धिना ॥ समालभ्य जगन्नाथं पौण्डरीकफलं लभेत् । एकीकृत्य च सर्वाणि समालभ्य जनार्दनम् ॥ अश्वमेधस्य यज्ञस्य फलं प्रामोत्यसंशयम् । कामगेन विमानेन विचरत्यमरप्रमः ॥ योऽनुलिम्पेत देवेशं कीर्तितैरनुलेपनैः । पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै ।। तावदन्दानि लोकेषु कामचारी भवत्यसौ ।
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पेषु तुलसीमाहमा ।
तथा, तुलसीकाष्ठसम्भूतं चन्दनं यच्छतो हरेः। नियोति पातकं सर्व पूर्वजन्मशतैः कृतम् ।। यो ददाति हरेनित्यं तुलसीकाष्ठचन्दनम् । युगानि वसते स्वर्गे अनन्तानि नरोत्तम ।। पाने, सर्वेषामपि देवानां तुलसीकाष्ठचन्दनम् । पितृणां च विशेषेण सदाभीष्टं हरेर्यथा ॥ तावत्कस्तूरिकामोदः कर्पूरस्य सुगन्धिता। यावन्न दीयते विष्णोस्तुलसीकाष्ठचन्दनम् ।। तुलसीदललग्नेन चन्दनेन जनार्दनम् । विलेपयति यो नित्यं लभते चिन्तितं फलम् ।। न तेन सदृशो लोके वैष्णवो भुवि विद्यते । यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचन्दनम् ॥ तुलसीचन्दनालिप्तः कुरुते हरिपूजनम् । पूजितेन दिनैकेन लभते शतवार्षिकम् ॥ पुण्यमिति शेषः। यो हि भागवतो भूत्वा कलौ तुलसिचन्दनम् । न चार्पयति वै विष्णोर्न स भागवतो नरः॥ मृतिकाले तु संप्राप्ते तुलसीतरुचन्दनम् । भवेच्च यस्य देहे तु हरिभूत्वा हरिं व्रजेत् ।।
अथ पुष्पाणि | तत्र तुलसीसमर्पणादिमहिमा । हारीतः, तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरके ।
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
કર્
वीरमित्रोदयस्य पूजाप्रकाशे
रास्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ स्कान्दे,
तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः । केशवार्थे कलौ ये तु रोपयन्तीह भूतले || किं करिष्यति संरुष्टो यमोऽपि सह किङ्करैः । तुलसीदलैस्तु देवेशः पूजितो येन दुःखहा || मणिकाञ्चनपुष्पाणि तथा मुक्तामयानि च । तुलसीदलमात्रस्य कलां नाईन्ति षोडशीम् ॥ पाझे, तुलसीमअरीभिर्यः कुर्याद्धरिहरार्चनम् । न स गर्भगृहं याति मुक्तिभागी भवेन्नरः ॥ आरोग्य तुलसी वैश्य संपूज्य तद्दलैर्हरिम् । वसन्ति योदमानास्ते यत्र देववतुर्भुजः ॥ सात् गर्जन्ति पुष्पाणि मालत्यादीनि भूरिशः । यावत्र प्राप्यते कृष्णा तुलसी विष्णुवल्लभा ॥ तावन्ति रत्नानि कौस्तुभादीनि भूतले । यावन्न प्राप्यते कृष्णतुलसीपत्रमञ्जरी ॥
पत्रसहिता मञ्जरीति व्युत्पत्तिबलात् मञ्जर्यो पत्रसाहित्यमपेक्षितम् ।
तुलसी कृष्णगौरा च तयाऽभ्यर्च्य जनार्दनम् । नरो याति तनुं त्यक्ता वैष्णवीं शाश्वतीं गतिम् ॥ तथा पाद्मे वृन्दोपाख्याने, सत्वं प्रीतिकरं वाक्यं कोपस्तस्यास्तु तामसः । भावद्वयं हरौ जातं तत्तद्वर्णद्वयं भूत ||
तक्या उन्द्रायाः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पेषु तुलसीमहिमा ।
श्यामापि तुलसी विष्णोः पिया गौरी विशेषतः । यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद ॥ तुलसीदलेन देवर्षे प्राप्यते केशवार्चनात् । तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम् ।। तस्याहं प्रतिगृह्णामि न पूजां शतवार्षिकीम् । तुलसीद लपूजाया मया वक्तुं न शक्यते ।। अत्यन्तवल्लभा सा हि शालग्रामाभिधे हरौ । नथा, पूर्वजन्मन्यसौ लेभे कृष्णसंयोगमुत्तमम् । अस्या एवहि शापेन माधवो भक्तवत्सलः । असौ वृन्दा । अस्या वृन्दायाः। शालग्रामशिलाभावं प्राप्तश्चित्सुखविग्रहः ।। यथाहि वासुदेवस्य वैकुण्ठो भोगविग्रहः । शालग्रामशिलारूपं स्थावरं भुवि विद्यते ।। सथा लक्ष्म्यैक्यमापना तुलसी भोगविग्रहः । अपरं स्थावरं रूपं भुवि लोकहिताय वै ॥ इदं तु शालग्रामशिलायां फलातिशयार्थम् । यत्तु तुलप्ती प्रति वासुदेववाक्यं स्कान्दे, करवीरप्रसून वा मल्लिका वाथ चम्पकम् । उत्पलं शतपत्रं वा पुष्पेष्वन्यतमं तु वा ।। त्वत्पनरहितं चेत्तु पत्रं वा पुष्पनेव वा । सुवर्णेन कृतं पुष्पं राजतं रत्नमेव वा ॥ मम पादाब्जपूनावागनहे भवति ध्रुवम् । नत तुलसीसद्भावे नाशस्त्यमुचकम् ।
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४४
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
तुलसीदलजां मालामेकादश्यां विशेषतः । मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्मा भवेत् । इति । भगवते दत्त्वा धृत्वेति वा शेषः तन्मूलमृत्तिकांचा कृत्वा स्नाति दिने दिने । दशाश्वमेधावभृथस्नानजं लभते फलम् ॥ तुलसीदलसांमिश्रं तोयं गङ्गासमं विदुः । यो वच्छिरसा नित्यं धृता भवति जाह्नवी ॥ तुलसीदलसंमिश्रं यस्तोयं शिरसा बहेतु । सर्वतीर्थाभिषेकस्तु तेन प्राप्तो न संशयः ॥ तुलसीकाननच्छाया यत्र यत्र भवेद्दिज । तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां तृप्तिहेतवे ॥ पितृपिण्डार्चनं श्राद्धे यैः कृतं तुलसीदलैः । तर्पिताः पितरोऽत्यर्थं यावच्चन्द्रार्क मोदिनी || तुलसीमृत्तिका यत्र काष्ठं पत्रं च वेश्मनि । तिष्ठन्ति मुनिशार्दूल न दूरे वैष्णवं पदम् ॥ तुलसीमृत्तिकालिप्तो यदि प्राणान् विमुञ्चति । याति विष्ण्वन्तिकं नित्यं यदि पापशतैर्युतः ॥ प्रयाणकाले यस्यास्ये दीयते तुलसी यदि । निर्वाणं याति पक्षीन्द्र पापकोटियुतोऽपि सन् । प्रयाणकाले मरणकाले ।
स्कान्दे,
शरीरं दह्यते येषां तुलसीकाष्ठवह्निना । न तेषां पुनरावृत्तिर्विष्णुलोकात् कथञ्चन ॥ ग्रास्तो यदि महापापैरगम्यागमनादिभिः । मृतः शुद्ध्यति दाहेन तुलसीकाष्ठवह्निना ॥
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५
विष्णोः पुष्पेषु तुसलीमहिमा। दत्त्वा तु तुलसीकाष्ठं सर्वाङ्गेषु मृतस्य च । पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते ॥ तीर्थ यदि न सम्प्राप्तं कीर्तनं स्मरणं हरेः। तुलसीकाष्ठदग्धस्य न तस्य पुनुरात्तिः ॥ यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि । दाहकाले भवेन्मुक्तिः पापकोटियुतस्य च ॥ गङ्गाम्भमो विशेषेण यान्ति तोयानि पुण्यताम् । तुलसीकाष्ठामश्राणि यान्ति दारूणि पूतताम् ॥ दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवाहिना । नीयमानो यमेनाशु विष्णुलोकं स गच्छति ।। जन्मकोटिसहस्रैस्तु पूजितो यैर्जनार्दनः । दह्यन्ते ते नराः सर्वे तुलसीकाष्ठवह्निना । तुलसीपावकेनैव दीपं यः कुरुते हरेः । दीपलक्षसहस्राणां पुण्यं भवति दैत्यज ॥ विष्णुधर्मोत्तरे, होमं कुर्वन्ति ये विप्रास्तुलसीकाष्ठवाहिना । सिक्थे सिक्थे तिले वापि अग्निष्टोमफलं भवेत् ॥ यो ददाति हरेधूपं तुलसीकाष्ठवाहिना । मेरुतुल्यं भवेद्दत्तं तद्दत्तं केशवस्य हि ॥ तुलस्या कुरुते यस्तु शालग्रामशिलार्चनम् । द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः ॥
ब्रह्मपुराणे,
लिङ्गमभ्यर्चितं दृष्ट्वा प्रतिमा केशवस्य हि । तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया ॥ अभिन्नपत्रां हरितां हृयमारसंयुताम् ।
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे क्षीरोदार्णवसम्भूतां तुलसी दापयेद्धरिम् ।। पाने, तुलसीकाननं वैश्य गृहे यस्मिंस्तु तिष्ठति । तद्गृहं तीर्थभूतं हि न यान्ति यमकिङ्कराः ।। तावद्वर्षसहस्राणि यावद्वीजदलानि च । वसन्ति वैष्णवे लोके तुलसी रोपयन्ति ये ॥ रोपणापालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥ श्रीवासुदेववाक्यम्तुलसीपत्रमादाय यः करोति ममार्चनम् । पुनने योनिमायाति मुक्तिभागी भवेद्धि सः ॥ स्कान्दे, तुलसीगन्धमादाय यत्र गच्छति मारुतः । दिशश्च विदिशः पूता भूतग्रामश्चतुर्विधः ॥ उपोष्य द्वादशी शुद्धां पारणे तुलसीदलम् । प्राशयेद्यदि विप्रेन्द्रश्चाश्वमेधाष्टकं लभेत् ॥ तुलसीकानने यस्तु मुहूर्तमपि विश्रमेत् । कोटिजन्मशतात् पापा मुच्यते नात्र संशयः ॥ गारुडे, मुखे तु तुलसीपत्रं दृष्ट्वा शिरसि कर्णयोः । कुरुते भास्कारिस्तस्य दुरितस्यापमार्जनम् ।। पाने, अस्नात्वा तुसली छित्वा सोपानत्कस्तथैवच । स याति नरके घोरे यावदाभूतसंप्लवम् ॥ न ददानि गवां गत्वा पिण्डं पुत्रो महामुने ।
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पेषु तुलसीमहिमा ।
४७
तुलसीकानने श्राद्धं दत्त्वा सन्तारयेत्पितॄन् । तुलसीमूलमध्ये तु यः क्षिपेत्तर्पणोदकम् । भवन्ति पितरस्तृप्ता द्वादशाब्दानि भूमिप ॥ तुलस्यां तपेणं ये च पितॄनुद्दिश्य मानवाः । कुर्वन्ति तेषां पितरस्कृप्ता वर्षायुतं जलैः ।। दृष्टा स्पृष्टा रक्षिता च महापातकनाशिनी । कृष्णार्चनार्थ विप्राणां यच्छन्ति तुलसीदलम् ॥ अन्येषामपि भक्तानां ते यान्ति परमं पदम् । विषा मन्त्राः कुशा वह्निस्तुलसी च खगेश्वर ॥ न ते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः । समञ्जरिदलैर्युक्तं तुलसीसम्भवैः क्षितौ ॥ कुर्वन्ति पूजनं विष्णोस्ते कृतार्थाः कलौ युगे । स्नाने दाने तथा ध्याने प्राशने केशवार्चने ।। तुलसी दहते पापं कीर्तने रोपणे कलौ । तुलस्यमृतनामासि सदा त्वं केशवप्रिया । केशवार्थ विचिन्वामि वरदा भवशोभने । त्वदङ्गसम्भवनित्यं पूजयामि यथा हरिम् ॥ तथा कुरु पवित्राङ्गि कलौ मलविनाशिनि । मन्त्रेणानेन यः कुर्यात् गृहीत्वा तुलसीदलम् ।। पूजनं वासुदेवस्य लक्षपूजाफलं लभेत् । . पूजा न सा या तुलसी विना कृता स्नानं न तद्यत्तुलसी विना कृतम् । भुक्तं न तद्यत्तुलसीविवर्जितं । पीतं न तद्यत्तुलसीविवर्जितम् ॥ विष्णुधर्मोत्तरे,
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
वीरमित्रोदयस्य पूजाप्रकाशे
रविवारं विना दुर्वा तुलसी द्वादशी विना। जीवितस्याविनाशाय प्रविचिन्वीत धर्मवित् ॥ तथा, पक्षे पक्षे तु सम्पा द्वादश्यां मुनिसत्तम । ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ॥ सङ्क्रान्तावर्कपक्षान्ते द्वादश्यां निशि सन्ध्ययोः । अर्कः रविवारः। यैश्छिन्नं तुलसीपत्रं तैश्छिन्नो हरिमस्तकः ॥ पाने, द्वादश्यां तुलसीपत्रं धात्रीपत्रं च कार्तिके । लुनाति स नरो गच्छेन्नरकानतिगर्हितान् ।। देवार्थे तुलसीछेदो होमार्थे समिधस्तथा। इन्दुक्षये न दुष्येत गवार्थे तु तृणस्य च ॥ इत्यास्तां प्रसक्तानुप्रसक्तिः। धर्मसारे, शालग्रामशिलामूर्ध्नि तुलसीपत्रपातनम् । कर्मनिर्मलनायोक्तमेकादश्यामभोजनम् ।। योर्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलः । न तस्य पुनराशत्तिर्ब्रह्मलोकात् कथश्चन ॥ पद्मपुराणे, सुगन्धितुलसीपत्रैः प्रतिमायाः समन्ततः। निश्छिद्रमास्तरेयस्तु सोऽनन्तफलमाप्नुयात् ॥ न विप्रसदृशं पात्रं न दानं सुरभीसमम् । न गङ्गया समं तीर्थ न पत्रं तुलसीसमम् ।। सुलसीपत्रसममन्यत्पत्रं नास्तीत्यर्थः ।
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि ।
त्यक्त्वा तु मालतीपुष्पं पुष्पाण्यन्यानि च प्रभुः । गृह्णाति तुलसी शुष्कामपि पर्युषितां प्रभुः ॥ वयं पर्युषितं पत्रं वयं पर्युषितं जलम् । न वयं जाह्नवीतोयं न वयं तुलसीदलम् ।। अपामार्गदलं पुण्यं तस्माद् भृङ्गरजस्य च । तस्माच्च खादिरं श्रेष्ठं शमीपत्रं ततः परम् ।। दूर्वापत्रं ततः श्रेष्ठं ततश्च कुशपत्रकम् । नतो दमनकं श्रेष्ठं ततो बिल्वस्य पत्रकम् ।। बिल्वपत्रादपि हरेस्तुलसीपत्रमुत्तमम् । तुलसीदललक्षेण योर्चयेद्रुक्मिणीपतिम् ॥ जन्मार्जितसहस्रस्य पापस्य कुरुते क्षयम् । शुद्धकाञ्चनपुष्पाणि रत्नमुक्ताफलान्यपि । सर्वाणि तुलसीपत्रकलां नाईन्ति षोडशीम् । योगिनां निवृतौ वाञ्छा कामिनां तु रतौ यथा ॥ पुष्पेष्वपि च सर्वेषु तुलस्यां तु तथा हरेः। सर्वेषु पुष्पेषु सत्स्वपि हरेस्तुलस्यां रतिरित्यर्थः । विष्णुरहस्ये, सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः । मुक्तिभागी निरातङ्कः कृष्णस्यानुचरो भवेत् ॥ अग्निपुराणे, बिल्वपत्रं शमीपत्र पत्रं भृङ्गरजस्य च । तमालपत्रं च हरेः सद्यस्तुष्टिकरं परम् ॥ अस्यापवादः। शमीपत्राणि दर्वाश्च भृाराजस्तथैव च । सुप्ते देवे न देयानि निद्राभाकराणि ॥
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
वामनपुराणे, बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य च । तमालामलकीपत्रं प्रशस्तं केशवार्चने । विष्णुपुराणे, शमीपत्रैश्च ये देवं पूजयन्ति जनार्दनम् । यममार्गो महाघोरो निस्तीर्णस्तैस्तु नारद ॥ दाङ्करं हरेर्यस्तु पूजाकाले प्रयच्छति । पूजाफलं शतगुणं सम्यगामोति मानवः ।। नरसिंहपुराणे, दश दत्त्वा मुवर्णानि यत्फलं लभते नरः। तत्फलं लभते मर्यो विष्णोः कुसुमदानतः ।। विहितपुष्पमात्रफलमेतत् । तत्रैव, पुष्पररण्यसंभूतः पत्रैर्वा गिरिसंभवैः । अपर्युषितनिश्छिद्रैः प्रोक्षितजन्तुवर्जितैः ।। आत्मारामोद्भवैर्वापि पुष्पैः संपूजयेद्धरिम् । आत्मनः स्वस्य आरामः पुष्पवाटिका । विष्णुधर्मोत्तरे, धार्जितधनक्रीतैर्यः कुर्यात केशवार्चनम् । उद्धरिष्यत्यसन्देहं दश पूर्वीस्तथाऽपरान् ॥ आरामोत्थैस्तु कुसुमैर्यः कुर्यात् केशवार्चनम् । एतदेव समामोति नात्र कार्या विचारणा ॥ नारसिंह, द्रोणपुष्पे तथैकस्मिन् माधवाय निवेदिते । दत्त्वा दश सुवर्णानि यत्फलं तदवाप्नुयात् ।। द्रोणपुष्पसहस्रेभ्यः स्वादिरं वै प्रशस्यने ।
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि । खदिरपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते ॥ शमीपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते । बकपुष्पसहस्रादि नन्द्यावर्तो विशिष्यते ॥ नन्द्यावर्तसहस्राद्धि करवीरं विशिष्यते । करवीरस्य पुष्पाद्धि श्वेतं तत्पुष्पमुत्तमम् ।। कुशपुष्पसहस्राद्धि वनमल्ली विशिष्यते । बनवल्लीसहस्राद्धि चाम्पकं पुष्पमुत्तमम् ।। चाम्पकात् पुष्पसाहस्रादशोकं पुष्पमुचमम् । अशोकपुष्पसाहस्रात् वासन्तीपुष्पमुत्तमम् ।। वासन्तीपुष्पसाहस्रात् गोजटापुष्पमुत्तमम् । गोजटापुष्पसाहस्रात् मालतीपुष्पमुत्तमम् ।। मालतीपुष्पसाहनात् त्रिसन्ध्यं रक्तमुत्तमम् । त्रिसन्ध्यरक्तसाहस्रात् त्रिसन्ध्यश्वेतकं वरम् ।। त्रिसन्ध्यश्वेतसाहस्रात् कुन्दपुष्पं विशिष्यते । कुन्दपुष्पसहस्राद्धि शतपत्रं विशिष्यते ॥ शतपत्रसहस्राद्धि मल्लिकापुष्पमुत्तमम् । मल्लिकापुष्पसाहस्रात् जातीपुष्पं विशिष्यते । सर्वासां पुष्पजातीनां जातीपुष्पमिहोत्तमम् ।। जातीपुष्पसहस्रेण यस्तु मालां प्रयच्छति । विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु ।। कल्पकोटिसहस्राणि कल्पकोटिशतानि च । वसेद्विष्णुपुरे श्रीमान् विष्णुतुल्यपराक्रमः ॥ मल्लिकामालतीजातीकेतकाशोकचम्पकैः । पुन्नागनागवकुलैः पबैरुत्पलजातिभिः ॥ पतैर्वन्यैश्च कुसुमैः प्रशस्तैरच्युतं नरः ।
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश अर्चयंश्च सुवर्णस्य प्रत्येकं फलमाप्नुयात् ।। एवं हि राजन् नरसिंहमूर्तेः प्रियाणि पुष्पाणि तवेरितानि । पतैश्च नित्यं हरिमर्च्य भक्त्या नरो विशुद्धो हरिमेव याति ।। स्कान्दे, अगस्त्यवृक्षसंभूतः कुसुमैरसितैः सितैः। यऽर्चयन्ति हि देवेशं तैः प्राप्तं परमं पदम् ॥ आग्रेये, मालती मल्लिका चैव युथिका चातिमुक्तकः । पाटला करवीरं च जपा यावन्तिरेव च ॥ कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः । चम्पको धातकः कुन्दो बाणो बर्बरमल्लिका ॥ अशोकस्तिलकश्चम्पस्तथा चैवाटरूषकः । अमी पुष्पाकराः सर्वे शस्ताः केशवपूजने ॥ वामनपुराणे बलिं प्रति प्रहादवाक्यम् , तान्येव च प्रशस्तानि कुसुमानि महासुर । यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ।। जाती शताहा सुमनाः कुन्दं चारुपुटं तथा । वाणं च चम्पकाशोकं करवीरं च यथिका ॥ पारिभद्रं पाटला च बकुलं गिरिशालिनी । तिलकं जम्बुवनजं पीतकं तगरं तथा ॥ एतानि तु प्रशस्तानि कुसुमान्यच्युतार्चने । मुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥ जाती सुवर्णजाती । शताहा शतपुष्पा । सुमनाः जाती । चा.
रुपुटः कर्णिकारः । गिरिशालिनी अपराजिता । कुटज इत्यन्ये । जम्बुवनजं जपाकुसुमम् । पीतकं पुष्पमात्रम् । केतकी
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि ।
निषेधस्तु गोपालमूर्त्यतिरिक्तमूर्तिपूनापरः ।
विष्णुधर्मोत्तरे, सुवर्णकेतकीपुष्पं यो ददाति जनार्दने । कोटिजन्मार्जितं पापं दहते गरुडध्वजः ॥
सुवर्णकेतकी सुवर्णकेतकी । तस्या नरसिंहपुराणगौतमीतत्रयोविधानात् इत्याहुः । वनकेतक्येव निषिद्धति माधवमानसोल्लासः।
अत एव आग्नेये, पत्रेणैकेन केतक्याः पूजितो मधुसूदनः । सहसमन्दं सुप्रीतो भवेच्च गरुडध्वजः ।। अन्यच्च, अर्चयित्वा हृषीकेशं कुसुमैः केतकोद्भवैः । पुण्यवद्भवनं याति केशवस्य निरामयम् ।। केतकीपत्रपुष्पं च भृङ्गराजस्य पत्रकम् । तुलसी कृष्णतुलसी सद्यस्तुष्टिकरं हरेः ॥
अत्र पत्रं च पुष्पं चेति समाहारद्वन्द्वो न युक्तः केतक्याः पुष्पदान इव पत्रदाने शिष्टाचारादर्शनात् । किंतर्हि, कर्मधारयोत्र युक्तः । एवं च सति केतक्याः पत्ररूपं यत्पुष्पं तद्देयमित्यर्थः। समाहारेऽपि पुष्पस्यैव पत्रं नतु पुष्पावयवभिन्न पत्रम् । एवं च म्पकादेः पुष्पेणेव पत्रेण पूजाऽपि युक्ता, शिष्टाचारात् । यत्र तु पत्रेण पूजन विधिस्तत्र पत्रपूजैव युक्तेति ।
विष्णुधर्मोत्तरे, केतकीपत्रमादय मिथुनस्थे दिवाकरे । यैरर्चितो हरिभक्त्या प्रीतो मन्वन्तरं मुने । पत्रशब्दः पुष्पावयवपरः।
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५.४
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश
एकयापि हि केवक्या यदा सम्पूज्यते हरिः । पूजितो द्वादशाब्देन केशवस्तेन निश्चितम् ॥ योऽर्चयेत्केतकीपुष्पैः कृष्णं कलिमलापहम् । पत्रे पत्रेऽश्वमेधस्य फलं यच्छति केशवः ॥ सकृत् कदम्बपुष्पेण हेलया हरिरर्चितः । सप्तजन्मानि देवर्षे तस्य लक्ष्मीर्न दूरगा ।। अभ्यर्च्य कुन्दकुसुमैः केशवं कल्मषापहम् | प्रयाति भवनं विष्णोर्वन्दितं मुनिचारणैः ॥ येsयन्ति जगन्नाथं करवीरैः सितासितैः । चतुर्युगानि विप्रेन्द्र प्रीतो भवति केशवः ।। तथा, बन्धुजीवस्य पुष्पाणि रक्तान्यपि निवेदयेत् । कृत्रिमेणानुलेपेन गन्धेनापि सुगन्धिना || धूपेन पटवासेन चन्दनाद्यनुलेपनैः । मध्येऽन्यवर्णो यस्य स्यात् शुक्लस्य कुसुमस्य च ॥ पुष्पं युक्तं तु विज्ञेयं मनोज्ञं केशवप्रियम् । अरण्यादाहृतैः पुष्पैर्मूलपत्रफलाङ्कुरैः ॥ यथोपगन्धैः सततमभ्यर्चयति केशवम् | सर्वकामप्रदो देवस्तस्य स्यान्मधुसूदनः ॥ तथा शुक्लान्यवर्णं च दातव्यं कुङ्कुमस्य यत् । पद्मोत्पले च धर्मज्ञ तथा वै पीतयूथिका || तथा च चम्पकं दद्याच्चूतकेतकिजं च यत् । रक्ताशोकस्य कुसुममतसीकुसुमं तथा ॥ वृक्षायुर्वेदविधिना शुक्लं रक्तं कृतं च यत् । तमपि दातव्यं बिल्वपत्रं तथैव च ।।
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
विष्णोः पुष्पाणि ।
Acharya Shri Kailassagarsuri Gyanmandir
तथा,
कुङ्कुमस्य तु पुष्पाणि बन्धुजीवस्य चाप्यथ । चम्पकस्य च देयानि तथा भूचम्पकस्य च ॥ पीतयूथिकजान्येव नीपवन्धूकजान्यपि । मञ्जर्यः सहकारस्य तथा देव जनार्दने || भूचम्पकः यस्य पत्राभावेऽपि मूलात्पुष्पमुद्गच्छति । तथा, जातीनामपि सर्वासां शुक्ला जातिः प्रशस्यते । तथा पुरन्धिपुष्पैर्यः कुर्यात्पूजां मधुद्विषः || तस्य प्रसादमायाति देवश्चक्रगदाधरः । रम्याः पुरन्धिमञ्जर्यो दयितास्तस्य नित्यशः ||
।
तथा,
श्वेतैः पुष्पैः समभ्यर्च्य सर्वान् कामानवाप्नुयात् । ऐश्वर्य प्राप्नुयालोके पीतैरेवं समर्चयन् ॥ शत्रूणामभिचारेषु तथा कृष्णैः समर्चयन् । सुवर्णपुष्पदानेन राजसूयफलं लभेत् ॥ दत्तमात्रं हरेः पुष्पं निर्माल्यं भवति क्षणात् । उपभुङ्क्ते त्वहोरात्रं मालत्याः कुसुमं हरिः ॥ कर्णिकारमयैः पुष्पैः कान्तैः कनकप्रभैः । अर्चयित्वाऽच्युतं लोके मम लोके महीयते ॥ तिलकस्योज्वलैः पुष्पैः सम्पूज्य मधुसूदनम् । धूतपापो निरातङ्कः कृष्णस्यानुचरो भवेत् ॥ गोकर्ण नागकर्णाभ्यां तथा बिल्वदलेन च । अर्चयित्वाऽच्युतं देवं देवानामधिपो भवेत् ॥ केतकीपुष्पैः कुसुमैस्तिमिरोद्भवैः ।
For Private And Personal Use Only
५९
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
वीरमित्रोदयस्य पूजाप्रकाशे अलङ्कत्वा नरः कृष्णं कृतार्थो विष्णुलोकभाक् ॥
तथा,
भक्त्या दूर्वाङ्करैश्चैव पूजितः परमेश्वरः । हरिददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥ ननु दूर्वामयैः पुष्पैः तथा काशकुशोद्भवैः । भवनं समलङ्कत्य विष्णुलोके व्रजेन्नरः ॥ विविधैः कुसुमैरन्यजन्ममृत्युजरापहम् । पूजयित्वाऽच्युतं विष्णुं याति विष्णुमनामयम् ।। तथा, मालतीबकुलाऽशोकशेफालीनवमल्लिकाः । आम्राततगरास्फोतामल्लिकामधुमल्लिकाः ॥ यूथिकाष्टपदं स्कंदं कदम्ब मधुपिङ्गलम् । पाटला चम्पकं हृद्यं लवङ्गमतिमुक्तकम् ॥ केतकं कुरचं बिल्लं कहारं वासकं द्विजाः । पञ्चविंशतिपुष्पाणि लक्ष्मीतुल्यपियाणि मे ।। तथा, येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च ।। तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे । विष्णुरहस्ये, मारवं केतकीपुष्पं तथा दमनकं मुने । उत्तमां तु हरेः प्रीतिं करोति शतवार्षिकीम् । मारवं मरुवकभवम् । अपराधसहमाणि अपराधशतानि च । कमलैकेन देवेशं योर्चयेत् कमलाप्रियम् ।। वर्षायुतसहमूस्य पापस्य कुरुते क्षयम् ।
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि ।
तत्त्वसागरसंहितायां नारदेन्द्रसंवादे, नत्र सङ्क्षेपतो वक्ष्ये पुष्पदानविधिक्रमम् । द्विविधं पुष्पमाख्यातं शुद्धं निर्माल्यमेव च । मानसं शुद्धमित्युक्तं निर्माल्यं बाह्यमुच्यते । बाह्यपुष्पसहस्राणां सहस्रायुतकोटिभिः ॥ पूजिते यत्फलं पुंसां तत्फलं त्रिदशाधिप ।। मानसेनैकपुष्पेण विद्वानानोत्यसंशयम् । तस्मान्मानसमेवातः शस्तं पुष्पं मनीषिणाम् || इन्द्र उवाच ।
बाह्यं पुष्पं तु निर्माल्यं यदि तस्मात्फलं कथम् । पूजकानां भवेदेतद्वद नारद मे स्फुटम् ॥
नारद उवाच ।
निर्माल्यं द्विविधं प्रोक्तमुत्सृष्टं घ्रातमेव च । मन्त्रेण विधिना दत्तं देवायोत्सृष्टमेव तत् ॥ न क्रियान्तरयोग्यं तत् सर्वथा त्याज्यमेव च । घातपुष्पफलं सिद्धयेदल्पं तन्मनसाऽन्यथा || जातमात्राणि पुष्पाणि घ्रातान्येव निसर्गतः । अल्पबुद्धित्वतो नृणां बाह्यपुष्पैर्भवेद क्रिया ॥ बाह्यान्यपि च पुष्पाणि पञ्चधोक्तानि जातितः । परं चैवापरं चान्यदुत्तमं मध्यमाधमम् ॥ मणिरत्नसुवर्णादिनिर्मितं कुसुमोत्तमम् । तत्परं कुसुमं प्रोक्तमपरं चित्रवत्रजम् ॥ उत्तमं वृक्षजं पुष्पं मध्यमं फलरूपकम् । अधमं कुसुमं प्रोक्तं पत्रिकाजातमेव वा ॥ पराणामपराणां च निर्माल्यत्वं न विद्यते ।
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८ वीरमित्रोदयस्य पूजाप्रकाशे
तेषामपि परं पुष्पं निर्माल्यं न कदाचन ॥ यावञ्चन्द्रश्च सूर्यश्च यावत्तिष्ठन्ति देवताः। परं पुष्पं न निर्माल्यं तावत् प्रोक्तं सुराधिप ।। वस्त्रमभ्युक्षणाच्छुध्येदपरंतु दिने दिने । उत्तमानि च पुष्पाणि प्रतिसन्ध्यं तु कानि चित् ॥ निर्माल्यानि भवन्त्येव कानि चिन्नैव वासव । मध्यमं चाधमं चैव निर्माल्यं प्रतिसन्ध्यतः ॥ पञ्चधा भिन्नपुष्पाणां फलमुद्देशतः शृणु । परेणैकेन पुष्पेण मन्त्रपूर्व सुभाविताम् ।। देवतां सकृदभ्यर्च्य सर्वान् कामानवाप्नुयात् । कृत्वा पापसहमाणि पातकानि महान्त्यपि ।। स्वर्णपुष्पेण चैकेन पूज्य मुक्तिमवाप्नुयात् । एकं तु नलिनं स्वर्णपुष्पं कृत्वा समर्चयेत् ॥ सर्वपापाद्विनिर्मुक्तः शाश्वतीं गतिमाप्नुयात् । किम्पुना रत्नमुक्तादिखचितं स्वर्णपुष्पकम् ॥ आरोप्य प्रतिमामूनि पूजया सिद्धिभाग्भवेत् । वस्त्रनिर्मितपुष्पैस्तु पूजयित्वेष्टदेवताम् ॥ साधयेदीप्सितं कामं सत्यमेतद्रवीमि ते । वस्त्रपुष्पार्चको विद्वान् जन्मजन्मान्तरेष्वपि ॥ सुवासा जायते सत्यं नानावस्त्रार्चिताकृतिः । तत्राप्युत्कृष्टवस्त्रैश्च नेत्रपट्टोलिकादिभिः ॥ नेत्रं परिधानीयवस्त्रम् । पट्टोलिका पट्टदुकूलम् । प्रभामण्डलमाच्छाद्य पट्टिकां च विशेषतः ॥ अर्चयेद्वस्त्रपुष्पैश्च सर्वान् कामानवाप्नुयात् । परं चैवापरं चैव पुष्पं प्रोक्तं यथातथा ॥
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि ।
वृक्षवल्यादिपुष्पाणां शृणु मे लक्षणं यथा । स्वयम्पतितपुष्पाणि कालातीतानि चैव हि ॥ मुक्त्वा भ्रमरमेकं तु प्राण्याघातानि यानि च । मुकुलात्प्रतिफुल्लानि कुरूपाण्यथवा तथा ॥ कुपात्रान्तरसंस्थानि कुत्सितस्थानजानि च ॥ वह्निकीटानि चान्यानि विशोभान्यशुभानि वै । एवं विधानि पुष्पाणि त्याज्यान्येव विचक्षणः ॥ विष्णुरहस्ये, न शुष्कैः पूजयेद्देवं कुसुमैन महीगतैः।। न विशीर्णदलैः स्पष्टै शुभै विकासिभिः ॥ पूतिगन्धीन्यगन्धीनि अम्लगन्धीनि वर्जयेत् । तथा, गन्धवन्त्यपवित्राणि उग्रगन्धीनि वर्जयेत् । गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम् ॥ गारुडे, चतुष्पथे शिवावासे श्मशानस्यापि मध्यतः । न गन्धफलपुष्पाचमाददीतार्चने बुधः ॥ विष्णुधर्मोत्तरे, न गृहे करवीरोत्थैः कुसुमैरर्चयेद्धरिम् । पतितैर्मुकुलैीनैश्चाम्लैर्वा जन्तुषितैः ॥ आघातैरङ्गसंस्पृष्टरुपितैश्चैव नार्चयेत् । गृहे करवीरोत्थैः गृहकरवीरजातरित्यर्थः । बन्धृककरवीरे तु न गृहे रोपयेत्कचित् । इति वामनोक्तेः, उपितैः पर्युषितैः । नथा.
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश नार्क नोन्मत्तकं काञ्चीं तथैव गिरिकर्णिकाम् । न कण्टकारिकापुष्पमच्युताय निवेदयेत् ।। कौटनं शाल्मलीपुष्पं शैरीषं च जनाईने । निवेदितं भयं शोकं निःस्वतां च प्रयच्छति ॥ निःस्वतां दारिद्यम् । करानीतं पटानीतमानीतं चार्कपत्रके । एरण्डपत्रेऽप्यानीतं तत्पुष्पं सकलं त्यजेत् ॥ करोऽत्र वामकरः । पटः अधोवस्त्रम् । अत एव, देवोपरिधृतं यच्च वामहस्ते च यद्धृतम् । अधोवस्त्रधृतं यच्च तत्पुष्पं परिवर्जयेत् ॥
विष्णुः,
नोग्रगन्धि पुष्पं नच कण्टकिजं कण्टकिजमपि शुक्लं मुगन्धिपत्रं दद्यात् । न रक्तं रक्तमपि जलजं कुङ्कुमजमपि दद्यात् ।
विष्णुधर्मोत्तरे, श्मशानचैत्यगुमजं भूमाववनिपातजम् । कलिका तु न दातव्या देवदेवस्य चक्रिणः॥
रक्तं करवीरपुष्पं तु पूर्वोदाहृतवचनबलाच्छिष्टाचाराच्च देयमेव ।
करवीरस्य पुष्पाणि तथा धत्तूरकस्य च । कृष्णं च कुटजं चार्क नैव देयं जनार्दने ।
इति यद्वाक्यं तत् गृहोत्थकरवीरविषयम् तस्य पूर्वोदाहृतवाक्यनिषेधात् ।
गन्धोत्कटानि शुभ्राणि दीप्तिदीधितिमन्ति च । घनच्छन्नदलाग्राणि घनकेसरकाणि च ।।
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि ।
मधुमन्त्यविकीर्णानि स्वकालाहतकानि च । शुभपात्रान्तरस्थानि शुचिहस्ताहतानि च । गन्धवन्ति मनोहारिकान्तिकान्तानि यानि वै । पुष्पाणां लक्षणं प्रोक्तं हेयोपादानवर्मना । फलानामथ पत्राणां हेयोपादानलक्षणम् । शृणु तत्रैव वक्ष्यामि यथातथ्यफलाप्तये ॥ विहितानि फलान्येव निर्बणानि मृदूनि च । शुभवीजानि रम्याणि फलान्युक्तानि पूजने ॥ पत्रिका च शुभा रम्या कोमलाऽमलरूपिणी । कृमिकेशपतङ्गादिदोषानुपहताऽऽकृतिः ॥ शुभगन्धवती श्लक्ष्णा पत्रिका पापहारिणी । वैष्णवान्यपि पुष्पाणि संक्षेपेण निबोध मे ॥ रक्तोत्पलशतेनापि यत्फलं पूजिते नृणाम् । श्वेतोत्पलेन चैकेन तत्फलं समवाप्नुयात् ॥ श्वेतानामेकलक्षेण यत्फलं पूजिते भवेत् । नीलोत्पलेन चैकेन तत्फलं समवाप्नुयात् ।। नीलोत्पलायुतानां तु लक्षकोठ्ययुतायुतैः । समर्चिते हृषीकेशे यत्फलं देहिनां भवेत् ।। तत्फलं समवामोति पझेनैकेन पूजकः । किमन्यैबहुभिः पुष्प वेधैर्वान्नसाधनैः ।। पद्मनैकेन संपूज्य कृष्णं विष्णुपुरं व्रजेत् । अवशेनापि चैकेन पझेन मधुसूदनम् । यदा तदापि वाऽभ्यर्च्य नरो विष्णुपुरीं व्रजेत् । एकया वापि केतक्या यदा संपूज्यते हरिः ।। पूजितो द्वादशाब्देन केशवस्तेन निश्चितम् ।
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
करवीरकपुष्पेण रक्तेनाथ सितेन वा । मुचुकुन्दस्य चैकेन संपूज्य गरुडध्वजम् ॥ यावचन्द्र सूर्यश्च स्वर्ग भुक्त्वा ततः पुनः । पुरीं नारायणीं याति सत्यमेतन्मयोदितम् || जातिभिर्मल्लिकाभिश्च पुन्नागैर्नागचम्पकैः । अकाले चाप्यभक्त्या च तथैवामन्त्रपूर्वकम् ॥ श्रीपतिं सकृदभ्यर्च्य श्रियं पूर्णामवाप्नुयात् । चम्पकैर्नन्दिकावर्तैः कुन्दैश्चैव कुरण्टकैः ॥ बाणैश्व शतपत्रैश्च माधवैः कुसुमैस्तथा । अकाले वाप्यभक्त्या वा तथैवामन्त्रपूर्वकम् ॥ संपूजितो नृणां विष्णुः सर्वान् कामान् प्रयच्छति । किंपुनर्भक्तिपूर्व तु मन्त्रपूतं सनातनम् । अर्चयन् कुसुमैरेतैर्मुक्तिभागी भवेन्नरः । यो जपाकुसुमैकेन नारसिंहमथापरम् ॥ जलशायिनमभ्यर्च्य सर्वान् कामानवाप्नुयात् ॥ मालतीकुसुमैश्वान्यैः कुसुमैः कुटजोद्भवैः । नारायणं समभ्यर्च्य परं स्वर्गे महीयते ॥ कर्णिकारमयैः पुष्पैर्वकुलैः केसरैः शुभैः । गोकर्णनामकर्णानां कुसुमैश्व सुगन्धिभिः ॥ कहारैश्च तथा कुन्दैः कदम्बैरर्जुनैस्तथा । सकृदभ्यर्च्य संपूज्य सर्वान् कामानवाप्नुयात् ॥ एवं पुष्पाणि देवेन्द्र संक्षेपेणोदिता नि वै । वैष्णवानि प्रसिद्धानि पुष्पाण्यन्यानि मे शृणु ॥ यानि यानि च रम्याणि गन्धवन्त्यमलानि च । वन्यानि च शुभान्येवमन्यान्यभिनवानि च ॥
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि ।
मनोहारीणि शुद्धानि कुसुमान्युत्कटानि वै । याभिश्च पत्रिकाभिश्च पूजितो यत्फलप्रदः ॥ ताः समासेन वक्ष्यामि पत्रिका हरितोषिकाः । आद्या तु तुलसीपत्री तथा संपूजितो हरिः ॥ सकृन्मन्त्रेण देवेन्द्र सर्वदा पूजितो भवेत् । यत्र यत्र भवेदिन्द्र तुलसीपत्रिका शुभा । तत्र तत्र स्थितो विष्णुर्मुक्तये पुरुषस्य वै । अष्टोत्तरशतैः शुद्धैर्विल्वपत्रैर्जनार्दनम् || यस्तु पूजयते भक्त्या सोपि विष्णुपुरीं व्रजेत् ॥ शमीपत्रैः सकृत्पूज्य विष्णुं विश्वेश्वरं हरिम् । सर्वान् कामानवाप्नोति सत्यमेतन्मयोदितम् || दुर्वयाऽगस्त्यपत्रैश्र श्रीदेव्या विष्णुयोषिता ।। तमालैश्वाच्युतं पूज्य नरः पापात्प्रमुच्यते । येषां पुष्पाणि पत्राणि कथितानि मया तव ॥ तत्फलैश्चार्चयेद्विष्णुं विनैकं करवीरकम् । पनसैः कदलीभिश्च मातुलिङ्गैश्व दाडिमैः ॥ नाग्त्रैश्चैव जम्बीरैः पूर्वोक्तैर्नारिकेलकैः । सर्वधान्यौषधीभिश्च फलैश्वान्यैः सुशोभनैः ॥ पूजयेद्यो ऽच्युतं भक्त्या स वै मोक्षैकभाजनम् । एवं सङ्क्षेपतः प्रोक्तो वैष्णवः पुष्पसङ्ग्रहः ॥ एतैरेवोक्तपुष्पैर्यः स्रजो वृद्धा विचक्षणः । अर्चयेत्सकृदप्येवं स याति परमां गतिम् ॥
प्रतिमायाः प्रमाणेन मालामेतां सुपुण्यकाम् । आरोप्य निखिलैः पुष्पवन्द्यमानो दिवं व्रजेत् ॥ यः पुनः स्वयमुद्यानं कृत्वा पुष्पं तदुद्भवम् ।
For Private And Personal Use Only
६३
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
आदाय च सजो बद्धा ताभिर्देवं समर्चयेत् ॥ सर्वलोकेश्वरो भूत्वा ततो मुक्तिमवाप्नुयात् । तेन यागाः कृताः सर्वे दानानि निखिलानि वै ॥ देवताः पूजिताः सर्वोस्तीर्थानि निखिलानि वै । पुष्पोद्यानं कृतं येन हस्तमात्रमथापि वा ॥ नृत्यन्ति सकला देवा गायन्ति हर्षसङ्कुलाः । क्रियमाणं शुभोद्यानं दृष्ट्वा सन्तोषगर्विताः ॥ प्रमादेनाथ भक्त्या वा लोभादम्भात्तथैव च । वितस्तिमात्रकं वापि हस्तमात्रमथापि वा ॥ उद्यानं स्थिरमुत्कृष्टं यः करोति कलौ युगे । किं तेन न कृतं पुण्यमश्वमेधादिसंज्ञितम् ।। यावदुद्यानभूमिश्च यावचन्द्रदिवाकरौ । तावत्तत्पितरः स्वर्गे मोदन्ते देवराडिव ॥ तेऽपि दूता यमस्यान्ते दृष्ट्वैवाधानकारकम् । नित्यं दूरात्पलायन्ते तमो भानुकरादिव ।। तस्माद्बुद्धिमता कार्य मानुष्ये जन्म भाजिना। वित्तानुरूपमुद्यानं कृत्वा मुक्तिमवाप्नुयात् ।। योऽपि दुरात्समाहृत्य सुपुष्पाणि च पत्रिकाम् । महारथं समुद्राह्य पूजयेद्देवतां बुधः ।। सर्वपापक्षयस्तस्य तत्क्षणादेव जायते । जीवन् कामान् प्रभुज्येह मृतो मुक्तिमवाप्नुयात् ।। पुनर्जन्मनि सम्भूतो यदि तां भुवमश्नुते । पुष्पाणि तत्फलं चैव यथा यस्य तु यद्भवेत् ।। तत्सर्व तेऽधुना प्रोक्तं यथाशास्त्रविनिश्चयम् । केषांचिदपि पुष्पाणां शृण निर्माल्यताविधिम् ॥
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि। अहोरात्रं न निर्माल्यं पालाशं ब्रह्ममूर्धनि । कैतकं चैव हीबेरं सुगन्धोत्पलमेव च ॥ त्रिकालोत्थितमन्यद्वा पुष्पजातं मुरार्चितम् । निजगन्धक्षयं यावन्नास्ति तेषां सुराधिप । शङ्करेण विना तेषु सर्वदैव स्थितेष्वपि । नास्ति निर्माल्यता तेषां तावदित्याह भागुरिः॥
हीबेरं मुंडिवालेति कार्णाटकभषया । महाराष्ट्रभाषया करमाल ।
तथा,
जम्बूजम्बीरखर्जूरबीजपूराम्रसंभवम् । वदर्यामलनारङ्गदाडिमं पनसोद्भवम् ।। कदलीनालिकेरोत्थं तथा च लकुचोद्भवम् । फलं प्रशस्तमुद्दिष्टं विष्णुपूजाविधौ बुधैः ।। मन्त्रिपत्रं दमनकं तमालो बर्बरी तथा । अपामार्गमतिश्रेष्ठं पत्रं विष्ण्ववर्चने सदा ॥ न द्रोणैरर्चयेत्सिहं मनसापि सदा बुधः । सिंहम् नृसिंहम् । स्वर्णपुष्पादशगुणमखण्डं बिल्वपत्रकम् । अखण्डैबिल्वपत्रैस्तु नृसिंहं यः प्रपूजयेत् ॥ सप्तजन्मकृतं पापं क्षिप्रमेव विनश्यति । पुष्पाभावे फलं शस्तं फलाभावे तु पल्लवम् ॥ पल्लवस्याप्यभावे तु सलिलं ग्राह्यमिष्यते । पुष्पाद्यसंभवे देवं पूजयेत्सिततण्डुलैः ॥ व्रीहिभिर्वा यवैर्वापि तिलैः कृष्णैर्विशेषतः। यद्वा पर्युषितश्चापि पुष्पाद्यैरविकारिभिः ॥
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatith.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश गन्धोदकेन वास्त्रेण त्रिः प्रोक्ष्यैव प्रपूजयेत् । स्कन्दपुराणे, कदम्बकुलुमैहृद्यर्य यजन्ते जनार्दनम् । तेषां यमालयो नैव प्रसादाचक्रपाणिनः ।। येऽर्चसन्ति शमीपत्रैः प्रमादेनापि केशवम् । से प्रसन्ने हृषीकेशे नरा यान्ति परां गतिम् ।। हरि भृङ्गरजेनापि येऽर्चयन्ति सुरेश्वरम् । अपि युक्ता जरारोगैनरा यान्ति हरेः पदम् ।। योऽर्चयति तमालस्य पत्रैः पापहरं हरिम् । धूतपाप्माऽच्युतावासं प्रयाति सुकृती नरः ।। वीरूषां तु प्रबालेन वर्हिपा चार्चयेत्सदा । नानारूपैश्चाम्बुभवैः कमलेन्दीवरादिभिः ॥ प्रयालैः शुचिभिः श्लक्ष्णैर्जलपक्षालितैर्वले । वनस्पतीनामचेयेत् तथा दुर्वाग्रपल्लवैः ॥ इति । विष्णुधर्मोत्तरे, भृङ्गराजस्य विल्वस्य बकपुष्पस्य च द्विजाः । जम्ब्वाम्रबीजपूराणां पत्राणि विनिवेदयेत् ।। फलानि च सुगन्धीनि पर्णानि सुमृदूनि च । तेन पुण्यमवामोति पुष्पदानसमुद्भवम् ।। सुगन्धैमल्लिकापुष्पैरर्चयित्वाऽच्युतं नरः । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ योऽर्चयेत्पाटलापुष्पैः सर्वपापहरं हरिम् । स तु पुण्यतरं स्थानं वैष्णवं लभते नरः ।। अतिरक्तैर्महापुण्यैः कुसुम्भैः करवीरकैः। अर्चयिन्वाऽच्युतं याति यत्राम्ते गरुडध्वजः ।।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि! . ६७ गन्धाढ्यैर्निर्मलैवन्यैः कुसुमैः कुब्जकोद्भवैः । भक्त्याभ्यर्च्य हृषीकेशं श्वेतद्वीपे वसेन्नरः ।। शुभ्राशुभैर्महागन्धैः कुसुमैः पङ्कजोत्पलैः । अधोक्षजं समभ्यर्य नरो याति हरेः पदम् ।। रत्नावल्याम्, जलजानां च सर्वेषां पत्राणामहतस्य च । कुशपुष्पस्य रजतसुवर्णकृतयोस्तथा ॥ न पर्युषितदोषोऽस्ति तीर्थतोयस्य चैवहि । मुकुलैर्नार्चयेद्देवं चम्पकैलजैविना ॥ .. इति । तत्र प्रबालमुक्तादिपुष्पैरभ्यर्च्य केशवम् । .. सर्वपापविनिर्मुक्तो मुक्तो भवति मानवः । कदम्बमल्लिकाकुन्दमालत्युत्पलजातिभिः । बकुलाशोकपुन्नागकेतकरतिमुक्तकैः ॥ कुब्जचम्पकपुष्पैश्च रक्तपुष्पैश्च यो हरिम् । अर्चयेद्दशसौवर्णफलं प्रत्येकमाप्नुयात् ॥ योऽर्चयेद्विधिवद्भक्त्या विष्णु नीलोत्पलैः शुभैः ।। नागचम्पकपुबागमल्लिकाकुसुमैर्हरिम् ।। सकदभ्यर्चयेत् भक्त्या पूर्णा श्रियमवाप्नुयात् । सुपर्णपुष्पमालाभी राजसूयफलं लभेत् ॥ जातीपुष्पशतैर्मालां केशवाय निवेदयेत् । धेनुदानसहस्रेण फलं मामोत्यसंचयम् । मालां दद्यान्माधवाय जातीपुष्पसहस्रकैः। कल्पकोटिसहस्त्राणि विष्णुलोके महीयते ॥ मालतीकल्पितां मालामीषद्विकसितो हरेः। दत्त्वा शिरसि विप्रेन्द्र वाजिमेधायुतं फलम् ॥
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६८
www. kobatirth.org
वीरमित्रोदयस्य पूजाप्रकाश
फलेष्वामलकं श्रेष्ठं जम्बूबदरिकाफलम् । दाडिमं मातुलिङ्गं च जम्बीरं पनसोद्भवम् ।। कदलीचूतखर्जूरनारिकेलकपित्थकम् । नित्यं प्रशस्तमुद्दिष्टं विष्णुपूजाविधौ बुधैः ॥ अतिपकमपर्क च फलं सम्परिवर्जयेत् । अपकमपिच ग्राह्यं कदलीफलमुत्तमम् ॥ मञ्जरीं सहकारस्य केशवोपरि नारद । ये यच्छन्ति महाभागा गोकोटिफलभागिनः ॥ यवगोधूममाषाश्च व्रीहयः कुशसर्षपाः । तिलश्यामाकनीवारा ग्रामारण्याश्च वैष्णवाः ॥ औषध्य एता निर्दिष्टा विष्णुमेताभिरर्चयेत् । पत्र पुष्पं फलं तोयं भक्त्या देयं जनार्दने || तेन लोकानवाप्रोति भक्तिरेवात्र कारणम् । अहिंसः सत्यवादी च दृढभक्तिर्जितेन्द्रियः ॥ यैरेवाभ्यर्चयेद्विष्णुं पुष्पैस्तैरेव मुक्तिभाक् ॥ हारीतः,
णादिविधानात् ।
Acharya Shri Kailassagarsuri Gyanmandir
स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत् ॥
स्नानमत्र प्रातः स्नानातिरिक्तं प्रातः स्नानोत्तरं पुष्पाहर
तवसागरसंहितायाम्,
वर्जनीयानि यानि स्युस्तानि मे शृणु चक्रिणः । विरिकर्णिकापुष्पाणि पुष्पाण्यर्कस्य चैवहि ||
धत्तरस्य च पुष्पाणि कुटजस्य तथैवच । एरण्डकारिकापुष्पं शाल्मलीकुसुमं तथा ।
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि । शिरीषस्य च पुष्पाणि शैवान्यन्यानि यानि च । एतानि वर्जितान्येव विष्णुमेतैर्न पूजयेत् ॥ विष्णुरहस्ये, यैरनच्यस्त्रिलोकेशमर्चयन्ति जनार्दनम् । तेभ्यः क्रुद्धः क्षयं दुःखं क्रोधाद्विष्णुः प्रयच्छति ॥ उन्मत्तकेन ये मूढाः पूजयन्ति त्रिविक्रमम् । उन्मादं दारुणं तेषां ददाति गरुडध्वजः ।। कोशातक्यकंधत्तूरशाल्मलीगिरिकर्णिका । कपित्थलाङ्गुलीशिशुकोविदारशिरीषकैः ॥ अज्ञानात्पूजयेद्विष्णुं नरो नरकमाप्नुयात् । अर्कपुष्पैर्विनाशः स्यादत्तूरैर्मतिविभ्रमः ॥ कोविदारैस्तु दारिद्यं गिरिका कुलक्षयः । कण्टकारिकया शोकः कुटजैर्दुःखसङ्गमः ।। शाल्मलीकुसुमारोपे स्वपापैरनुलिप्यते । न्यग्रोधोदुम्बरप्लक्षसपिप्पलकपीतनैः ॥ कोविदारैश्च तत्पत्र व विष्णुं प्रपूजयेत् । विहितप्रतिषिद्वैस्तु विहितालाभतोऽर्चयेत् ॥ इति ।
विहितालाभत इति अप्रतिषिद्धविहितालाभे विहितपतिविद्धैरर्चयेदित्यनुकल्पः । विहितालाभे अप्रतिषिद्धानामनुकल्पो द्रष्टव्यः ।
स्मृत्यर्थसारे, समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत् । शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः ॥
अत्र क्रयक्रीतैः अन्यायोपार्जितधनक्रीतैः । पूर्वग्रन्थे न्यायार्जितधनकीतैः पुष्पैरभ्यर्चयेदिति न्यायपदोपादानादयम:
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे ऽवगम्यते । यद्वा विहितप्रतिषिद्धत्वात्पोडशिग्रहणाग्रहणवद्वि कल्पः ।
प्रातरुत्थाय चिनुयात्स्वारामात्स्वयमेव हि । पूजार्थमस्त्रमन्त्रेण पुष्पादीन् प्रयतः सदा ॥
अत्र प्रातर्वचनं अष्टधाविभक्तस्याऽह्नो द्वितीयभागोपलक्ष. णार्थम् ।
अत एव दक्षः, समित्पुष्पकुशादीनां द्वितीयः परिकीर्तितः । इति । यायादरण्यमथवा संवादरहितं शुभम् । विधिनैव गृहीतैस्तु दभैर्वा प्रोक्षितैः सदा ॥ शुद्धरेव यजेयत्नान्नच चौर्यादुपाहतैः । अस्वामिकवनानीतं स्वीकृतं विक्रयेण च ॥ फलेत देवपूजायां निष्फलं याचितं तु यत् । क्रीतं शिष्यादिनानीत पुष्पं पूजार्थमुच्यते ॥ प्रक्षाल्य पाणी पादौ च आचम्य च कृताञ्जलिः । पादपाभिमुखो भूत्वा प्रणवादिनमोन्तकम् ॥ विसृज्य पुष्पमेकं तु वाचा वरुणमुच्चरेत् । व्योमाय च पृथिव्यै च द्वित्रिपुष्पं यथाक्रमम् ॥
विसृजेदिति शेषः । अत्रैवं प्रयोगः । ॐवरुणाय नमः । ॐव्योमाय नमः । ॐपृथिव्यै नमः । वरुणशब्दे यद्यपि चतुर्थी नास्ति तथापि नमसो योगात्, व्योमादिपदद्वये तदर्शनाचतुर्थ्याः प्रयोगः । व्योमायेति छान्दसम् ।
पूर्व पूर्वमुखो भूत्वा पुष्पं संचिनुयाच्छुभम् । तत्र मन्त्रः माऽनुशोकं कुरुष्व त्वं स्थानत्यागं च मा कुरु ।
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि । देवतापूजनार्थाय प्रार्थयामि वनस्पते ॥ स्थलजं नोद्धरेत्पुष्पं छेदयेजलजं न तु । उच्छिष्टाद्यैरुपहतं केशकीटादिसंयुतम् ।। अगन्धमुग्रगन्धं च हीनवर्णरसादिकम् । शुष्कं विशीर्ण भूयुक्तं म्लानमन्योपभुक्तकम् ।। कृष्णं पर्युषितं पुष्पं त्यजेदन्यार्थमाहृतम् । वृन्तच्युतं च मुकुलं फलयुक्तमदेशजम् ।। तथा, देवा वृक्षस्वरूपेण जातास्ते मत्सरान्विताः । तेषां परस्परं वैरं तत्पुष्पं तेषु निन्दितम् ।। यमो निहन्ता सर्वासां प्रजानां ब्राह्मणामपि । ( ? ) तस्मात्तत्कुसुमं सर्वदेवानामप्रियं मतम् ॥ यमो विभीतक इति वोपदेवोऽव्याख्यत् । दन्तपातभयत्रस्तः पूषा वैरपरः सदा । देवीपत्रोद्भवं पत्रं सूर्ये दुःखप्रदायकम् ।। बिल्वपत्रेण सूर्यो नार्यः। बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य च । तमालपत्रं च हरे सदैव तपनप्रियम् । अत्र सूर्ये बिल्वपत्रस्य विहितप्रतिषिद्धत्वाद्विकल्पः । तापोन्मादकरं द्रव्यं सात्त्विकानां हितं नहि । बस्मात्स्वर्णरवी नेष्टौ स्वर्णश्रीविभवे सुरे ॥ विष्णुं धत्तुराकपुष्पाभ्यां नार्चयेदित्यर्थः । शेपतल्पे शयानस्य तच्छ्वासोच्छ्वाससङ्गमात् । सन्तप्तो विग्रहस्तस्य तच्छान्त्यै पङ्कजं प्रियम् ॥ अनुक्तकुसुमं दत्वा दौर्भाग्यं समवाप्नुयात् ।
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७२
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
लोकविद्विष्टपुष्पैश्र लोकविद्वेषतां व्रजेत् ॥ उक्तं न दुष्यते कञ्जं कुसुमं चानुलेपनम् । मूर्त्तिभेदे तथा काम्ये रक्तादीनां न दुषणम् ॥ बिल्वं च तुलसीपत्रं बकुलं शुष्कमेव वा । यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ।। तानि पुष्पाणि देवानां पूजार्हाणि यथाविधि । पुष्पं वस्त्रे न बनीयाच्छिरसा न वहेद्बुधः ॥ नयेत्पत्रपुटेनैव पाणिमालम्ब्य संयतः । इति । आश्वलायनाचार्यः,
नाग्निना सह पुष्पं वा जलं चान्नं च वा नयेत् । असाभ्यां शिरसा वाग्नि न वहेच्च जलं तथा ॥ तथा गन्धांश्च पुष्पं च न वहेदोदनं द्विजः । इति पुष्पविधिः ॥ अथ धूपाः ।
धूपांश्च विविधान् साधूनसाधूंश्च निबोध मे । निर्यासाः सारिणश्चैव कृत्रिमाश्चेति ते त्रयः ॥ इष्टोऽनिष्टो भवेद्गन्धस्तन्मे निगदतः शृणु । निर्यासाः शल्लकीवर्जा देवानां दयिताश्च ते ॥ गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्वयः ॥ अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् । दैत्यानां शल्लकीयश्च काङ्क्षितो यश्च तद्विधः ॥ अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः । दारवै रससंयुक्तैर्मनुष्याणां विधीयते ॥ देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः । य एवोक्ताः सुमनसः प्रसादे गुणहेतवः ॥
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोधूपाः। युपेष्वपि परिज्ञयास्त एव प्रीतिवर्धनाः ॥ इति । वामनपुराणे, रुहिकाख्यं कणो दारु सिहकं चागुरु सितम् । शङ्खो जातीफलं श्रीशे धृपानि स्युः प्रियाणि वै ॥ रूहिका मांसी । कणो गुग्गुलुः । दारुः देवदारुः ।
सितं कर्पूरम् । शङ्खो नखी। धूपानीति बहुवचतात् प्रत्येक धूपत्वमेषाम् ।
नरसिंहपुराण, महिषाख्यं गुग्गुलं य आज्यसिक्तं सशर्करम् । धूपं ददाति राजेन्द्र नरसिंहाय भक्तिमान् ॥ स धूपितः सर्वदिक्षु सर्वपापविवर्जितः । अप्सरोगणयुक्तेन विमानेन विराजता । वायुलोकं समासाद्य विष्णुलोके महीयते ॥ विष्णुधर्मोत्तरे, वसन्ते गुग्गुलं दत्त्वा अग्निष्टोमफलं लभेत । ग्रीष्मे चन्दनसारेण द्वादशाहफलं लभेत् ॥ तुरुष्कदानेन तथा प्रादृष्यमरतां व्रजेत् । कर्पूरदानाच्छरदि राजसूयमवाप्नुयात् ।। हेमन्ते मृगदर्पण वाजिमेधफलं लभेत् । शिशिरेऽगुरुसारेण सर्वमेधफलं लभेत् ।। कृष्णागुरुसमुत्थेन धृपेन श्रीधरालयम् । धृपयेद्वैष्णवो यस्तु स मुक्तो नरकार्णवात् ।। गौतमः, तीर्थकोटिशतैर्मयों यथा भवति निर्मलः । करोति निर्मलं देहं धूपशेषस्तथा हरेः॥
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश
नारदीये, आघ्राणं यद्धरेर्दत्तं धूपोत्सृष्टस्य सर्वतः । तद्भवव्यालदष्टस्य तस्य कर्मविपापहम् ॥ नारदीये, शशोदकं हरेर्युक्तं निर्माल्यं पादयोर्जलम् । चन्दनं धूपशेषस्तु ब्रह्महत्यापहारकम् ॥ धूपं वाऽऽरात्रिकं विष्णोः कराभ्यां यः प्रवन्दते । कुलकोटि समुदृत्य याति विष्णोः परं पदम् ।। तथा, न भयं विद्यते तस्य दिव्यं भौमं रसातलम् । कृष्णधूपावशेषेणे यस्याङ्गं परिवासितम् ॥ इति । अथ दीपाः। दीपदाने प्रवक्ष्यामि ज्ञानयोगमनुत्तमम् ।। यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥ ज्योतिस्तेजः प्रकाशं वाप्यूर्ध्वगं चापि वर्ण्यते । प्रदानोत्तेजनात्तस्मात्तेजो वर्धयते नृणाम् ॥ तान् दत्त्वा नोपहिंसेत न हरेनापि नाशयेत् । दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः॥ तथा, हविषा प्रथमः कल्पो द्वितीयश्चौपधीरसैः । वसामेदोऽस्थिनिर्यासन कार्यः पुष्टिमिच्छता ।। गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे । दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥ विष्णुः, घृतं तिलतैलं विना न किंचन दीपार्थे दद्यात् । इति ।
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
विष्णोदपाः ।
नरसिंहपुराणे,
घृतेन वाथ तैलेन दीपं यो ज्वालयेन्नरः । विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु ॥ विहाय सकलं पापं सहस्रादित्यसन्निभः । ज्योतिष्मता विमानेन विष्णुलोके महीयते ॥ विष्णुधर्मोत्तरे,
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्वल्य देवदेवस्य कर्पूरेण च दीपकम् । अश्वमेधमवाप्नोति कुलकोटिं समुद्धरेत् ॥ संवर्त्तः,
देवागारे द्विजानां च दीपं दत्त्वा चतुष्पथे । मेधावी ज्ञानसंपन्नचक्षुष्मान् जायते नरः ॥ स्कान्दे,
कर्पूरेण तु यः कुर्याद्भक्त्या केशवमूर्धनि । आरात्रिकं मुनिश्रेष्ठ प्रविशेद्विष्णुमव्ययम् ॥ बहुवर्त्तिसमायुक्तं ज्वलितं केशवोपरि । कुर्यादारात्रिकं यस्तु कल्पकोटिं दिवं वसेत् ॥ घृतेन दीपं यो दद्याच्छङ्करायाथ विष्णवे । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ तिलतैलान्वितं दीपं विष्णोर्वा शङ्करस्य च । दत्त्वा नरः सर्वकामान् संप्राप्नोति नरोत्तमः || विष्णुधर्मोत्तरे,
पद्मपत्रोद्भवं वर्त्तिं गन्धतैलेन दीपकम् । कुर्वन्निति शेषः ।
नीरोगः सुभगश्चैव राजा भवति मानवः ।। महावर्त्तिः सदा देया भूमिपाल महाफला ।
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश
कृष्णपक्षे विशेषेण तत्रापि च विशेषतः ॥ अमावास्या च निर्दिष्टा द्वादशी च महाफला । आश्वयुज्यामतीतायां कृष्णपक्षे च या भवेत् ।। अमावास्या तदा पुण्या द्वादशी च विशेषः । देवस्य दक्षिणे पायें देया तैलतुला नृप । पलाष्टकयुतां राजन् वर्ति तत्र तु दापयेत् । महारजनरक्तेन समग्रेण तु वाससा॥ पलाष्टकयुता तैलतुला अष्टोत्तरं शतम् । तैलपलानामिति शेषः । वामपार्श्वे तु देवस्य या घृतेन तुला नृप ॥ पलाष्टकयुतां शुक्लां वर्ति तत्र तु दापयेत् । वाससा तु समग्रेण सोपवासो जितेन्द्रियः ॥ महावर्तिद्वयमिदं सकृद्दत्त्वा महामते । स्वर्लोकं मुचिरं भुत्का जायते भूतले नृपः ॥ कुले च राजशार्दूल तत्र स्यादीपवत्मभः । अत्युज्वलश्च भवति युद्धेषु कलहेषु च ॥ ख्याति याति तथा लोके सज्जनानां च संसदि । एकमप्यथ यो दद्यादभीष्टमनयोयोः ॥ मानुष्ये सर्वमाप्नोति यदुक्तं ते मयाऽनघ । स्वर्गे तथात्वमाप्नोति भोगकालं च भूमिप ॥ स्कान्दे, नीराजनप्रभा विष्णोर्येषां गात्राणि संस्पृशेत् । यज्ञावभृथलक्षाणां स्नान लभते फलम् ॥ स्नानार्चनक्रियाकाले घण्टानादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु ॥
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोनैवेद्यम् ।
वर्षकोटिसहस्राणि वर्षकोटिशतानि च । वसते देवलोकेषु अप्सरोगणसेवितः ॥ सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया । वादनाल्लभते पुण्यं यज्ञकोटिशतोद्भवम् ॥ मन्वन्तरसहस्राणि मन्वन्तरशतानि च । घण्टानादेन देवश्च प्रीतो भवति केशवः ।। वेणुवीणास्वनं चैवं करोति स्तवनं हरेः । मृदङ्गवादनयुतं प्रणवेन समन्वितम् ॥ अर्चनं वासुदेवस्य तन्नित्यं मोददं नृणाम् । दीपनिर्वापणनिषेधश्च भविष्ये, तांश्च दत्त्वा न हिंसेत तिलतैलविवर्जनात् । कुरूपो दीपहन्ता च मूषकोऽन्धश्च जायते ॥ अन्धे तमसि दुष्पारे नरके पच्यते किल । इति । इति दीपाः ।
अथ नैवेद्यम् । तत्र विष्णुः, साज्यशाल्योदनपायसखण्डलड्डुकपकफलमूलशाकमृणालव्रीहिमाषमुद्गगवेधुकगव्यपयोदधिघृतादीनि ।
देयानीति शेषः। नरसिंहपुराणे, हविष्यानोदकं दिव्यमाज्ययुक्तं सशर्करम् । निवेद्य नरसिंहाय यावकं पायसं तथा ॥ समास्तण्डुलसङ्ख्याता यावत्यस्तावतीनृप । विष्णुलोके महाभोगान् भुअन्नास्ते स वैष्णवः ॥ बृहन्नारदीये, हविः शाल्योदनं दिव्यमाज्ययुक्तं सशर्करम् ।
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७८
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजा प्रकाशे
नैवेद्यं देवदेवाय विष्णवे विनिवेदयेत् ॥ संस्कृतं चान्नमाज्याद्यैर्दधिक्षीरमधूनि च । फलमूलव्यञ्जनादि मोदकं च निवेदयेत् ॥ तथा,
दुग्धान्नं पूपकं चैव शष्कुली मोदकं तथा । सूपानं पायसाद्यं च भक्ष्यं श्रीकृष्णवल्लभम् || वामनपुराणे,
हविष्यार्थं कृता ये च पवगोधूमशालयः । तिलमुद्रादयो माषा व्रीहयश्च प्रिया हरेः ॥
भारद्वाजः, परमान्नमतिश्रेष्ठं श्रेष्ठमन्नं तु केवलम् । अपूपा मण्डकाद्यास्तु यवगोधूमपिष्टजाः ॥ मोदकाद्यास्तु ये केचित् व्रीहिपिष्टघृतस्नुताः । तेऽधमा इत्यभिहिता नैवेद्यपरिकल्पने ॥ विष्णुधर्मोत्तरे,
मूलकस्य तथा शाकं चिञ्चाशाकं तथैव च । आर्द्रकस्य तथा शाकं पालकं शाकमेव च ॥ आम्ललोलस्य शाकं च सदैव हरिवभल्लम् । फलेवामलकं पूज्यं बादरं तिन्तिडीफलम् ॥ दाडिमी मातुलुङ्गं च बीजपूर रसोद्भवम् । कदली चूतसम्भूतं ज्येष्ठजम्बूफलं तथा ॥ अन्यान्यपि प्रशस्तानि भक्तियुक्तानि सर्वदा । वाराहे,
कलिङ्गस्य फलं चैव द्विविधा कर्कटी तथा । खर्जूरान पनसांचैव विल्वाञ्जीर परूपकम् ।।
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णानैवेद्यम् ।
आक्षोटोदुम्बरं तालं जातीङ्गुदफलं तथा । कालिन्दकं फलं चैव बृहतीफलमेव च ॥ उभयानि पटोलानि कुमुदस्य फलं तथा । मूलकं माफलं चैव करमर्दफलं तथा ॥ कर्मण्यं च फलं ह्येतत् प्रतिगृह्णामि माधवि । मोचकं पनसं जम्बू तथाऽन्यल्लवलीफलम् ॥ प्राचीनामलकं श्रेष्ठं मधूकोदुम्बरं तथा । फलं पक्कमपि ग्राह्यं कदलीफलमुत्तमम् ।। प्राचीनामलकं करमर्दः । इङ्गुदीफलबिम्बानि बदरामलकानि च । खर्जूरान् पनसश्चैिव मालकार्कपरूपकान् ॥ आम्रानुदुम्बरांश्चैव तथा प्लक्षफलानि च । पिण्डारकफलं चैव पुन्नागफलमेव च ॥ शमी च करवीरं च बीजपूरफलं तथा । उर्वारुकफलं चैव तथा निम्बफलानि च ॥ सर्ज कर्कोटकं चैव तथा तालफलानि च । कुमुदस्य फलं चैव बहेलकफलं तथा ॥ मृणालं पुष्करं चैव शालूकस्य फलं तथा । प्लक्षं च दाडिमं चैव पिण्डखजूरमेव च ॥ मरीचं शिशुपाकं च भल्लातं करमर्दकम् । एते चान्ये च बहवः कन्दमूलफलानि च ॥ एतानि चोपयोज्यानि यान्युक्तानि मया च ते । फलानामप्यलाभे तु तृणगुल्मौषधीरपि ॥
औपधीनामलाभे तु तोयान्यपि निवेदयेत् । तदलाभे तु सर्वत्र मानसं प्रवरं स्मृतम् ॥
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८०
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे । दत्त्वा तु तत्पदं याति चत्वारिंशत्कुलान्वितः ॥ बौधायनः,
पयसा वत्सरं तृप्तिर्धृतपकैर्दशाब्दिकी । दना चैव शतार्द्धं च घृतेन शतवत्सरम् ॥ नैवेद्यं कल्पयेोद्विष्णोस्तदभावे तु पायसम् । केवलं घृतसम्पृक्तं पायसं च प्रकल्पयेत् ॥ परिपकं सुपात्रस्थं सुगन्धि नयनप्रियम् । सद्यस्कमेतत्रितयं नैवेद्येऽतिशुभप्रदम् ॥ सद्यस्कं तत्कालपक्कम् | कदलीनारिकेलानां पनसानां फलानि च । जम्बूफलेक्षुदण्डानि सुपक्कानि शुभानि च ॥ भक्ष्याणि यानि श्रेष्ठानि कन्दमूलफलानि च । नैवेद्ये तानि सर्वाणि दातव्यानीतराणि च ॥ मुद्रा निष्पावका माषास्तुवर्यवणका अपि । पञ्चैतेऽतिप्रशस्ताः स्युर्नैवेद्ये दोषवर्जिताः ॥ अथ नैवेद्ये निषिद्धानि । विष्णुः
नाभक्ष्यं नैवेद्यार्थे, भक्ष्येष्वपि पञ्चनखमत्स्यवाराहमांसानि मेषीमहिषीछागानां दुग्धदधिघृतान्यदेयानि ।
तथा वाराहपुराणम्,
अमरायोपयोज्यानि गव्यं दधि पयो घृतम् ।
माहिषं चाविकं छागमयज्ञियमुदाहृतम् ॥
कौमें,
वृन्ताकं जालिका शाकं कुसुम्भान् मालकं तथा ।
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोर्नैवेद्यपात्राणि ।
पलाण्डुं लशुनं शुक्तं निष्पावं चैव वर्जयेत् ॥ जालिका शतपुष्पा । शुक्तं पर्युषितम् । निष्पावनां वि
हितप्रतिषिद्धत्वात् विकल्पः ।
अतिपका अपक्काश्च दुःस्पृष्टा मण्डकादयः । नैवेद्ये तेऽप्ययोग्याः स्युमेदिकाद्याः पुरातनाः ॥ अतिपकमपकं च सुपकं कृमिसंयुतम् । दुर्भाण्डस्थमसयस्कं दुर्गन्धि न शुभं स्मृतम् ॥ हलायुधः,
यद्यथा भक्ष्यते भक्ष्यं तत्तथैव प्रदापयेत् । अन्यथा तत्प्रदानेन न तत्फलमवाप्नुयात् ॥ इति ।
यथा पाचनखण्डनप्रक्षालनादिना यस्यान्नादेर्भक्षार्हता भ वेत् तथा देवमित्यर्थः । अथवा यथा स्वयमुत्तमं भुज्यते तथा देवायापि देयम्, अन्यथा दोष इति ।
अथ प्रसङ्गान्नैवेद्यपात्राणि ।
स्कन्दपुराणे,
नैवेद्यपात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं राजतं कांस्यं ताम्रं मृन्मयमेव च ॥ पालाशं पद्मपत्रं वा पात्रं विष्णोरतिप्रियम् । वाराहे,
सौवर्ण राजतं कांस्यं येन दीयेत प्रायणम् । तानि सर्वाणि संत्यज्य ताम्रं तु मम रोचते ॥ सुदीक्षितैर्विशुद्धैस्तु मम कर्मपरायणैः । सदा ताम्रेण कर्त्तव्यमेवं भूमे मम प्रियम् ॥ प्रायणं नैवेद्यम् |
नैवेद्यं तुलसीमिश्रं घण्टाद्यैर्जयनिःस्वनैः ।
१९
For Private And Personal Use Only
८१
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे नीराजनैश्च हरये दद्यादापोशनं ततः ॥ स्कन्दपुराणे, मुनीन्द्रं करकोपेतं कुम्भं कृष्णाग्रतो न्यसेत् । कल्पान्ते न जलापेक्षां कुर्वन्ति च पितामहाः ।।
अथ नैवेद्यप्रतिपत्तिः। हरिनाथीयस्मृतिसारे, ब्रह्माङ्गलग्नं विप्रेभ्यो वैष्णवं च प्रदीयते । रुद्राङ्गलग्नमग्नौ तु दहेत्सर्वं च तत्क्षणात् ।। शिष्टेभ्यस्त्वथ देवेभ्यो यत्तत् दीनेषु निःक्षिपेत् ।। तथा, विप्रेभ्यस्त्वथ तद्देयं ब्रह्मणे यनिवेदितम् । वैष्णवं सात्वतेभ्यश्च भस्माङ्गेभ्यश्च शाम्भवम् । सौरं मगेभ्यः शाक्येभ्यस्तापिने यनिवेदितम् । स्त्रीभ्यश्च देयं मातृभ्यो यत्तु किञ्चिन्निवेदितम् ।। भूतप्रेतपिशाचेभ्यो यत्तद्दीनेषु निःक्षिपेत् । विष्णुरपि,
सूर्याय निवेदितं मगाय ब्रह्मणाय देयम् । देव्यै निवेदितं कुमार्यै देयम् । शिवाय निवेदितं तल्लिङ्गधारिणे देयम् । विष्णव निवेदितं सात्वताय देयं ब्राह्मणाय वा । इति ।
सात्वतलक्षणं ब्रह्माण्डे, पञ्चमः सात्वतो नाम विष्णोरायतनान्यपि । पूजयत्याज्ञया राज्ञो यदि स्यात्संयतेन्द्रियः ॥ इति ।
मगः शाकद्वीपीयो ब्राह्मणः । तापी बुद्धः। कचित्तिथ्यादौ बुद्धपूजा विहिता । मातृभ्य इति देवीमात्रोपलक्षणम् ।
स्कन्दपुराणे,
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोनैवेद्यप्रतिपत्तिः ।
नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन विष्णोः । योऽश्नाति नित्यं पुरुषोऽथ नारी प्रामोति यज्ञायुतकोटिपुण्यम् ॥
इति वचनात् विष्णुनिवेदितं सात्वताय ब्राह्मणाय वा दत्त्वा स्वयं भुञ्जीत । न च स्वयंग्रहणे दत्तापहारापत्तिरिति वाच्यम् । वचनेन प्रतिपत्तिविशेषविधाने दोषाभावात् । तद्यथा, वार्तिककारमते अग्नये त्यक्तस्य पुरोडाशस्य वचनेन स्विष्टकदादिप्रतिपत्तिस्तद्वत् ।
सात्वतासानिध्ये तु नैवेद्यप्रतिपत्यर्थ सात्वतश्चेन लभ्यते । ग्रासमात्रं समुद्धृत्य जलेऽग्नौ वा विनिःक्षिपेत् ॥ इति अनुकल्पो द्रष्टव्यः । इदं च प्रतिमादिपूजायाम् । स्था
वरपूजायां तु सात्वतेभ्य एव देयम् , तथाशिष्टाचारात् । स्वयं तदुपभोगस्य शिष्टाचारविरोधाच्च ।
विष्णुरहस्ये, यद्योनिरत्ति नैवेद्यं दातुश्चानवधानतः । दाता तयोनिमामोति तस्माद्देयं सदुत्तमे ॥
यत्र यत्र यस्य यस्य देवस्य नैवेद्यप्रतिपत्तिर्विहिता सा त. द्धीनेषु न कार्येत्यर्थः।
यद्वा सच्छब्देन सत्त्वमूर्तिर्भगवान् उपास्यतया विद्य. ते यस्य स सत्वान् सत्वानेव सात्वतः।
नैवेद्यनुपयुञ्जीत दत्त्वा तद्भक्तिशालिने । इति भागवतात्, निगेदितं तद्भक्ताय दद्यादभुञ्जीत वा स्वयम् ।
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रादयस्य पूजाप्रकाश अनर्पयित्वा गोविन्द यो भुते धर्मवर्जितः ।। शुनो विष्ठासमं चान्नं नीरं च सुरया समम् । इति कूर्मपुराणाच्च । ब्रह्माण्डपुराणे, पत्रं पुष्पं फलं तोयमन्नं पानीयमौषधम् । अनिवेद्य न भुञ्जीत यदाहाराय कल्पितम् ॥ गारुडे, पादोदकं पिवेनित्यं नैवेद्यं भक्षयेद्धरः । शेपा स्वमस्तके धार्या इति वेदानुशासनम् ॥ शेपा निर्माल्यम् । ब्रह्माण्डे, पद्भिर्मासोपवासैश्च यत्फलं परिकीर्तितम् । विष्णोनैवेद्यसिक्थान्नं भुञ्जतां तत्फलं भवेत् ॥ विष्णुधर्मोत्तरे, मुकुन्दाशितशेषं तु यो हि भुङ्क्ते दिने दिने । सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥ गौरी प्रति शिववाक्यम् अग्निष्टोमसहस्रैश्च वाजपेयशतैरपि । यत्फलं लभते देवि विष्णोनैवेद्यभक्षणात् ।। तत्फलं भवतीति शेषः । भागवतेऽपि, त्वयोपभुक्तनग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ बचपरिशिष्टे, पवित्रं विष्णुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् ।
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णानैवेद्यप्रतिपत्तिः।
अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत् ॥ विष्णुधर्मोत्तरे, प्राणेभ्यो जुहुयादन्नमनिवेदितमुत्तमम् । तृप्यन्ति सर्वदा प्राणा अनिवेदितभक्षणात् ॥ पाने गौतमः, अम्बरीप नवं वस्त्रं फलमन्नं रसादिकम् । कृत्वा कृष्णोपभोग्यं हि सदा सेव्यं च वैष्णवैः ॥ अनिवेद्य प्रभुञ्जानः प्रायश्चित्ती भवेन्नरः । हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः॥ पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः । मृत्युकाले तु यस्यास्ये दीयते पादयोर्जलम् ।। अपि पापसमाचारः स गच्छेद्वैष्णवं पदम् । तस्मात्सर्व निवेद्यैव विष्णोर्भुजीत नान्यथा ॥ कूर्मपुराणे, मध्याह्ने विधिवत्पूज्य श्रीविष्णुं वैष्णवोत्तमः । नैवेद्यं शिरसा नत्वा श्लोकमेतदुदीरयेत् ॥ यस्योच्छिष्टं हि वाञ्छन्ति ब्रह्माद्या ऋषयोऽमलाः । सिद्धाद्याश्च हरेस्तस्य वयमुच्छिष्टभोजिनः ॥ यस्य नाम्ना विनश्यन्ति महापातककोटयः । तस्य श्रीकृष्णदेवस्य वयमुच्छिष्टभोजिनः ।। उच्छिष्टभोजिनस्तस्य वयमद्भुतकर्मणः। येन लीलावतारेण हिरण्याक्षो निपातितः ॥ वैष्णवे दानमन्त्रःवलिविभीपणो भीष्मः कपिलो नारदार्जुनौ । प्रह्लादो जनको व्यास अम्बरीपस्तथैवच ॥
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८६
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
वैष्वक्सेनोद्धवाक्रूर सनकाद्याः शुकादयः । वासुदेवप्रसादं वै सर्वे गृह्णन्तु वैष्णवाः ॥ एवं प्रसङ्गागतमुक्त्वा अथ प्रकृतमनुसन्धीयते । अथ भुक्तवते दद्याज्जलैः कर्पूरवासितैः ॥ आचमनं तु ताम्बूलं चन्दनैः करमार्जनम् । अथ ताम्बूलविधिः ।
गन्धकर्पूरसंयुक्तं ताम्बूलं यो निवेदयेत् । विष्णवे भक्तियुक्तस्तु विष्णुलोके महीयते ॥ इति । रत्नकोशे,
महापिप्पलपत्रं च क्रमुकस्य फलानि च । शुक्तिक्षारेण संयुक्तं ताम्बूलमिति संज्ञितम् || श्वेतपत्रं च चूर्ण च क्रमुकाणां फलानि च । नारिकेलफलोपेतं मातुलुङ्गसमायुतम् ॥ एलाकङ्कोलकर्पूरैर्मुखवासं प्रचक्षते । एतेषामप्यलाभे तु तत्तद्रव्यं स्मरेद्बुधः ॥ तत्तद्द्रव्यं तु सङ्कल्प्य पुष्पैर्वापि समर्चयेत् । अर्चनेषु विहीनं यत्तत्तोयेन प्रकल्पयेत् ॥ इति । पूगजातीफले दत्त्वा जातीपत्रं तथैव च । लवङ्गकं च कङ्कोलमेला कटपलं तथा ॥ तांबूलीनां किसलयं दत्त्वा स्वर्गमवाप्नुयात् । सौभाग्यमतुलं लोके तथा रूपमनुत्तमम् ॥ अवाप्नुयादिति पूर्वेणान्वयः ।
इति ताम्बूलम् ।
अनुलिप्य जगन्नाथं तालवृन्तेन वीजयेत् । वायुलोकमवाप्नोति पुरुषस्तेन कर्मणा ||
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोरारात्रिकप्रदक्षिणानमस्काराः। ८७
चामरैर्वीजयेद्यस्तु देवदेवं जनार्दनम् । तिलप्रस्थप्रदानस्य फलं प्रामोत्यसंशयम् ॥ दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् । दर्शयित्वा तथा तं च न भूयस्त्वभिजायते ।।
अथ आरात्रिकम् । बहुवर्तिसमायुक्तं ज्वलन्तं केशवोपरि । कुर्यादारात्रिकं यस्तु कल्पकोटिं दिवं वसेत् ।। नीराजनं च यः पश्येदेवदेवस्य चक्रिणः । सप्तजन्म भवेद्विप्रो ह्यन्ते च परमं पदम् ।। कर्पूरेण च यः कुर्याद्भक्त्या केशवमूर्धनि । आरात्रिकं मुनिश्रेष्ठ प्रविशेत् विष्णुमव्ययम् ॥ मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं हरेः। सर्व संपूर्णतामेति कृते नीराजने हरेः ।। इति ।
अथ प्रदक्षिणानमस्काराः । एवं कृत्वा तु कृष्णस्य यः कुर्याच प्रदक्षिणाम् । सप्तद्वीपवतीपुण्यं लभते तु पदे पदे ॥ सप्तद्वीपवती पृथ्वी, तत्प्रदक्षिणाजनितपुण्यमित्यर्थः । विष्णोविमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणाम् ॥ अश्वमेधसहस्रस्य फलमानोति मानवः । नारदीये, विष्णुं प्रदक्षिणं कुर्वन् यत्तत्रावर्त्तते पुनः । तदेवावर्तनं तस्य पुनर्नावर्त्तते भवे ॥ यथा, एका चंड्यां रवौ सप्त तिस्रो दद्यात् विनायके । चततः केशवे दद्याच्छिवे त्वर्द्ध प्रदक्षिणम् ॥
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश
एकहस्तप्रणामश्च एका चैव प्रदक्षिणा । अकाले दर्शनं चैव हन्ति पुण्यं पुराकृतम् ॥ सकृद्वा न नमेद्यस्तु विष्णवे शर्मकारिणे । शवोपमं विजानीयात्कदाचिदपि नालपेत् ॥ इति । अत्र वा अप्यर्थः । कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुहुः । पश्यन् दृष्ट्या स्तुवन् वाचा मनसा च हरिं स्मरन् । वाराहे, वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् । सदा स जायते मूर्खः सप्तजन्मनि भामिनि ॥
इत्यत्र वस्त्रावरणनिषेधोऽधरीयोत्तरीयातिरिक्तवस्त्रविषयः । तस्य निषेधुमशक्यत्वात् ।
प्रणम्य दण्डवझूमौ नमस्कारेण योऽर्चयेत् । म यां गतिमवाप्नोति न तां क्रतुशतैरपि । जन्मप्रभृति यत्किञ्चित् पुमान् वै धर्ममाचरेत् । सर्व निष्फलतामेति हस्तेनैकेन वन्दनात् ॥ दोभा पद्भ्यां च जानुभ्यामुरसा शिरसा तथा । मनसा वचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः ॥ तथा, पद्भ्यां कराभ्यां शिरसा पञ्चाङ्गा प्रणतिः स्मृता । अष्टाङ्ग उत्तमः प्रोक्तः पञ्चाङ्गो मध्यमः स्मृतः ॥ अष्टाङ्गलक्षणं पुराणान्तरे, उरसा शिरसा दृष्ट्या मनसा श्रद्धया तथा । पद्भ्यां कराभ्यां वाचा च प्रणामोऽष्टाङ्ग उच्यते ।। इति । सङ्ग्रहे तु
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोर्द्रव्यदानहोमविधी ।
शिरो हस्तौ च जानू च चिबुकं बाहुकद्वयम् । पश्चाङ्गं तु नमस्कारो नमस्कारत्रयं स्मृतम् ॥ उत्थायोत्थाय कर्तव्यः प्रणामो दण्डवगुवि । प्रदक्षिणं न कर्त्तव्यं पुरतः पृष्ठदर्शनात् ।। तथा, प्रदक्षिणा न कर्त्तव्या विमुखस्य हि कारणात् । करणमेव कारणम् विमुखीकरणादित्यर्थः । न देवं पृष्ठतः कृत्वा प्रणामं कचिदाचरेत् । वरमुत्थाय कर्त्तव्यं न वृथा भ्रमणं चरेत् ॥ पश्चात्कृत्वा तु यो देवं भ्रमित्वा प्रणमेन्नरः । तस्यैहिकफलं नास्ति न परत्र दुरात्मनः ॥ नरसिंहपुराणे, स्तोत्रै प्यैश्च देवाग्रे यः स्तौति मधुसूदनम् । यः कारयति विष्णोस्तु सन्ध्यायां मन्दिरं नरः॥ पर्वकाले विशेषेण कामगः कामरूपवान् । स सुरखी च विदग्धश्च सेव्यमानोऽप्सरोगणैः ॥ महार्हमणिचित्रेण विमानेन विराजता । स्वर्गात्स्वर्गमनुमाप्य विष्णुलोके महीयते ।। इति । अथ द्रव्यदानविधिः। आराधनार्थ यो मां तु यत्किञ्चिद्रव्यमुत्तमम् । तदत्त्वा नरसिंहाय विष्णुलोके महीयते ॥ वजं तु विष्णवे यस्तु गरुडन समन्वितम् । दद्यात्सोऽपि ध्वजाकीर्णविमानेन विराजता ॥ विष्णुलोकमवामोति सेव्यमानोऽप्सरोगणैः ॥ इति ।
अथ होमविधिर्नरसिंहपुराणे,
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
नारसिंहं समाराध्य विधिनाऽनेन मानवः । नित्यं सर्पिस्तिलैर्होमं ग्रामे यस्मिन् प्रयच्छति ॥ न भवेत्तस्य ग्रामस्य भयं भूतस्य कस्य चित् । अनावृष्टिर्महामारी राजचोरभयं न च ॥ इति । अथ निर्माल्यधारणम् ।
तत्र स्कन्दपुराणम्, पादपीठार्चितं पुष्पं व्यपोह्यैव च तत्त्ववित् । यथा देवस्य निर्माल्यं विष्वक्सेनाय दापयेत् ॥ तथा पवित्र कशेषसूत्रं शतयै प्रदापयेत् । विष्णु स्थितं पुष्पं शिरसा यो बहेन्नरः ।। अपर्युषितपापस्तु भवेद्युगचतुष्टयम् । कृष्णमूर्धाभिषिक्तं तु जलं तत्पादसम्भवम् ॥ कृत्वा मूर्धन्यवामोति फलं कोट्यैन्दवं मुने । यस्य नाभिस्थित पत्रं मुखे शिरसि कर्णयोः || तुलसीसम्भवं नित्यं तीर्थैस्तस्य मखैस्तु किम् । मुखे शिरसि देहे तु विष्णुतीर्थं तु यो वहेत् ॥ तुलसी मुनिशार्दूल तं च न स्पृशते कलिः । विष्णुतीर्थे तु निर्माल्यं यस्याङ्गं स्पृशते मुने ॥ स च रोगैस्तथा पापैर्मुक्तो भवति नारद । गृहीत्वा विष्णुपादाम्बु शते कृत्वा तु वैष्णवः || यो वच्छिरसा नित्यं स मुनिस्तपताम्वरः । कृत्वा पादोदकं शङ्गे वैष्णवानां महात्मनाम् ॥ यो ददाति तिलैर्मिश्रं चान्द्रायणशतं लभेत् । शङ्खोदकं हरेर्भुक्तं निर्माल्यं पादयोर्जलम् ॥ चन्दनं धूपशेषश्च ब्रह्महत्यापहारकम् ।
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोनिर्माल्यधारणम् ।
शङ्खमध्यगतं तोयं भ्रामितं केशवोपरि ॥ अगलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत् । गरुडपुराणे, त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्के वसन्ति विमेन्द्र तस्माच्छङ्ख प्रपूजयेत् ॥ अन्यत्रापि, दर्शनादेव शङ्खस्य किंपुनः स्पर्शने कृते । विलयं यान्ति पापानि हिमवद भास्करोदये ।। भूमौ न स्थापयेच्छङ्घ कदाचिदपि मानवः । विष्णुपूजावसाने तु शङ्खमेवं समर्चयेत् ॥ पूजामन्त्रःत्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । नमितः सर्वदैवैश्च पाश्चजन्य नमोऽस्तु ते ॥ शङ्खतोयं समादाय भ्रामयेत्केशवोपरि । अपराधसहस्रं मे क्षमस्व मधुसूदन ।। भ्रामयित्वा हरेमूर्ध्नि मन्दिरं शङ्खवारिणा । प्रोक्षयेद्वैष्णवो यस्तु नाशुभं तद्गृहे भवेत् ॥ स्कान्दे, शङ्कस्थितं च यत्तोयं भ्रामितं केशवोपरि।। वन्दते शिरसा नित्यं गङ्गास्नानेन तस्य किम् ।। अयं दत्त्वा तु शङ्खन यः करोति प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ कृत्वा पादोदकं शङ्ख वैष्णवानां महात्मनाम् । यो दद्यात्तुलसीमिश्रं चान्द्रायणफलं लभेत् ॥ गारुडे,
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश
विलेपयन्ति देवेशं शङ्ख कृत्वा तु चन्दनम् । परमात्मा परां प्रीतिं करोति शतवार्षिकीम् ।।
अथ गीतनृत्यादिविधिः । गारुडे, ततः प्रमुदितैर्भक्तस्तालवीणादिभूषितैः । कारयेद्गीतनृत्यादि कुर्याच्चानन्दयन् जनम् ॥ विसृज्य लज्जा योऽधीते गायते नृत्यतेऽपि च । कुलकोटिसमायुक्तो लभते मामकं पदम् । यो नृत्यति प्रहृष्टात्मा भक्तिभावैरनेकधा । स निर्दहति पापानि मन्वन्तरशतान्यपि ॥ इति । नारदः, नृत्यतां श्रीपतेर्गेहे तालिकावादनै शम् । उड्डीयन्ते शरीरस्थाः सर्वपातकपक्षिणः ॥ कृष्णं सन्तोषयेद्यस्तु सुगीतैर्मधुरस्वरैः । सामवेदफलं तस्य क्रीडतो विष्णुसन्निधौ ।। नारदीये, विष्णोनृत्यं च गीतं च नटनं च विशेषतः । ब्रह्मन् ब्राह्मणजातीनां कर्त्तव्यं नित्यकर्मवत् ॥ वाराहे, ब्राह्मणो वासुदेवार्थ गायमानोऽनिशं परम् । नववर्षसहस्राणि कुवेरभवने वसेत् ।। जीवनाय तत्करणे निषेधमाहविष्णुः, नृत्यगीतादि कुर्वीत द्विजदेवाग्नितुष्टये । न जीवनाय युञ्जीत विप्रः पापभिया कचित् ॥
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोर्गीतनृत्यादिविधिः ।
स्कन्दपुराणे, . यस्तु वादयते घण्टां वैनतेयेन चिह्निताम् । धूपे नीराजने स्नाने पूजाकाले विलेपने ॥ ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् । मखायुतं गोनियुतं चान्द्रायणशतोद्भवम् । विधिवाह्या कृता पूजा सफला जायते नृणाम् । वैनतेययुता घण्टा सुदर्शनयुता यदि ॥ ममाने स्थापयेद्यस्तु देहे तस्य वसाम्यहम् । वादनाल्लभते पुण्यं यज्ञकोटिसमुद्भवम् । सर्वदोषाः प्रलीयन्ते घण्टानादे कृते सति । देवतानां मुनीन्द्राणां पितृणामुत्सवे भवेत् ॥ तत्रैव, वादित्रनिनदैरुच्चैर्गीतिमङ्गलसंस्तवैः ।। यः स्नापयति देवेशं जीवन्मुक्तो भवेत्तु सः ॥ वादित्राणामभावे तु पूजाकाले तु सर्वदा।। घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयी यतः॥ तथा तत्रैव, स्वकरेण प्रकुर्वन्ति घण्टानादं तु भक्तितः । मदीयार्चनकाले तु फलं कोट्ययुतं कलौ ॥ घण्टादण्डस्य शिखरे वकं स्थापयते तु यः । गरुडं च प्रियं विष्णोः स्थापितं भुवनत्रयम् ॥ . सचक्रघण्टानादं तु अन्तकाले शृणोति यः । पापकोटियुतस्यापि नश्यन्ति यमाकङ्कराः ॥ तत्रैव, यस्य घण्टा गृहे नास्ति शङ्खो वा पुरतो हरेः।
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
०४
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरामेत्रोदयस्य पूजाप्रकाशे
कथं भागवतो नाम गीयते तस्य देहिनः ।। भागवत इत्यस्यानन्तरम् इति पदस्याध्याहारः । अथ स्तोत्रपाठादिमहिमा |
स्कान्दे,
गीतं नृत्यं च वाद्यं च तथा पुस्तकवाचनम् । पूजाकाले तु राजेन्द्र सर्वदा केशवप्रियम् ॥ गीतवाद्याद्यभावे तु विष्णोर्नामसहस्रकम् । स्तवराजं मुनिश्रेष्ठ गजेन्द्रस्य च मोक्षणम् ॥ तथा,
स्तोत्राणां परमं स्तोत्रं विष्णोर्नामसहस्रकम् । हित्वा स्तोत्रसहस्राणि पठनीयं महामुने || तेनैकेन मुनिश्रेष्ठ पठितेन सदा हरिः । प्रीतिमायाति देवेशो युगकोटिशतानि च ॥ विष्णोर्नामसहस्रं च कलिकाले पठेत्तु यः । वेदानां सपुराणानां फलमाप्नोति मानवः ।। मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं हरेः । परिपूर्ण भवत्याशु सहस्त्राख्यस्य कीर्त्तनात् ॥ हलायुधः, शालग्रामशिलाग्रे तु गीताभ्यासं करोति यः । संवत्सरसहस्राणि वसते ब्रह्मणः क्षये ॥ क्षये गृहे । आब्रह्मस्तम्बपर्यन्तं जगतृप्तिं करोति सः । विश्वरूपं सदा ध्यायन् विभूतिं यः पठेद्विजः ॥ गीताध्यायं पठेद्यस्तु श्लोकार्द्ध श्लोकमेव वा । सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ॥
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूजोपयुक्तानि आसनानि ।
तथा,
महाभागवताख्यस्य पुराणस्यैकमक्षरम् | यः पठेत्परया भक्त्या स गोदानफलं लभेत् ॥ लोकार्द्ध श्लोकपादं वा नित्यं भागवतं पठेत् । शृणोति श्रद्धया वापि गोसहस्रफलं लभेत् ।। इति ।
काष्ठम् ।
अथाऽऽसनम् ।
वंशाश्मदारुधरणीतृणपल्लवनिर्मितम् ।
वर्जयेदासनं विद्वान् दारिद्र्यव्याधिदुःखदम् || कृष्णाजिनं कम्बलं च नान्यदासनमिष्यते । नारदः,
वंशासने दरिद्रः स्यात् पाषाणे पापसम्भवः । धरण्यां दुःखसम्भूतिर्दोर्भाग्यं दारुजासने || तृणासने पशोहनिः पल्लवे चित्तविभ्रमः । कृष्णाजिने ज्ञान सिद्धिर्मोक्षसिद्धिस्तु व्यावजे || तत्रैव,
अभिचारादिके नीलं रक्तं वश्यादिकर्मणि । धनदं शान्तिदं मोक्षः सर्वार्थाचैव कम्बले || तथा भागुरिः,
कौशेयं कम्बलं वापि अजिनं पट्टमेव च ।
दारुजं तालपर्ण च आसनं परिकल्पयेत् |
कृष्णाजिनं गृहस्थेतरपरम् । अत्र काष्ठशब्देनायज्ञीयं
नारदीये,
देवार्चामासुरे काष्ठे उपविश्य करोति यः । श्राद्धं वा द्विजशार्दूल तत्पापं विहितं मम ||
For Private And Personal Use Only
९५
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे इति वचनात् , दारुजमिति विष्णुपूजाव्यतिरिक्तकर्मपरम् । काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् । इत्यागमेऽपराधोक्तः, पीठासनोपविष्टस्तु पूजयेद्वा निरासनः । मृन्मये धृपदानं च दीपं च कुरुतेर्चने । इत्यपराधोक्तेश्च । दारुजमपि कुशाद्यन्तरितं ग्राह्यमिति शिष्टाः। तथा, गोमयं मृन्मयं भौमं नम्बं पालाशमेव च । लोहबद्धं तथा दग्धमासनं परिवर्जयेत् ।।
तथा,
शमी च काश्मरी शालः प्लक्षो वा वरणस्तथा । पञ्चासनानि शस्तानि श्राद्धे देवार्चने तथा । पुलस्त्यः , पालाशं वटवृक्षोत्थमाश्वत्थं शाकक्षकम् । मृत्तिकोदुम्बरं पीठं मधूकं च विवर्जयेत् ।। भिन्नपीठानि वानि पितृदेवतकर्मणि । अथ प्रातः उत्थाय शुचिर्भूत्वा विष्णुं विज्ञापयेत् । यदुद्यमादिकं कर्म तत्त्वया प्रेरितो हरे । करिष्यामि त्वदाज्ञेयमिति विज्ञापनं मम॥ प्रातः प्रबोधितो विष्णो हृषीकेशेन यत्त्वया । यद्यत्कारयसे कर्म तत्करोमि तवाज्ञया । इति विज्ञाप्य स्तुत्वा वादित्रादिना प्रबोधयेत् । यथा, प्रबोधकाले देवस्य तूर्यघोषं करोति यः । देवदुन्दुभयस्तस्य तिष्ठन्ति द्वारसन्निधौ ।।
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यपरिशिष्टोक्तविष्णुपूजाप्रकारः। ९७ प्रबोधं नैव कुर्वीत देवदेवस्य शाङ्गिणः । विना तूविना स्तोत्रैजयत्युच्चारणैर्विना ॥
अयं प्रबोधविधिः कार्तिक शुक्लैकादश्यां द्वादश्यां वा क्रियमाणपरमेश्वरजागरविषयः । नित्यप्रबोधविषय इति केचित् ।
इति प्रबोध्य मुखप्रक्षालनार्थ जलं दद्यात् । ततो दन्तकाष्ठं पादुकां मृद्भागं च दद्यात् । यथोक्तम्---
पादुकायाः प्रदानेन गतिमिष्टामवाप्नुयात् । दन्तकाष्ठप्रदानेन नरः सौभाग्यमृच्छति ॥ जिहोल्लेखनिकां दत्त्वा विरोगस्त्वभिजायते । मृद्भागदानाद्देवस्य भूतिमामोत्यनुत्तमाम् ॥ प्रबोधनमभिधाय विष्णुधर्मोत्तरे, पठित्वा तु पियान् श्लोकान् बहुवादित्रनिःस्वनैः । प्रभो नीराजनं कुर्यात् मङ्गलाख्यं जगद्धितम् ॥ नीराजनमिदं सर्वैर्द्रष्टव्यं भुवि विग्रहैः । परमश्रद्धयोपेतैर्वासुदेवपरायणैः ॥ इति ।
___अथ पूजाप्रकारोऽभिधीयते । तत्र विष्णुक्तः, सुमक्षालितपाणिपादः शुचिर्बद्धशिखी दर्भपाणिराचान्तः प्राङ्मुख उपविष्टो ध्यानी मौनी सम्पूजयेत् न नक्तंगृहीतोदकेन देवकर्म कुर्यात् ।
तत्र देहादिशुद्धिक्रमो रत्नकोशे, प्रथमं देहशुद्धिः स्यात्स्थानशुद्धिरनन्तरम् । पात्रशुद्धिस्तृतीया तु आत्मशुद्धिः चतुर्थिका ॥ पश्चमी बिम्बशुद्धिः स्याच्छुद्धयः पञ्च वै स्मृताः । इति । बिम्बशुद्धिर्देवप्रतिमादिशुद्धिः।
अथ गृहापरिशिष्टोक्तः।
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९८ वीरमित्रोदयस्य पूजाप्रकाशे
पतिमाः प्राङ्मुखीरुदङ्मुखो यजेतान्यत्र प्राङ्मुखः सम्भृतसम्भारो यजनभवनमेत्य द्वारदेशे स्थित्वा हस्ततालत्रयेण
अपसर्पन्तु ये भूता ये भूता दिवि संस्थिताः । घे भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥
इति विघ्नानुद्वास्य प्रविश्य, येभ्यो माता मधुमत्पिन्वते पयः। एवा पित्रे विश्वेदेवाय वृष्णे ॥ इति अपित्वा, शुचावासने
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।। इत्युपविश्याऽऽयम्य प्राणान्, कर्म सङ्कल्प्य शुचिशङ्खादिजातं सपवित्रमद्भिः प्रणवेन पूरयित्वा गन्धाक्षतपुष्पाणि प्रक्षिप्य सावित्र्याभिमन्य तीर्थान्यावाह्य तदुदकेनापोहिष्ठीयाभिरात्मानमायतनं यजनाङ्गानि चाभ्युक्ष्य क्रियाकोदकुम्भं गन्धादिभिरभ्यर्च्य नमोऽन्तनाम्ना तत्तल्लिङ्गमन्त्रेण वा क्रमेणोपचारान् कुर्यात् । आवाहनमासनं पाद्यमय॑माचमनीयं स्नानमाचमनं वस्त्रमाचमनमुपवीतमाचमनं गन्धपुष्पाणि धूपं दीपमुपहारमाचमनं मुखवासं स्तोत्रं प्रणामं प्रदक्षिणं विसर्जन कुर्यात् । असंपन्नो मनसा सम्पादयेत् । आचमनमपृथगुपचारः, प्रणामः स्तोत्राङ्ग, प्रदक्षिणं विसर्जनाङ्गम् । अथ मन्त्राः। गणानां त्वा गणपतिमिति गणपतेः । कुमारश्चित्पितरमिति स्कन्दस्य । आकृष्णेनेत्यादित्यस्य । पावकान इति सरस्वत्याः । जातवेदस इति शक्तेः। व्यम्बकमिति रुद्रस्य । गन्धद्वारामिति श्रियः। इदंविष्णुरिति विष्णोः । एवं षोडशोपचारान् पौरुषेण वा सूक्तेन प्रत्यूचं सर्वत्र प्रयुञ्जते। अन्ये सावित्र्या वा जातवेदसर्चया वा प्राजापत्यया व्याहृतिभिर्वा प्रणवेन वा कुर्वन्ति । स एष देवयज्ञोऽहरहर्गोदानसम्मितः सर्वाभीष्टप्रदः स्वर्गापवर्गदश्च । तस्मादे
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शौनकोक्तविष्णुपूजाप्रकारः।
नमहरहः कुर्वीत । तमेनं वैश्वदेवहुतशेषेण पृथगन्नेन वा कुर्यात्रास्य शेषेण वैश्वदेवं कुर्यादिति । ___अत्र प्रतिमाः प्राङ्मुखीरुदङ्मुखो यजेतेति यदुक्तं तत्स्थिरप्रतिमाविषयम् । तथा तत्र दर्शनात् । अन्यत्रेति चलपतिमाविषयामिति ।
अथ शौनकोक्तः । शौनकोऽहं प्रवक्ष्यामि पुरुषसूक्तार्चने विधिम् । उत्थाय पश्चिमे यामे शुचिर्भूत्वा समाहितः ।। गुरुं प्रणम्य पूतात्मा त्रिकालार्चनमारभेत् । प्रातमध्यन्दिने सायं विष्णुपूनां समाचरेत् ।। यथा सन्ध्या भवेन्नित्या देवपूजा तथा बुधैः । अशक्ती विस्तरेणैव ततः सम्पूज्य केशवम् ।। मध्याह्ने चैव सायं च प्रातः पुष्पाञ्जलीन् क्षिपेत् । मध्याह्ने वा विस्तरेण संक्षेपेणाथवा हरिम् ॥ सम्पूज्य भोजनं कुर्यादन्यथा नरकं व्रजेत् । नदीकूपतडागादिहदे प्रश्रवणे तथा । स्नात्वा यथोक्तविधिना प्राङ्मुखः स्वस्थमानसः । तीर्थाभिषेकपूतात्मा कृत्वा चैवोर्ध्वपुण्डूकम् ।। भूषणाद्यैरलङ्कृत्य भूषणादींश्च धारयेत् । मौक्तिकं च प्रवालं च पद्माक्षं तुलसी मणिम् ।। जपपूजनवेलायां धारयेद्यः स वैदिकः।। पवित्रपाणिः पूतात्मा पद्मस्थः स्वस्तिकासने । उपविश्य स्वशाखोक्तक्रियाः कृत्वाऽग्निहोत्रिकाः । धारयेदक्षमालां च पद्माक्षं वाथ धारयेत् ॥ कुर्यादाराधनं विष्णोदेवदेवस्य चक्रिणः ।
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे प्रक्षाल्य पादौ हस्तौ च आचम्य प्रयतः शुचिः॥ पूजागृहं प्रविश्याथ मण्डलं परिलिख्य च । सौवर्णेन चतुर्दारं समाकारं सविस्तरम् ।। मण्डपं रचयित्वा तु वितानध्वजतोरणैः । अपसर्पन्तुमन्त्रेण सर्वविघ्नं निवार्य च ॥ अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नक रस्ते नश्यन्तु शिवाज्ञया । नाराचावं योनिमुद्रां चक्रमुद्रा च दर्शयेत् । मुस्थिरो भव ईशान भव मां रक्ष रक्ष च ।। दिव्यान्तरिक्षभूमिष्ठान विधानस्त्रेण वारयेत् । स्वर्णमयं चतुर्दारयुतं विमलशोभितम् ॥ नयनं मीलितं कृत्वा रचितं मण्डपं स्मरेत् । नानारवैश्च खचितं मौक्तिकैरुपशोभितम् ।। ध्यात्वा सिंहासनं मध्ये द्वारपालांच पूजयेत् । पूजयेद्गणपं भानु तिलकस्वामिनं तथा ॥ क्षेत्रपालं च धातारं विधातारमनन्तरम् । चतुराङ्किते देशे एतान् देवान् पुरो यजेत् ।। ततः पूर्वद्वारमुख्यान भद्रादीनर्चयेत् पृथक् । भद्रं सुभद्रं गङ्गां च यमुनां द्वारशाखयोः॥ चतुर्थ्यन्तं नमोऽन्तं च प्रागद्वारे संपपूजयेत् । बलमबलचिच्छक्तीर्मायाशक्तिं तथैव च ।। चतुर्थ्यन्तं नमोऽन्तं च दक्षिणे संप्रपूजयेत् । चण्डं प्रचण्डं गौरी व श्रियं पश्चिमशाखयोः ।। चतुर्थ्यन्तं नमोऽन्त च पश्चिमे संभपूजयेत् । जयं च विजयं चैव शङ्कपद्यनिधी तथा ।।
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० सं० (मीमांसा) २ (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतवेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञान
(वेदान्तः)६ भिक्षुकृत व्याख्यानम् । सम्पूर्णम्। ) (९) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूर्णा । (जैनदर्शनम् )२ १०) सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण-) परम्-श्रीभाष्यकृतां परमगुरुभिः श्री
(वेदान्तः) १ श्रीयामुनमुनिभिर्विरचितम् । सम्पूर्णम् । (१२) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टा-) रकाचार्यसंगृहीतः । आचार्यचित्सुख
(वेदान्तः)४ मुनिविरचितव्याख्योपेतः (१३) विभक्त्यर्थनिर्णयान्यायानुसारिप्रथमादि-)
सप्तविभक्तिविस्तृतविचाररूपः म० म० (न्यायः)
श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः ) (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम् । सं०(मीमांसा) २
न्यायसुधा (तन्त्रवार्तिकटीका) भट्ट (मीमांसा) १६
सोमेश्वरविरचिता। (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता।।।
(वेदान्तः )२ श्रीक्षेमराजविरचितवृत्तिसमेता। (१६) मीमांसाबालप्रकाशः (जैमिनीयद्वादशा-1
ऽध्यायार्थसंग्रहः) श्रीभट्टनारायणात्मज- (मीमांसा)२
भट्टशङ्करविरचितः। (१७) प्रकरणपश्चिका (प्रभाकरमतानुसारि-मीमांसादर्शनम् ) महामहो
पाध्यायश्रीशालिकनाथमिश्रविरचितं, श्रीशङ्करभट्टकृतो मीमांसासारसंग्रहश्च सम्पूर्णः
(मीमांसा)३ (१८)अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यासमलङ्कृतश्च ।
वेदान्त)३ (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्यायश्रीकर्का
चार्यविरचितभाष्यसहितम् । (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितम् ( वेदान्तः) १ (२१) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आनन्दपूर्ण-)
विरचितया खण्डनफक्किकाविभजनाख्यया ध्या-(वेदान्तः) १३
ख्यया (विद्यासागरी)ति प्रसिद्धया समेतम्।। (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता। (२३)श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्यया
"ऽवतरणिकया च सहितम् ।
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीवजनाथभट्टकृता (वेदान्त) २ (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसिद्धान्तवागीशविरचि
तानि अनुमानजागदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानुमानमाथुयों व्युत्पत्तिवादस्य शक्तिवादस्य मुक्तिवादस्य शब्द
शक्तिप्रकाशिकायाः कुसुमाञ्जलेश्च क्रोडपत्त्राणि । (न्यायः) १ (२६) ब्रह्मसूत्रम्, द्वैताद्वैतदर्शनम् । श्रीसुन्दरभट्टरचितसिद्धान्तसेतुका
ऽभिधटीकासहितश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् । (२७) षड्दर्शनसमुच्चयः । बौद्धनैयायिककापिलजैनवैशेषिक
जैमिनीयदर्शन संक्षेपः। मणिभद्रकृतटीकया सहितः । हरि
भद्रसूाकृितः। (२८) शुद्धाद्वैतमार्तण्डः प्रकाशघ्याख्यासहितः । प्रमेयरत्नाणवश्व (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोमणिकृतदीधित्या
जागदीशी टीका। (३०) वीरमित्रोदयः। महामहोपाध्यायश्रीमित्रमिश्रविरचितः
परिभाषा सस्कारप्रकाशात्मकः । (३२) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्रमिश्रविरचितः
आह्निकप्रकाशः। (३२) स्मृतिसारोद्धारः घिद्वद्वरविश्वम्भरत्रिपाठिसंकलितः । (३३) वेदान्तरत्नमञ्जूषा | श्रीभगवत्पुरुषोत्तमाचार्यकृता । (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितः (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसाभाष्यं श्रीनिम्बार्का
चार्यविरचितम् । (३६) योगदर्शनम् । परमहंसपरिवाजकाचार्य-नारायणतीर्थ
विरचित-योगसिद्धान्तचन्द्रिका-समाख्यया संवलितम् । (३७) वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्यश्रीरामानन्द
सरस्वती स्वाभिकृत ब्रह्माऽमृतवर्षिणी समाख्य व्याख्या
संवलितम् । (विश्वप्रकाशः । कोशः। विद्वद्वर श्रीमहेश्वरसुधीविरचितः। १ (१९) श्रीसुबोधिनी। श्रीवलभाचार्यविनिर्मिता। श्रीमद्भागवतव्याख्या
गोस्वामीश्रीविठ्ठलनाथदीक्षितविरचित टिप्पणीसहिता। (४०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्रमिश्रविरचितः पुजाप्रकाशः।
हरिदास गुप्तः, पत्त्रादिप्रेषणस्थानम्
चौखम्बा, बनारस, सिटी.
WC
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving JinShasan 027193 gyanmandir@kobatirth.org For Private And Personal Use Only