________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश
पूजयेदेवदेवेशं द्रव्यं सम्पाद्य यत्नतः ॥ अन्ये देवतापूजाकालास्तत्तत्पूजाप्रकरणे द्रष्टव्या इति ।
अथ ततद्देवताराधने फलानि ।
मात्स्ये,
आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् । ज्ञानं च शङ्करादिच्छेन्पोक्षमिच्छेज्जनार्द्दनात् ॥
याज्ञवल्क्यः,
आदित्यस्य सदा पूजां तिलकस्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥ तिलकप्रियस्य स्वामिनः स्कन्दस्य । मार्तण्डतिलकस्वामिमहागणपतीन् वयम् । विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः ||
इति वाचस्पत्यश्लोके कल्पतरुणा तथा व्याख्यातम् । विज्ञानेश्वरस्तु तिलकं स्वामिन इति पठित्वा तिलकं सुवर्णादिनितिमिति व्याचख्यौ । पूजामित्यादि त्रिषु सम्बध्यते । सदाश्रवणान्नित्येति केचित् । वस्तुतः फलसम्बन्धश्रवणात्काम्यापि ।
याज्ञवल्क्यः,
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् । विप्रपादोदकोच्छिष्टमार्जनं गोप्रदानवत् ॥ गवाह्निकं देवपूजा वेदाभ्यासः सरित्प्लवः । नाशयन्त्याशुपापानि महापातकजान्यपि ॥ सरित्प्लवो नदीस्नानम् । सरिदत्र पुण्या नदी । देवीपुराणे,
मन्त्रादिसाधनं द्रव्यं रुद्रयागादवाप्यते । धीमेधाज्ञानवात्सल्यमुमायागादवाप्यते ॥
For Private And Personal Use Only