SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विहितनिषिद्धवस्त्राणि । सर्ववाद्यमयी घण्टा देवदेवस्य वल्लभा । तस्मात्सर्वप्रयत्नेन घण्टानादं तु कारयेत् ॥ विष्णुं स्नानार्द्रगात्रं तु वस्त्रेण परिमार्जति तस्य भक्त्या हृषीकेशः कुरुते पापमार्जनम् || I अथ वस्त्रम् । अग्निपुराणे, दुकूलपदृकौशेयकार्पासराङ्कवादिभिः । वासाभिः पूजयेदेवं सुशुभ्रैरात्मनः प्रियैः ।। तथा, वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च । रूपवन्ति हरेर्दत्वा सदशानि नवानि च ॥ यावद्वस्त्रस्य तन्तूनां परिमाणं भवत्यथ । तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ नारसिंहे, वस्त्राभ्यामच्युतं भक्त्या परिधाप्य विचित्रितम् । सोमलोके रमित्वा तु विष्णुलोके महीयते ॥ भरद्वाजः, नेत्रप्रियाणि सूक्ष्माणि नूतनानि धनानि च । न्यायागतानि वखाणि प्रशस्तानि भवन्ति हि ॥ अथ निषिद्धानि । बौधायनः, परिहितमधिरूढमप्रक्षालितं प्रावरणीकृतं मनुष्यसंयुक्तं न देवतासु युञ्जीयात् । आखुदष्टानि दग्धानि जीर्णान्यन्यैर्धृतानि च । मिशन शीर्णानि स्थूलान्युपहतानि च । For Private And Personal Use Only ३७
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy