SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे दुष्कर्मसु प्रयुक्तानि देवताभिर्धृतानि च ॥ स्यूतान्यन्यायलब्धानि न स्युः शस्तानि जातुचित् । वाराहे, नीलीरञ्जितवस्त्रं यो मय मां निवेदयेत् । नवमक्षालितं चैव स चिरं रौरवं वसेत् || वस्त्रं कार्पासम् । ऊर्णायां पट्टवस्त्रे वा नीलीरागो न दुष्यति । इत्युक्तेः । अथ यज्ञोपवीतम् | यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय वा । भवेद्विचतुर्वेदी शुद्धधर्नात्र संशयः ॥ नरसिंहपुराणे, त्रिवृच्छुकं च पीतं च पट्टसूत्रादिनिर्मितम् । यज्ञोपवीतं गोविन्दे दत्वा वेदान्तगो भवेत् || त्रिवृत् नवगुणम् । नन्दिपुराणे, अलङ्कारं च यो दद्याद्विप्राय च सुराय च । सोमलोके रमित्वा तु विष्णुलोके महीयते ॥ स्वशक्त्या देवदेवेशं भूषणैर्भूषयन्ति ये । हेमजै रत्नजैः शुभ्रैर्मणिमैश्व सुशोभितैः || तेषां फलं शतानन्दो न रुद्रो वासवादयः । जानन्ति मुनयो नैव वर्जयित्वा तु माधवम् ॥ नृसिंहपुराणे, सुवर्णाभरणैर्दिव्यैहर केयूरकुण्डलैः । मुकुटैः कटकाद्यैस्तु यो विष्णुं पूजयेन्नृप । सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy