SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोधूपाः। युपेष्वपि परिज्ञयास्त एव प्रीतिवर्धनाः ॥ इति । वामनपुराणे, रुहिकाख्यं कणो दारु सिहकं चागुरु सितम् । शङ्खो जातीफलं श्रीशे धृपानि स्युः प्रियाणि वै ॥ रूहिका मांसी । कणो गुग्गुलुः । दारुः देवदारुः । सितं कर्पूरम् । शङ्खो नखी। धूपानीति बहुवचतात् प्रत्येक धूपत्वमेषाम् । नरसिंहपुराण, महिषाख्यं गुग्गुलं य आज्यसिक्तं सशर्करम् । धूपं ददाति राजेन्द्र नरसिंहाय भक्तिमान् ॥ स धूपितः सर्वदिक्षु सर्वपापविवर्जितः । अप्सरोगणयुक्तेन विमानेन विराजता । वायुलोकं समासाद्य विष्णुलोके महीयते ॥ विष्णुधर्मोत्तरे, वसन्ते गुग्गुलं दत्त्वा अग्निष्टोमफलं लभेत । ग्रीष्मे चन्दनसारेण द्वादशाहफलं लभेत् ॥ तुरुष्कदानेन तथा प्रादृष्यमरतां व्रजेत् । कर्पूरदानाच्छरदि राजसूयमवाप्नुयात् ।। हेमन्ते मृगदर्पण वाजिमेधफलं लभेत् । शिशिरेऽगुरुसारेण सर्वमेधफलं लभेत् ।। कृष्णागुरुसमुत्थेन धृपेन श्रीधरालयम् । धृपयेद्वैष्णवो यस्तु स मुक्तो नरकार्णवात् ।। गौतमः, तीर्थकोटिशतैर्मयों यथा भवति निर्मलः । करोति निर्मलं देहं धूपशेषस्तथा हरेः॥ For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy