SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोर्नैवेद्यपात्राणि । पलाण्डुं लशुनं शुक्तं निष्पावं चैव वर्जयेत् ॥ जालिका शतपुष्पा । शुक्तं पर्युषितम् । निष्पावनां वि हितप्रतिषिद्धत्वात् विकल्पः । अतिपका अपक्काश्च दुःस्पृष्टा मण्डकादयः । नैवेद्ये तेऽप्ययोग्याः स्युमेदिकाद्याः पुरातनाः ॥ अतिपकमपकं च सुपकं कृमिसंयुतम् । दुर्भाण्डस्थमसयस्कं दुर्गन्धि न शुभं स्मृतम् ॥ हलायुधः, यद्यथा भक्ष्यते भक्ष्यं तत्तथैव प्रदापयेत् । अन्यथा तत्प्रदानेन न तत्फलमवाप्नुयात् ॥ इति । यथा पाचनखण्डनप्रक्षालनादिना यस्यान्नादेर्भक्षार्हता भ वेत् तथा देवमित्यर्थः । अथवा यथा स्वयमुत्तमं भुज्यते तथा देवायापि देयम्, अन्यथा दोष इति । अथ प्रसङ्गान्नैवेद्यपात्राणि । स्कन्दपुराणे, नैवेद्यपात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं राजतं कांस्यं ताम्रं मृन्मयमेव च ॥ पालाशं पद्मपत्रं वा पात्रं विष्णोरतिप्रियम् । वाराहे, सौवर्ण राजतं कांस्यं येन दीयेत प्रायणम् । तानि सर्वाणि संत्यज्य ताम्रं तु मम रोचते ॥ सुदीक्षितैर्विशुद्धैस्तु मम कर्मपरायणैः । सदा ताम्रेण कर्त्तव्यमेवं भूमे मम प्रियम् ॥ प्रायणं नैवेद्यम् | नैवेद्यं तुलसीमिश्रं घण्टाद्यैर्जयनिःस्वनैः । १९ For Private And Personal Use Only ८१
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy