SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः । १९ खण्डितां स्फुटितां मां पार्श्वभिन्नां विभेदिताम् ॥ शालग्रामसमुद्भूतां शिलां तु पूजयेत्सदा । न तत्र दोषो मन्तव्यो विद्युत्पाताग्निसम्भवः ॥ इति । वाराहे, ये केचिचैव पापाणा विष्णुचक्रेण चिह्निताः । तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्विषैः ॥ पाद्मेपि, खण्डितं त्रुटितं भयं पार्श्वभिन्नं सुभेदितम् । शालग्रामसमुद्भूतं शैलं दोषावहं नहि ।। इति । तथा, शिला द्वादश भो वैश्य शालग्रामसमुद्भवाः । विधिवत्पूजिता येन तस्य पुण्यं वदाम्यहम् ॥ कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः । यत्स्यात् द्वादशकल्पेषु दिनेनैकेन तद्भवेत् ।। तथा, यः पुमान् पूजयेद्भक्त्या शालग्रामशिलाशतम् । उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते ॥ अन्यदपि, शालग्रामशिलायां हि यः श्राद्धं कुरुते नरः । पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥ तथा, शालग्रामशिलायां यो मूल्यमुत्पादयेन्नरः । विक्रेता चानुमन्ता च यः परीक्ष्यानुमोदकः ॥ सर्वे ते नरकं यान्ति यावदाभूतसंम् ॥ इति । कोटिलिङ्गसहस्रैस्तु पूजितैर्जाह्नवीतटे । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy